द्विचत्वारिंशोऽध्यायः

ब्राह्मण उवाच :- 


चातुर्वर्ण्येतरे ये स्युर्ये चान्ये दस्युवृत्तयः । किरातप्रमुखास्तेषां धर्मान् ब्रूहि जगग्दुरो ! ।।१।।


श्रीनारायणमुनिरुवाच :-

चातुर्वर्ण्येतरे ये तु सूतवैदेहकादयः । किरातशककङ्काद्या ये च स्युर्दस्युवृत्तयः ।।२।।

मातापित्रोर्हि शुश्रूषा गुरोश्चाश्रमवासिनाम् । भूमिपानां च कर्तव्या तैर्विप्र ! स्वहितार्थिभिः ।।३।।

वृत्तिः सङ्करजातीनां तत्तत्कुलकृता मता । कुलाचारगता हिंसा वर्ज्या चौर्यं च सर्वथा ।।४।।

अहिंसा सत्यमक्रोधः शौचमद्रोह एव च । धर्मा एते हि सामान्याः सर्वेषां समुदीरिताः ।।५।।

तैः सर्वैः पितृयज्ञाश्च कार्याः कृपाः प्रप्रास्तथा । दानं देयं यथाशक्ति ब्राह्मणेभ्यश्च भक्तितः ।।६।।

दक्षिणा सर्वयज्ञानां दातव्या धनिभिश्च तैः । अन्नवस्त्रादिभिः कार्यं पुत्रदारादिपोषणम् ।।७।।

सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु केनचित् । युध्यमानो हि हन्तव्यो न च ग्राह्या बलात्स्त्रियः ।।८।।

गवां सतां च विप्राणां योद्धव्यं रक्षणाय वै । तपस्वी च शिशुर्भीरुर्न हन्तव्यः कदाचन ।।९।।

सर्वस्वेनापि कर्तव्या शुश्रूषा च तपस्विनाम् । अन्नैः फलैरम्बुना वा कार्यं चातिथितर्पणम् ।।१०।।

देवाश्च पितरो विप्रा मान्याः पूज्याश्च भक्तितः । ये तांश्च पीडयेयुस्ते शिक्षणीया यथोचितम् ।।११।।

न सस्यमपहर्तव्यं परक्षेत्राच्च दस्युभिः । जीविकासाधनं यत्तन्नाशनीयं न कस्यचित् ।।१२।।

नातिक्रमः सतां क्वापि कर्तव्यो मनसाऽपि तैः । कृते तु सुकृतं सर्वं समूलं नश्यति ध्रूवम् ।।१३।।

इति सङ्करचातीनां दस्यूनां च हितावहाः । धर्माः प्रोक्ता यथाशास्त्रं मया श्रेयस्करा द्विज ! ।।१४।।


सुव्रत उवाच :-

इति प्रोक्तान् भगवता श्रुत्वा धर्मान् स वाडवः । प्रसन्नो धरणीपाल ! पुनः पप्रच्छ तं प्रभुम् ।।१५।।


ब्राह्मण उवाच :-

धर्माः प्रोक्तास्त्वया स्वामिन् ! पृथक्पृथगनुक्रमात् । वर्णानामाश्रमाणां च तद्बाह्यानां च सर्वशः १६

अधुना श्रोतुमिच्छामि प्रायश्चित्तविधिं विभो ! पापस्य सम्भवे क्वापि वर्णानां विहितोऽत्र यः ।।१७।।

महतामपि पापानामल्पानां च जगग्दुरो ! । निष्कृतिं ब्रूहि मे सर्वां कर्तव्यां सर्वथा नृभिः ।।१८।।

व्रतानां तत्र कार्याणां कृच्छ्रादिनां च सर्वशः । लक्षणान्यपि मे स्वामिन्कृपया वक्तुमर्हसि ।।१९।।


सुव्रत उवाच :-

इति तेन स पृष्ट उवाच हरिर्ननु धर्मरहस्यमशेषमपि ।अवगन्तुमुदारधिया नृप ! तं मुदितश्च यथागममेव वचः ।।२०।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे सङ्करजातिधर्मनिरूपणनामा द्विचत्वारिंशोऽध्यायः ।।४२।।