श्रीनारायणमुनिरुवाच :-
वार्षिकांश्चतुरो मासान्ग्रामे वा नगरे वसेत् । मासद्वयं चापदि तु स्थित्वैकत्र ततो व्रजेत् ।।१।।
वर्षासु यावतो ग्रामान् लङ्घयेत्तावतो यतिः । कृच्छ्रोपवासान्कुर्वीत ततः शुद्धो भवेत्किल ।।२।।
अनाचारे वसेन्नैव ग्रामे वा नगरेऽपि वा । स्वाचारेऽपि स्वसम्बन्धी यत्र स्यात्तत्र नो वसेत् ।।३।।
तस्करोपद्रुते ग्रामे ब्रह्महत्यादिदूषिते । दुर्भिक्षे राष्ट्रभङ्गे वा वर्षास्वप्याशु तं त्यजेत् ।।४।।
मासद्वये पौर्णमास्यां यतीनां केशवापनम् । वर्षासु तन्न कर्तव्यं नदीनां तरणं तथा ।।५।।
आसनं पात्रलोपश्च सञ्चयः शिष्यसङ्ग्रहः । दिवास्वापो वृथालापो यतेर्बन्धकराणि षट् ।।६।।
एकाहात्परतो ग्रामे पञ्चाहात्परतः पुरे । वर्षाभ्योऽन्यत्र यत्स्थानमासनं तदुदाहृतम् ।।७।।
उक्तालाब्वादिपात्राणामेकस्यापि न सङ्ग्रहः । भिक्षोर्भैक्षभुजश्चापि पात्रलोपः स उच्यते ।।८।।
गृहीततस्तु दण्डादेर्द्वितीयस्य परिग्रहः । कालान्तरोपभोगार्थं सञ्चयः स प्रकीर्तितः ।।९।।
शुश्रूषालाभपूजार्थं यशोर्थं वा परिग्रहः । शिष्याणां तु न कारुण्यात्स ज्ञोयः शिष्यसङ्ग्रहः ।।१०।।
विद्यादीनां प्रकाशत्वादविद्या रात्रिरुच्यते । विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते ।।११।।
आध्यात्मिकीं कथां मुक्त्वा भैक्षादेस्तु प्रशंसनम् । नृपयुद्धादिवार्ताश्च वृथालापः स उच्यते ।।१२।।
वराटकेऽपि यतिना संगृहीते दिने दिने । गोसहस्रवधं पापं श्रुतिरेषा सनातनी ।।१३।।
हृदि सस्नेहभावेन चेत्पश्येत्स्त्रियमेकदा । कल्पकोटिद्वयं याति कुम्भीपाकं न संशयः ।।१४।।
न स्ननमाचरेद्बिक्षुः पुत्रादिनिधने श्रुते । पितृमातृक्षयं श्रुत्वा स्नत्वा शुद्धयति साम्बरः ।।१५।।
पारिव्राज्यं गृहीत्वा तु स्वधर्मे यो न वर्तते । श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ।।१६।।
छेदने भेदने पाके वीर्योत्सर्गे प्रवर्तते । यस्तं दृा यतिं कार्यं सचैलं स्ननमेव हि ।।१७।।
तिलधान्यहिरण्यक्ष्मागोदासीगृहसङ्ग्रही । यतिः सद्बिर्बहिष्कार्यः स्नतव्यं तस्य दर्शनात् ।।१८।।
सन्न्यासधर्ममारूढो यः प्रत्यावर्तते पुनः । स निन्द्यः सर्वभूतानां पितृघ्नश्चैव जायते ।।१९।।
चण्डालाः प्रत्यवसिताः परिव्राजकतापसाः । तेषां जातान्यपत्यानि चण्डालैर्वासयेन्नृपः ।।२०।।
अन्नदानपरो भिक्षुश्चतुरो हन्ति धर्महा । स्वस्यान्नदं गृहीतारमन्नं स्वं च तुरीयकम् ।।२१।।
निशान्नं शुक्लवस्त्रं च ताम्बूलं मद्यमामिषम् । वाहनं तूलिका मञ्चो धनं नारी रसा इति ।।२२।।
एतानि यस्य सन्न्यासी भुङ्क्ते तस्य कुलं तथा । यतेः कुलं च नरके रौरवे पतति ध्रुवम् ।।२३।।
ग्रामद्वये यदा भिक्षुश्चरेद्बैक्षं प्रमादतः । कञ्चुकं धारयेद्वा यः स तु चान्द्रायणं चरेत् ।।२४।।
धान्यं वृक्षं लतां मूलं फलपुष्पदलानि वा । उत्पाटयेद्यतिर्यस्तु सोऽवीचिं नरकं व्रजेत् ।।२५।।
हनने सूक्ष्मजन्तूनां प्राणायामान्दशाचरेत् । स्वप्ने स्त्रीसङ्गमे स्नत्वा त्रिसहस्रं मनुं जपेत् ।।२६।।
स्कन्देदिन्द्रियदौर्बल्यात्स्त्रियं दृा यतिर्यदि । त्रिरात्रमुपवासं च प्राणायामशतं चरेत् ।।२७।।
स्वप्ने तु क्षरणे स्नत्वा प्राणायामान्दशाचरेत् । उपवासस्तु सर्वत्र वीर्यपाते यतेर्मतः ।।२८।।
भिक्षाक्रियादेरन्यत्र स्त्रिया सह वदेद्यदि । अकामात्तर्ह्युपवसेत्स्नत्वा नाम हरेर्जपन् ।।२९।।
एवमेव प्रकर्तव्यं स्त्रीकथाश्रवणादिषु । सप्तस्वकामतो नूनं यतिना धर्मचारिणा ।।३०।।
