त्रिचत्वारिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :-


प्रायश्चित्तविधिं विप्र ! कथये ते समासतः । विस्तारोऽन्यत्र तस्यास्ति सारमात्रमिहोच्यते ।।१।।

गुरूणां च लघूनां च क्षयकृत्पापकर्मणाम् । साधनं यत्तदेवात्र प्रायश्चित्तमितीर्यते ।।२।।

षड्विधानि च पापानि प्रोक्तान्येव महर्षिभिः । पतकं च महापापमुपपापं प्रकीर्णकम् ।।३।।

अतिपापं पञ्चमं च षष्ठमत्यधिपातकम् । स्युर्द्वेधैतानि प्रत्येकं कामाकामकृतत्वतः ।।४।।

महापापैस्तु तुल्यानि कथ्यन्ते पातकाख्यया । ब्रह्महत्या सुरापानं स्वर्णस्तेयं तृतीयकम् ।।५।।

गुरुस्त्रीगमनं चैतत्पापकृत्सङ्ग एव च । महापापाभिधानीति पञ्च प्रोक्तानि सत्तम ! ।।६।।

पातकाद्यद्बवेन्न्यूनं तदुक्तमुपपातकम् । महापापाद्यदधिकमतिपापं तदुच्यते ।।७।।

तस्मादप्यधिकं यत्तत्प्रोक्तमत्यधिपातकम् । उपपापात्तु यन्न्यूनं तत्प्रकीर्णमिहोच्यते ।।८।।

प्रायश्चित्तं तु यद्यस्य प्रोक्तमत्र च तद्बुधैः । अकामतः कृते पापे तद्धि द्विगुणमन्यथा ।।९।।

ज्ञात्वाऽभ्यासकृते पापे प्रायश्चित्तं न विद्यते । नरकाच्च कुयोनिभ्यस्तादृक्पापी न मुच्यते ।।१०।।

कर्ता कारयिता तद्वदनुमन्ता सहायकृत । अनुग्राहक इत्येते कर्मणां फलभागिनः ।।११।।

उनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेत्भ्राता पिता वाऽन्यः सुहृज्जनः ।।१२।।

बालस्य नैव षष्ठाब्दात्पूर्वं पातकमस्ति हि । न राजदण्डस्तस्यास्ति प्रायश्चित्तं न विद्यते ।।१३।।

एकादशाब्दतो बालः षोडशाब्दावधि स्वयम् । प्रायश्चित्तार्धं कुर्वीत वृद्धरोगिस्त्रियस्तथा ।।१४।।

बुद्धिपूर्वं न कर्तव्यं पातकं क्वापि केनचित् । अकामतः सकृज्जाते तस्य कुर्वीत निष्कृतिम् ।।१५।।

स्नत्वैव पर्षदे दत्त्वा गां सुवर्णं च पूरुषः । बद्धाञ्जलिः स दुष्कर्मा पापं स्वीयं निवेदयेत् ।।१६।।

पर्षद्दशावरैर्विप्रैर्ब्राह्मणानामुदीरिता वेदशास्त्रार्थसम्पन्नैर्धर्मनिष्ठैर्जितेन्द्रियैः ।।१७।।

वेदशास्त्रविदो विप्रा यद्ब्रूयुः पञ्च सप्त वा । त्रयो वापि स धर्मः स्यादेको वाऽध्यात्मवित्तमः ।।१८

पर्षद्या ब्राह्मणानां तु सा राज्ञां द्विगुणा मता । वैश्यानां त्रिगुणा प्रोक्ता पर्षद्वच्च व्रतं स्मृतम् ।।१९।।

नैव लक्षेण मूर्खाणां न चैवाधर्मवादिनाम् । पर्षद्बवेन्न लुब्धानां न चापि पक्षपातिनाम् ।।२०।।

न सा वृद्धैर्न तरुणैर्न सुरूपैर्धनान्वितैः । त्रिभिरेकेन पर्षत्स्याद्विद्वद्बिर्विदुषापि वा ।।२१।।

श्रुताध्ययनसम्पन्नः सत्यवादी जितेन्द्रियः । सदा धर्मरतः शान्तो यः स पर्षत्त्वमर्हति ।।२२।।

वयसा तनवोऽपि स्युर्यदि धर्मविदो द्विजाः । त एव वृद्धा विज्ञोया न मूर्खाः पलिता वृथा ।।२३।।

यत्र सत्यं तत्र धर्मो ह्यधर्मस्त्वितरत्र च । धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।।२४।।

निष्कृतौ व्यवहारे च व्रतस्यादेशने तथा । धर्मं वा यदि वाऽधर्मं पर्षद्यत्प्राह तद्बयत्प्राह तद्बवेत्त्र २५

ज्योतिषं व्यवहारं च प्रायश्चितं चिकित्सितम् । अजानन्योऽन्यथा ब्रूयात्स महापातकी भवेत् ।।२६

पर्षदुक्तक्रियाचारात्पातकी तु भवेच्छुचिः । तत्रोक्तो यद्यधर्मः स्यात् पर्षत्तेन तु लिप्यते ।।२७।।

तस्मात्सत्यं समाश्रित्य धार्मिकैः पापभीरुभिः । धर्म एव हि वक्तव्यः पर्षद्विप्रैर्न चेतरः ।।२८।।

स्त्रीणां च बालवृद्धानां क्षीणानां कुशरीरिणाम् । उपवासाद्यशक्तानां कर्तव्योऽनुग्रहश्च तैः ।।२९।।

ज्ञात्वा देशं च कालं च वयः सामर्थ्यमेव च । कर्तव्योऽनुग्रहः सद्बिर्ब्राह्मणैर्धर्मवेदिभिः ।।३०।।

लोभान्मोहाद्बयान्मैत्राद्यदि कुर्युरनुग्रहम् । नरकान् यान्ति ते मूढा रौरवान्नात्र संशयः ।।३१।।

धार्मिकैरेव मन्वाद्यैर्धर्मविद्बिः पुरातनैः । धर्मः प्रोक्तोऽस्ति नत्वन्यैस्ततो वाच्यो विचार्य सः ।।३२

देशाचारं कुलाचारं ग्रामाचारं विबुध्य च । शास्त्राचारः प्रवक्तव्यः सहसा न तु कर्हिचित् ।।३३।।

पर्षदुक्तप्रकारेण पातकी व्रतमाचरेत् । तेनैव हि भवेत्छुद्धस्त्वन्यथा नरकं व्रजेत् ।।३४।।

रहस्यपापकर्मा तु शास्त्रं दृा स्वयं बुधः । यथोक्तनिष्कृतिं कुर्यादन्यस्त्वापृच्छय सद्बुधम् ।।३५।।

तत्राऽदितस्ते महतामघानां तेषां समानां च यथार्षशास्त्रम् ।
वदाम्यहं निष्कृतिमत्र शक्त्या नृभिर्विधेयां द्विजवर्य ! सुज्ञौः ।।३६।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे प्रायश्चित्तविधौ पर्षन्निरूपणनामा त्रिचत्वारिंशोऽध्यायः ।।४३।।