पञ्चचत्वारिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


मासं चान्द्रायणेनैव पयःपानेन वा द्विज ! । उपपातकशुद्धिः स्यादिति सामान्यनिर्णयः ।।१।।

उपपापानि गौहत्या व्रात्यता स्तेनकर्म च । अपण्यविक्रयः पारिवित्त्यं च परिवेदनम् ।।२।।

भृतकाध्यापितत्वं च भृतकाध्यापनं तथा । पारदार्यं स्त्रयादिवधो नास्तिक्यमवकीर्णिता ।।३।।

तडागादेर्विक्रयश्च हीनयोनिनिषेवणम् । ऋणानपाक्रियादीनि सन्ति तन्निष्कृतिं ब्रुवे ।।४।।

अज्ञानाद्दुर्बलां वृद्धं गां हन्याद्यदि वाडवः । लकुटेनाशमना वापि सा म्रियेत च तर्हि सः ।।५।।

मासमेकं निराहारः पञ्चगव्याशनो यमी । ब्रह्मचर्यव्रती नित्यं गोसेवातत्परो भवेत् ।।६।।

स्नयात्त्रिषवणं धीरोऽनुव्रजेद्वनगां च गाम् । निरुपानद्यत्र यत्र सा गच्छेत्तामवारयन् ।।७।।

तिष्ठेत्स्थितायां तस्यां च चलितायां चलेदथ । निषण्णायां निषीदेत्स सहेतोष्णहिमानिलान् ।।८।।

सायं गोष्ठे तत्समीपे शयीतानास्तृते व्रती । एवं प्रतिदिनं कुर्यान्मासं स नियतेन्द्रियः ।।९।।

चौरव्याघ्रादिभीतां गामातुरां च गदैरपि । पतितां पङ्कलग्नां वा प्राणैरपि विमोक्षयेत् ।।१०।।

आत्मनो यदि वान्येषां गृहे क्षेत्रे खलेऽथवा । भक्षयन्तीं न कथयेत्पिबन्तमपि वत्सकम् ।।११।।

मासान्ते पात्रविप्राय धेनुं दद्याद्यथाविधि । हेमशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहनाम् ।।१२।।

ताम्रपृष्ठां सुशीलां च सवस्त्रां रत्नलोचनाम् । मूल्यक्रीतां तथा गृष्टिं सुरूपां च पयस्विनीम् ।।१३।।

ततश्च दक्षिणां दद्याद्वित्तशाठयविवर्जितः । तर्पयित्वा ततो विप्रान् शुचिः स्यात्तदनुज्ञाया ।।१४।।

श्रोत्रियस्य गुणवतीं यदि गां हन्ति हेतिना । तदा वर्षत्रयं कुर्याद्व्रतमेतत्तु भैक्षभुक् ।।१५।।

आर्द्रं हताया गोश्चर्म प्रावृत्य ख्यापयन्स्वकम् । दुष्कर्म च ततः शुद्धयेत्काले पूर्णे स गोवधात् ।१६

अस्थिभङ्गं गवां कृत्वा लांगूलच्छेदनं च वा । पाटनं दन्तशृङ्गाणां मासार्धं तु व्रतं चरेत् ।।१७।।

विद्युत्पाताग्निदाहाभ्यां कुडयपातादिभिस्तथा । गोभिर्विपत्तिं प्राप्ताभिर्न दोषो विद्यते नृणाम् ।।१८।।

प्रायश्चित्तमिदं ज्ञोयं पूर्णमेव द्विजस्य तु । पादोनं क्षत्रियस्यार्धं तदर्धं चान्ययोः क्रमात् ।।१९।।

संस्काररहितो विप्रो व्रात्य इत्युच्यते स चेत् । गौणे कालेऽपि नो कुर्यात् संस्कारं तर्हि शुद्धये ।२०

वर्तेत यावकेन द्वौ मासौ मासं पयोव्रती । आमिक्षाशी भवेत्पक्षमष्टरात्रं घृताशनः ।।२१।।

अयाचितेन षड्रात्रं वर्तेताद्बिर्दिनत्रयम् । अहोरात्रं चोपवसेत्संस्कारेण ततः शुचिः ।।२२।।

पातकं स्तेयमस्त्यन्यत्तत्र विप्रगृहाद्यदि । विप्रो हरति धान्यं वा हेमाद्यन्यद्धनं तदा ।।२३।।

कृच्छ्रव्रतानि कुर्वीत शुचिर्नियमतत्परः । एकाब्दं स ततः शुद्धयेद्ब्रह्मचर्यं च पालयन् ।।२४।।

