चतुर्चत्वारिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


ब्राह्मणो ब्राह्मणं हन्याद्यद्यकामात्तदा स्वयम् । द्वादशाब्दान्प्रकुर्वीत व्रतं पापापनुत्तये ।।१।।

धृत्वा कपालं शिरसः स्वहतस्य द्विजन्मनः । अन्यस्य वा तदप्राप्तौ चिह्नार्थं स्वकरे पुनः ।।२।।

द्वितीयेऽन्यत्कपालं च दण्डाग्रारोपितं करे । शरावं मृन्मयं खण्डं भिक्षार्थं लेहितं दधत् ।।३।।

वसेद्वने कुटीं कृत्वा ग्रामाद्वा बहिरेकलः ।वृक्षमूलेऽथवा वालवासाः सर्वहिते रतः ।।४।।

वन्यैः फलादिभिर्जीवेद्ग्रामाद्वा भैक्षमाहरेत् । अकल्पितान्सप्त गृहान् याचेत् स्वं कर्म वेदयन् ।।५

भुञ्जीत स्थानमागत्य सकृदेव जितेन्द्रियः । पालयेद्ब्रह्मचर्यं च स्वधर्मस्थो जटाधरः ।।६।।

नित्यं शीतोदके स्नयाग्दच्छेत्तीर्थानि शुद्धये । सर्वत्रावेदयेत्कर्म पूर्णे काले विशुद्धयति ।।७।।

चोरव्याघ्रादितो रक्षन् विप्रं गा वा म्रियेत चेत् । जीवेद्वा सोऽप्यपूर्णस्वद्वादशाब्दोऽपि शुद्धयति ।८

कस्यापि वाजिमेधान्ते नृपभूदेवसङ्गमे । एनो निवेद्यावभृथे स्नत्वाप्याशु विशुद्धयति ।।९।।

तीव्ररोगं द्विजं गां वा प्रारब्धद्वादशाब्दिकः । नीरोगमौषधैः कुर्याद्बुक्ताब्दैः सोऽपि शुद्धयति ।।१०।।

प्रायश्चित्ते समारब्धे कर्ता यदि विपद्यते । पूतस्तदहरेवासाविह लोके परत्र च ।।११।।

पाप्यनुग्राहकः कुर्यात्पादन्यूनं तु तद्व्रतम् । प्रयोजकोऽर्धं कुर्वीतानुमन्ता सार्धपादकम् ।।१२।।

प्रोत्साहकादिभिः कार्यमेकपादं व्रतं त्विदम् । वचसा चेच्चरेत्पापं पादार्धं व्रतमाचरेत् ।।१३।।

मनसा चेद्ब्रह्महत्यां यः कुर्यात्सोऽप्युपावसेत् । दिनानि द्वादश ततः पञ्चगव्येन शुद्धयति ।।१४।।

तिरस्कृतो यदा विप्रो गृहक्षेत्रादिकारणात् । क्रोधादात्मानमाहत्य निर्गुणोऽपि म्रियेत तत् ।।१५।।

कृच्छ्रं वर्षत्रयं कुर्यात्प्रतिलोमां सरस्वतीम् । गच्छेद्वात्मविशुद्धयर्थं निमित्ती स्यात्ततः शुचिः ।।१६।।

द्वादशाब्दमिदं तुभ्यं यत्प्रायश्चित्तमीरितम् । विप्रे तन्निर्गुणे ज्ञोयं सगुणे द्विगुणं चरेत् ।।१७।।

अशक्तो द्विगुणं कर्तुं कृत्वाऽयं द्वादशाब्दिकम् । अन्यार्थं गोसहस्रं तु पात्रेभ्यः प्रतिपादयेत् ।।१८

ब्राह्मणं क्षत्रियो हन्याद्वैश्यो वा यद्यकामतः । आद्यस्तु द्विगुणं विप्रात् त्रिगुणं त्वपरश्चरेत् ।।१९।।

प्रायश्चित्तं गृहस्थेभ्यो द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं तु वनस्थानां यतीनां तच्चतुर्गुणम् ।।२०।।

गुरूणामध्यधिक्षेपो नास्तिक्याद्वेदनिन्दनम् । असच्छास्त्रविनोदाद्यैरधीतनिगमत्यजिः ।।२१।।

राज्ञो मूर्धाभिषिक्तस्य दीक्षितस्य च यो वधः । गर्भिण्याः सवनस्थाश्चात्रेय्या घातनं तथा ।।२२।।

गर्भघातश्चौषधाद्यैः शरणागतघातनम् । पातकानीति विद्धि त्वं ब्रह्महत्यासमानि हि ।।२३।।