कामाद्यदि सकृत्कुर्यात्सप्तस्वन्यतमं यतिः । तप्तकृच्छ्रं व्रतं कुर्यात्तदा नाम जपन् हरेः ।।३१।।
अष्टमे मैथुने साक्षाज्जाते त्वस्य तु निष्कृतिम् । लिङ्गस्योत्कर्तनं कुर्यात्स्वयमेव यतिर्वने ।।३२।।
स्वकर्म ख्यापयँल्लोके तीर्थानि विचरेत्सदा । फलमूलाशनो दान्तः सतां शुद्धयेत् प्रसादनात् ।।३३।।
यस्तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् । षष्ठिं वर्षसहस्राणि विष्ठायां जायते क्रिमिः ।।३४।।
कण्डूयनेन चेद्वीर्यं पातयेत्काममोहितः । जपेत्त्रिलक्षं प्रणवं कृत्वा सान्तपनद्वयम् ।।३५।।
असद्वादे च कर्तव्यो यतिना धर्मभीरुणा । अहोरात्रोपवासश्च प्राणायामशतं तथा ।।३६।।
एकान्नं मधु मांसं च तथैव श्राद्धभोजनम् । अभोज्यानि यतीनां वै प्रत्यक्षलवणं तथा ।।३७।।
अज्ञानात्सेवने जाते एषामेकतमस्य च । प्राजापत्यं चरेत्कृच्छ्रं विष्णुनामानि सञ्जपन् ।।३८।।
व्यतिक्रमाश्च ये केचिद्वाङ्मनःकायसम्भवाः । सद्भ्यस्तांस्तु निवेद्यैव यद्ब्रूयुस्ते तदाचरेत् ।।३९।।
एवं स्मृत्युक्तधर्मेभ्यो न चलेद्यो यतिः क्वचित् । स प्राप्नुयाद्ब्रह्मलोकं यतीनामभिवाञ्छितम् ।४०
भक्त्या भगवतः साकं समाचरति यो यतिः । सन्न्यासधर्मानेतान्वै प्राप्नोति स पदं हरेः ।।४१।।
केचिच्च ज्ञानसन्न्यासो वेदसन्न्यास एव च । कर्मसन्न्यास इत्येवं न्यासे त्रैविध्यमूचिरे ।।४२।।
सर्वसङ्गविनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः । प्रोच्यते ज्ञानसन्न्यासी स्वात्मन्येव व्यवस्थितः ।।४३।।
वेदमेवाभ्यसेन्नित्यं निर्द्वन्द्वो निष्परिग्रहः । प्रोच्यते वेदसन्न्यासी मुमुक्षुर्विजितेन्द्रियः ।।४४।।
यस्त्वग्नीनात्मसात् कृत्वा ब्रह्मार्पणपरो द्विजः । स ज्ञोयः कर्मसन्न्यासी महायज्ञापरायणः ।।४५।।
त्रयाणामपि चैतेषामाद्यस्त्वभ्यधिको मतः । न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ।।४६।।
यदि वैराग्यदार्ढयेन स्याद्बक्तिज्ञानयोर्हरेः । प्रपक्वता यतेस्तर्हि लिङ्गं दण्डादिकं त्यजेत् ।।४७।।
सुखदुःखादिकं देहप्रारब्धानुगतं विदन् । सलिङ्गमाश्रमं त्यक्त्वा चरेदविधिगोचरः ।।४८।।
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् । सन्दिग्धः सर्वभूतानां वर्णाश्रमविवर्जितः ।।४९।।
उन्मत्तबालजडवन्मूकवच्च महीं चरेत् । मोक्षधर्मेषु निरतो लब्धाहारो जितेन्द्रियः ।।५०।।
ब्रह्मानन्दे सदा मग्नं निराशं निष्परिग्रहम् । अभ्येति सर्वतः सौख्यं जलानीव महोदधिम् ।।५१।।
त्यागी य ईदृशो विप्र ! निर्विकल्पसमाधिमान् । स महामुक्त इत्युक्तः प्राप्तः सिद्धदशां शुभाम् ।५२
सविकल्पसमाधिस्था ज्ञानिमुक्तास्तु ये द्विजः । आस्थिताः साधनदशामित्युक्ता न्यासिनस्तु ते ।५३
ये वैराग्यबलेनाथ परित्यक्तगृहाश्रमाः । त्रैवर्णिकास्ते सम्प्रोक्ता वैष्णवाः साधुवृत्तयः ।।५४।।
लोभं कामं रसास्वादं स्नेहं मानं विजित्य तैः । त्यागिभिः सर्वभावेन सेवनीयो हरिः सदा ।।५५।।
चतुर्ष्वेतेथु वर्णेषु चतुर्ष्वप्याश्रमेषु च । गृीयुर्विष्णुदीक्षां ये सामान्यां महतीं च वा ।।५६।।
तेषां सामान्यतो धर्मास्त्वेत एवाखिला अपि । विशेषधर्मा ये ते ज्ञोया दीक्षाविधेस्त्वया ।।५७।।
वर्णाश्रमाणामिति तेऽखिलानां धर्मा मयोक्ता द्विजवर्य ! सर्वे ।
पठिष्यति श्रोष्यति वा य एतान् धर्मे मतिं प्राप्स्यति स स्थिरां वै ।।५८।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे सन्न्यासधर्मेषु त्यागीहेयकर्मतत्प्रायश्चित्तनिरूपणनामैकचत्वारिंशोऽध्यायः ।।४१।।