क्षत्रविट्शूद्रगेहेभ्यो हरेत्तु यदि वा द्विजः । विप्रादर्धं तदर्धं च तदर्ध च व्रतं चरेत् ।।२५।।

रत्नधातुधान्यपशुतृणकाष्ठादि यो हरेत् । प्रायश्चित्तं तत्र कल्प्यं तत्तन्मूल्यानुसारतः ।।२६।।

सकृद्बोजनपर्याप्तधान्येन सममूल्यकम् । द्रव्यं हृत्वा तूपवसेत्पञ्चगव्याशनः शुचिः ।।२७।।

एकाहोत्रात्रमथ चेत्पूर्वस्माद् द्विगुणं हृतम् । तदा दिनद्वयं कुर्यादुपवासं ततः शुचिः ।।२८।।

एतत्क्रमेण बोद्धव्यं यथा स्तेयं तथा व्रतम् । आदौ तत्स्वामिने दद्याद्वृतं पश्चाद्व्रतं चरेत् ।।२९।।

नैरन्तर्येण कुर्वीत यथाशक्ति पुनः पुनः । कृच्छ्रव्रतानि यावत्स्यात्प्रायश्चित्तदिनावधिः ।।३०।।

यो यस्यापहरेद्बूमिं हेम गामश्वमेव वा । स तं यत्नात्प्रसाद्यापि तदुक्तः शुद्धिमाप्नुयात् ।।३१।।

आख्याय भूपतिं वापि तेन संशोधितः शुचिः । द्रव्यदण्डाद्विमुक्तो वा तपसा वा शुचिर्भवेत् ।।३२।।

विक्रीणीत यदा विप्रोऽपण्यं पक्वान्नमेव च । गुडं तिलं पुष्पफलं सौम्यकृच्छ्रं तदाचरेत् ।।३३।।

लाक्षालवणतैलानि पयोदधिघृतानि च । विक्रीत्वा चर्मवासश्च द्विजश्चान्द्रायणं चरेत् ।।३४।।

अथो मनःशिलाशुक्तिगुग्गुल्वञ्जनगैरिकान् । हिङ्गूर्णाधेनुशृङ्गाश्मशस्त्रास्थिनखरान् गृहम् ।।३५।।

मणिमुक्ताप्रवालांश्च वेणुवैणवमृन्मयान् । विक्रीत्वा च भुवं विप्रस्तप्तकृच्छ्रं व्रतं चरेत् ।।३६।।

सोदरे तिष्ठति ज्येष्ठेऽनुजस्य स्त्र्यग्निसङ्ग्रहः । परिवेदनमित्युक्तं परिवेत्ता च सोऽनुजः ।।३७।

कनीयसि तथाभूते ज्येष्ठस्य स्त्र्यग्निसङ्ग्रहः । पारिवित्त्यं स तु ज्येष्ठः परिवित्तिरिहोदितः ।।३८।।

तावुभौ वत्सरं विप्रगेहेषु कृतभैक्षकौ । प्राजापत्येन कृच्छ्रेण ततः शुद्धिमवाप्नुतः ।।३९।।

पणं कृत्वा पाठयति यो यः पठति तावुभौ । ब्राह्मीं सुवर्चलां पीत्वा सार्धमासं च शुद्धयतः ।।४०।।

पारदार्ये तु विप्रासु विज्ञोयं गुरुतल्पवत् । कामतो ब्राह्मणो विप्रां यदीषद्व्यभिचारिणीम् ।।४१।।

गच्छेत् त्रैवार्षिकं कुर्याद्व्रतं तु ब्रह्मचर्ययुक् । विप्रश्च क्षत्रियां गत्वा व्रतं द्वैवार्षिकं चरेत् ।।४२।।

तपश्चर्या व्रते मुख्या ज्ञोया सर्वत्र सत्तम ! । तपोनिश्चयसंयुक्तं प्रायश्चित्तं यतो मतम् ।।४३।।

सकृग्दमेऽपि चेग्दर्भो जायते तर्हि तु व्रतम् । कर्तव्यं द्विगुणं सर्वैः सर्वत्राघप्रशान्तये ।।४४।।

वैश्यां गत्वा ब्राह्मणस्तु व्रतमब्दं समाचरेत् । सगोत्रादिषु सर्वेषां पापं तु गुरुतल्पवत् ।।४५।।