महापापेषु यत्प्रोक्तं तदर्धं तु समे भवेत् । सुरापानस्य कथये प्रायश्चित्तमतः परम् ।।२४।।

ब्राह्मणः क्षत्रियो वैश्यः सुरां पिबति चेत्सकृत् । अकामतः स तु पुमानार्द्रवासा द्विजान्तिके ।।२५।।

लौहे पात्रे वह्निवर्णां सुरां कृत्वा पिबेत्स्वयम् । तेनैव पात्रेण ततो मृतः शुद्धिमवाप्नुयात् ।।२६।।

अथवा द्वादशैवाब्दान् पूर्ववद्व्रतमाचरेत् । सुराचिह्नं ध्वजं हस्ते पानपात्रं च धारयेत् ।।२७।।

अन्यत्तु पूर्ववत्सर्वं कुर्यात्तीर्थान्यनेकशः । पूर्णे काले ततः शुद्धयेत्पुनः संस्कारकर्मणा ।।२८।।

भ्रमादुदकबुध्धा चेत्सुरापानं कृतं तदा । छर्दित्वा तां व्रतं कुर्यात्त्रैवार्षिकमघापहम् ।।२९।।

यद्यज्ञानात्पिबेद्विप्रो द्विजातिर्वा सुरां पुनः । संस्कारकरणाच्छुद्धिरिति प्राह पराशरः ।।३०।।

प्रत्यहं भक्षयेद्रात्रौ पिण्याकं वा कणान्सकृत् । पञ्चगव्यं पिबेत्प्रातस्ततः शुद्धिमवाप्नुयात् ।।३१।।

औषधे केनचिद्दत्ता पीत्वा ज्ञाता सुरा यदि । सोऽपि चान्द्रायणं कुर्याद्दानं दद्याच्च शक्तितः ।।३२।।

सुरापात्रस्थितं तोयं द्विजः कश्चित्पिबेद्यदि । द्वादशाहं क्षीरशृतां पिबेद्ब्राह्मीं सुवर्चलाम् ।।३३।।

साक्षात्सुरायाश्चेग्दन्धमिच्छया जिघ्रति द्विजः । चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छया ।।३४।।

निषिद्धलशुनादीनां बुद्धिपूर्वं तु भक्षणम् । सत्सु कौटिल्यमुत्कर्षे स्वस्य चानृतभाषणम् ।।३५।।

सुहृ द्वधः कूटसाक्ष्यं पुष्पिणीमुखचुम्बनम् । सुरापानसमानीति पातकान्युदितानि ते ।।३६।।

महापातकतुल्ये तु व्रतमर्धमुदीरितम् । वृद्धादीनां च नारीणां ज्ञातव्यः पूर्ववद्विधिः ।।३७।।

ब्राह्मणस्वामिकं स्वर्णं माषैः षोडशभिर्मितम् । त्रैवर्णिको यदि हरेत्तत्प्रायश्चित्तमुच्यते ।।३८।।

आर्द्रवासा मुक्तकेशः स्तेनो मुसलमायसम् । आदाय गत्वा सदसि राज्ञो कर्म निवेदयेत् ।।३९।।

अनेन मुसलेनैव मां जहीति वदेत्ततः । ततो राजापि धर्मज्ञो हन्यत्तेन स्वयं सकृत् ।।४०।।

मृतः शुद्धिमवाप्नोति जीवेद्वा स शुचिर्भवेत् । अथवा द्वादशाब्दं तु व्रतं पूर्ववदाचरेत् ।।४१।।

प्रत्यक्षं चेद्धृतं स्वर्णं बलात्तर्हि करे दधत् । काष्ठासिं च परोक्षे चेच्चिह्नार्थं खननं ध्वजे ।।४२।।

स्वर्णं चेदधिकं मानादूनं वा तर्हि निष्कृतौ । तारतम्यं विधातव्यमूनमूनेऽधिकेऽधिकम् ।।४३।।

यद्यापदा हरेत्स्वर्णं षडब्दं तद्व्रतं चरेत् । तीर्थानि वा भ्रमेद्विद्वांस्ततः स्तेयाद्विमुच्यते ।।४४।।

मनसा योऽप्यपहरेत्सुवर्णं ब्राह्मणस्य सः । द्वादशाहानि वाताशी भवेन्नियमवान्व्रती ।।४५।।

ब्राह्मणस्त्रीमनुष्याश्वगोभूरत्नापलुञ्चनम् । कस्यापि निःक्षेपहृतिः स्वर्णस्तेयसमे उभे ।।४६।।

गुरुस्त्रीगमनं तुर्यं महापातकमुच्यते । मुख्यो गुरुः पिता तत्स्त्री सपत्नजननी मता ।।४७।।

चातुर्वर्ण्योऽपि पुरुषः सकृत्तां यदि गच्छति । तन्महापातकं तस्य प्रायश्चित्तमिदं चरेत् ।।४८।।

मुण्डयित्वा लोमकेशान् घृताभ्यको दिगम्बरः । तप्तायां लोहशय्यायां सूर्मीमालिङ्गय चायसीम् ४९

अग्नितप्तामग्निवर्णामभिभाष्य स्वकर्म च । स्वपेन्मृतो विशुद्ध्येद्धि ततः कुत्सितकर्मकृत् ।।५०।।

अथवा वृषणौ छित्त्वा सलिङ्गौ स्वेन पाणिना । धृत्वा व्रजेन्नैऋर्ताशां पृष्ठतोऽनवलोकयन् ।।५१।।

कुडयदिभिर्नान्तरितं वर्त्म यावदजिह्मगः । तिष्ठेत्ततश्च तत्रैव मरणान्तं ततः शुचिः ।।५२।।

द्वादशाब्दं व्रतं कुर्यादथवा पूर्ववत्करे । लिङ्गचिह्नं ध्वजं कृत्वा पूर्णे काले विशुद्धयति ।।५३।।

अत्राशक्तस्य पुंसस्तु प्रायश्चित्तं पराशरः । मुनीन्द्रः स्वल्पमप्याह देशकालानुसारतः ।।५४।।

संवत्सरं चरेत्कृच्छ्रं प्राजापत्यमथापि वा । चान्द्रायणं चरेद्वापि त्रीन्मासान्नियतेन्द्रियः ।।५५।।

मातृष्वसा पितृष्वसा पितृव्यस्त्री च मातुली । आचार्यस्त्री मित्रपत्नी सगोत्रा व्रतचारिणी ।।५६।।

श्वश्रूः प्रव्रजिता राज्ञाी शिष्यस्त्रयाचार्यपुत्र्यपि । स्वसुः सखी पुष्पिणी च निक्षिप्ता शरणागता ।।५७।।

ब्राह्मणस्त्री कुमारी च धात्री चान्नप्रदायिनी । आसामन्यतमां गच्छन् गुरुतल्पग उच्यते ।।५८।।

लिङ्गस्योत्कर्तनं कार्यं व्रतं तु नववार्षिकम् । पुंसाऽनेनाज्ञानतश्चेद्व्रतं षड्वार्षिकं तदा ।।५९।।

जननीं भगिनीं पुत्रीं स्नुषां गच्छति चेन्नरः । अतिपापमिदं तस्य निष्कृतिर्वह्निवेशनम् ।।६०।।

महापातकिसंसर्गो जायते यस्य वत्सरम् । भोजनासनशय्याद्यैः स महापातकी भवेत् ।।६१।।

यत्पापिनोऽस्य संसर्गस्तस्य यद्व्रतमीरितम् । तद्द्वादशाब्दं कुर्वीत ततः कालेन शुद्धयति ।।६२।।

संसर्गदोषः सर्वत्र पातकेष्ववगम्यताम् । पापकर्त्रुदितं कुर्यादपि तत्सङ्गभाग्यव्रतम् ।।६३।।

पापिसंसर्गिसंसर्गी पादोनं तद्व्रतं चरेत् । एतत्क्रमेण बोद्धव्यं तारतम्यं च सङ्गिषु ।।६४।।

व्रतं जपादिसाध्यं वै नैमित्तिकमिहोच्यते । द्वादशाब्दादिकं तत्तु विद्यावद्बिर्द्विजातिभिः ।।६५।।

कर्तुं शक्यं ततः स्त्रीभिरविद्यैः पुरुषैरपि । विष्णुनाम चतुर्थ्यन्तं नमोन्तं मन्त्र उच्यताम् ।।६६।।

शूद्रोऽधिकारहीनोऽपि कालेनानेन शुद्धयति । दानोपवासगोविप्रशुश्रूषाभिरपि ध्रुवम् ।।६७।।

सेप उक्तोऽयमुदारबुद्धे ! मया महापातकनिष्कृतादेः ।
मिताक्षरादेर्भवताऽवगम्यः सविस्तरोऽन्योऽस्यविधिस्तु सर्वः ।।६८।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे प्रायश्चित्तविधौ महापातकातिपातकप्रायश्चित्तनिरूपणनामा चतुश्चत्वारिंशोऽध्यायः ।।४४।।