शूद्रीं गच्छन्सकृद्विप्रो व्रतं षाण्मासिकं चरेत् । तस्यां गर्भोद्बवे कुर्याद्व्रतं त्रैवार्षिकं तु सः ।।४६।।

क्षत्रियः क्षत्रियां वैश्यां शूद्रीं गच्छन् क्रमाद्व्रतम् । द्विवार्षिकं वार्षिकं च षाण्मासिकमथाचरेत् ४७

वैश्यो वैश्यां तथा शूद्रीं गत्वा पूर्ववदाचरेत् । षाण्मासिकं तथा शूद्रः शूद्रीं गत्वा व्रतं चरेत् ।।४८।।

प्रातिलोम्यव्यवाये तु यावज्जीवं तपो मतम् । ब्राह्मणीगमने त्वेते प्रविशेयुर्हुताशनम् ।।४९।।

विप्रो मोहाद्यदा गच्छेदन्यजां व्यभिचारिणीम् । सकृदेव तदा त्वेष कुर्याच्चान्द्रायणद्वयम् ।।५०।।

स्त्रीणां सवर्णानुलोमव्यवायेऽपि व्रतं मतम् । त्रैवार्षिकादिकं सर्वं पुरुषस्येव गम्यताम् ।।५१।।

अशक्तानां तु नारीणां व्रतं चान्द्रायणं मतम् । कृच्छ्राणि च यथाशक्ति व्यवायस्य विशोधनम् ।।५२

अशक्तानां तथा पुंसां पारदार्यविशोधनम् । चान्द्रायणव्रतेनेति पराशरऋषिर्जगौ ।।५३।।

चण्डालयवनम्लेच्छैर्भुक्ता नार्यपि या सकृत् । तदन्नभुग्वा प्रविशेत्सा प्रदीप्ते हुताशने ।।५४।।

अथाकामाद्धन्ति विप्रां यदीषद्व्यभिचारिणीम् । तदा तु ब्रह्मणः कुर्यात्कृच्छ्रमब्दं समाहितः ।।५५

हत्वा च क्षत्रियां वैश्यां शुद्रां च व्यभिचारिणीम् । षाण्मासिकं तदर्धं च तदर्धं च व्रतं चरेत् ।।५६।।

गुणवत्यश्च ता यर्हि हतास्तर्हि क्रमाद्व्रतम् । द्वादशाब्दं षडब्दं च त्र्यब्दमब्दार्धचरेत् ।।५७।।

तथा निर्गुणक्षत्रादिवधे जाते त्वकामतः । ब्रह्महत्याव्रतं कुर्यात् त्र्यब्दमब्दं तदर्धकम् ।।५८।।

क्षत्रादिके गुणवति त्वष्ट षट् त्रीणि च द्विज ! । वर्षाण्येतद्व्रतं कुर्यात्ततः शुद्धयति पातकात् ।।५९।।

गजे वृषाः पञ्च नीलाः शुके वत्सो द्विहायनः । खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ।।६०।।

हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः । भासं हत्वा च दद्याग्दामक्रव्यादस्तु वत्सिकाम् ।।६१।।

सर्पे हते लोहदण्डो दातव्यो ब्राह्मणाय च । पण्डके मृगपक्ष्यादौ हते तु त्रपुसीसकम् ।।६२।।

कोले घृतघटो देय उष्ट्रे गुञ्जा हयेंऽशुकम् । तित्तिरौ तु तिलद्रोणो गजादीनामशुक्नुवन् ।।६३।।

दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये । तत्राद्ये पञ्चगव्याशी दिने चोपवसेत्परे ।।६४।।

मार्जारगोधानकुलमण्डूकांश्च पतत्त्रिणः । हत्वा त्र्यहं पिबेत्क्षीरं पादकृच्छ्रं तु वाचरेत् ।।६५।।

फलपुष्पान्नरसजानस्थिजन्तुनिपातने । प्रायश्चित्तं प्रकर्तव्यं प्राणायामो घृताशनम् ।।६६।।

फलदानं तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मगुच्छलतानां च पुष्पितानां च वीरुधाम् ।।६७।।

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणं तपश्च ख्यातशाखिनः ।।६८।।

रेतसः पातनं कृत्वा कृत्वा चानृतभाषणम् । सहस्रं तु जपेद्देव्याश्चापल्यं पाणिवाक्पदाम् ।।६९।।

सकृन्नास्तिक्यभावेन कृते वेदस्य निन्दने । प्रायश्चित्तं प्रकुर्वीत प्राजापत्यं स्वशुद्धये ।।७०।।

ब्रह्मचारी स्त्रियं गच्छेदवकीर्णी स चेत्सकृत् । तदा काणखरेणाग्नौ लौकिके निऋर्तिं यजेत् ।।७१

रात्रौ चतुष्पथेऽरण्ये व्रतं कुर्यात्ततः परम् । ऊर्ध्ववालं तदजिनं परिधाय वने वसेत् ।।७२।।

ग्रामे सप्तगृहान्भिक्षेत् धृतलोहितपात्रकः । स तद्बुञ्जीतैकवारं स्नयात्त्रिषवणं यमी ।।७३।।

सा स्त्री चेद्ब्राह्मणी तर्हि त्रीणि वर्षाणि तच्चरेत् । क्षत्रिया यदि वैश्या वा द्वे चैकं वर्षमाचरेत् ।७४

शूद्रीं गत्वा तु पतितोऽग्निप्रवेशेन शुद्धयति । पातितं चेत्स्वयं रेतो यागमात्रं तदाचरेत् ।।७५।।

स्वप्ने रेतःस्कन्दने तु स्नत्वाभ्यर्च्य दिवाकरम् । गायत्र्यष्टशतं जप्त्वा ह्युपवासेन शुद्धयति ।।७६।।

अयं यागो ब्रह्मचर्ये ज्ञोयश्चान्द्रायणादिषु । व्रतेषु नारीगमने गृहिणामपि शुद्धये ।।७७।।

वानप्रस्थैश्च यतिभिर्ब्रह्मचर्यस्य विप्लवे । व्रतमेतत्प्रकर्तव्यं पाराकत्रयसंयुतम् ।।७८।।

एतत्कर्तुमशक्तास्तु ब्रह्मचार्यादयोऽखिलाः । यावज्जीवं तपः कुर्युः स्मरन्तो हृदये हरिम् ।।७९।।

उदपानारामपुण्यसुतदारात्मविक्रये । संवत्सरं व्रतं कुर्याद्बिक्षाशीतीर्थसेवकः ।।८०।।

पशुवेश्याभिगमने प्राजापत्यं विधीयते । तेनैव मुच्यते पापाद्धीनयोनिनिषेवणात् ।।८१।।

लौकिकं वैदिकं चर्णं यत्तयोरनपात्क्रिया । स्वशक्त्याऽथ विनाऽपत्तिमग्नित्यागः प्रमादतः ।।८२।।

निषिद्धवृद्धिजीवित्वं लवणोत्पादनं तथा । निन्दितार्थोपजीवित्वमयाज्यानां च याजनम् ।।८३।।

पितृमातृसुतत्यागः कन्यासन्दूषणं तथा । अन्यशास्त्रादिषु प्रीत्या स्वाध्यायस्य विसर्जनम् ।।८४।।

कौटिल्यं व्रतलोपश्च स्वार्थपाकपरिक्रिया । मद्यपस्त्रीसेवनं च स्त्र्योषधिभ्यां च जीवनम् ।।८५।।

हिंस्रयन्त्रविधानं चाष्टादश व्यसनानि च । शूद्रप्रेष्यं हीनसख्यमसच्छास्त्रविनोदनम् ।।८६।।

आकरेष्वधिकारित्वं नित्यकर्मविवर्जिनम् । अनाश्रमस्थितिः पुंसि मैथुन्यं दुष्प्रतिग्रहः ।।८७।।

एतेषामुपपापानां प्रत्येकं शान्तये द्विजः । व्रतं त्रैमासिकं कुर्याद्यमैश्च नियमार्युतः ।।८८।।

ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसाऽस्तेयमाधुर्यं दमश्चेति यमा स्मृताः ।।८९।।

स्ननमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादताः ।।९०।।

यावकं भक्षयेन्मासं द्वौ मासौ च जितेन्द्रियः । शाकं हविष्यं वाऽश्नीयान्मितं तद्बिक्षितं सकृत् ९१

अशक्तेन तु कर्तव्यं मासं चान्द्रायणव्रतम् । कृष्णमन्त्रजपोपेतं सर्वपातकनाशनम् ।।९२।।

तपो विना नैव भवेन्नराणां पापस्य नाशः खलु विप्रवर्य ! ।
अघस्य यस्यात्र न निष्कृतं नरः करोति तद्वयुष्टिममुत्र भुङ्क्ते ।।९३।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे प्रायश्चित्तविधौ उपपातकप्रायश्चित्तनिरूपणनामा पञ्चचत्वारिंशोऽध्यायः ।।४५।।