षड्चत्वारिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


एतन्न्यूनानि पापानि प्रकीर्णाख्यानि सन्ति च । प्रायश्चित्तं विनाऽमुत्र पीडयन्ति हि तान्यपि ।।१।।

द्विजो यो भक्षयेन्मांसं यज्ञाशेषमिति क्वचित् । स तु चान्द्रायणेनैव शुद्धिमाप्नोति नान्यथा ।।२।।

उदक्या ब्राह्मणी स्पृष्टा प्लवेन पतितेन वा । चान्द्रायणेन शुद्धयेत्सा द्विजानां भोजनेन च ।।३।।

योऽद्यादुच्छिष्टमन्नाद्यं पीतशेषं जलं पिबेत् । आज्यं पिबेच्च वोच्छिष्टं विप्रश्चान्द्रायणं चरेत् ।।४।।

वासांसि धावतो यत्र पतन्ति जलबिन्दवः । रजकस्य शिलाङ्कं तज्जलं पीत्वैन्दवं चरेत् ।।५।।

साग्निः सन्पञ्चयज्ञान्यो न कुर्वीत द्विजाधामः । द्विजो योऽस्यान्नमश्नीयात्स कुर्यादैन्दवं व्रतम् ।।६

गणिकागणयोरन्नं यदन्नं बहुयाजिनाम् । महापातकिनामन्नं भुक्त्वा चान्द्रायणं चरेत् ।।७।।

दुग्धं सलवणं भुक्त्वा दधिसक्तूंस्तथा निशि । उपपातकिनामन्नं भुक्त्वापीन्दुव्रतं चरेत् ।।८।।

संस्कारान्नं च प्रेतान्नमतिनीचान्नमेव च । भुक्त्वा कुर्यात्तप्तकृच्छ्रं सूतकान्नं तथा द्विजः ।।९।।

भुक्त्वान्नं स्वैरिणीनां च तथा शय्यासनादिषु । भुक्त्वा द्विजः प्रकुर्वीत प्रजापत्यं स्वशुद्धये ।।१०।।

चण्डालकूपिकाद्यम्बु पीत्वाऽज्ञानाद् द्विजातयः । गोमूत्रयावकाहाराः शुद्धयेयुर्दिवसैस्त्रिभिः ।।११।।

अकामतो जातिदुष्टपलाण्डुलशुनादिके । अभक्ष्ये भक्षिते कुर्यात्तप्तकृच्छ्रं व्रतं द्विजः ।।१२।।

त्वङ्कारं तु गुरोः कृत्वा हुङ्कारं च गरीयसः । प्रसाद्यैतावनश्नन् स्यात्स्नत्वा शुद्धयेद् द्विजोत्तमः ।१३

ताडयित्वा तृणेनापि रज्ज्वा वाबध्य कञ्चन । विवादेनापि निर्जित्य तं प्रसाद्य विशुद्धयति ।।१४।।

यज्ञोपवीतेन विना ये कुर्युर्भोजनं द्विजाः । त्रिद्वयेकाहानि ते कुर्युरुपवासाननुक्रमात् ।।१५।।

अंगुल्या दन्तधावं च प्रत्यक्षलवणादनम् । मृत्तिकाभक्षणं कृत्वा पादकृच्छ्रं व्रतं चरेत् ।।१६।।

अपेयपानास्प्रष्टव्यस्पर्शादीनि च भूरिशः । प्रकीर्णपापानि विप्र ! सन्त्यनेकविधानि हि ।।१७।।

गौरवं लाघवं तेषां दृा पृा द्विजोत्तमान् । प्रायश्चित्तं प्रकुर्वीत स्वस्वपापानुसारतः ।।१८।।

विप्रादेकैकपादोनं क्षत्रियादेर्विशोधनम् । गृहस्थाच्च तथा ज्ञोयं वर्ण्यादेर्द्विगुणादि तत् ।।१९।।

साधवस्त्यागिनो ये स्युर्वैष्णवास्तैस्तु वाडव ! । प्रायश्चित्तं महाघादेः कर्तव्यं ब्रह्मचारिवत् ।।२०।।

सूक्ष्मपापेषु सर्वत्र प्रायश्चित्तमुपोषणम् । दिनमेकं प्रकुर्वीत ब्रह्मचर्यादिभिर्युतः ।।२१।।

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ।।२२

विष्णुनामोक्तिसहितं प्रायश्चित्तं प्रकल्पयेत् । भवेत्तेनैव फलदं वैगुण्यरहितं च तत् ।।२३।।

आत्यन्तिकी विशुद्धिस्तु तन्नामरहितेन न । प्रायश्चित्तेन तत्कुर्यान्नामोच्चारणसंयुतम् ।।२४।।

नारायण ! हरे ! कृष्ण ! राम ! गोविन्द ! माधव ! । इत्यादि प्रवदेदादौ मध्ये चान्ते क्रियाकृतौ ।२५

अथात्यधिकपापानि कथयामि समासतः । पुंसां स्त्रीणां वैष्णवानां द्रोहो निन्दा च भर्त्सनम् ।।२६।।

हरेर्हरस्य वा गर्हा प्रतिमाखण्डनं तयोः । शालग्रामज्योतिर्लिङ्गावज्ञा वेदस्य खण्जनम् ।।२७।।

बुद्धिपूर्वं देवविप्रगोतीर्थक्षेत्रनिन्दनम् । अनाथप्राणिनां द्रोहः सतीद्रोहादिकानि च ।।२८।।

एतत्पातककर्तणां दर्शने बुद्धिपूर्वकम् । स्पर्शनादौ च विज्ञोयं पादकृच्छ्रं व्रतं नृणाम् ।।२९।।

एतेषां पातकानां तु प्रायश्चित्तेन कर्मणा । सद्बिर्महर्षिभिर्नोक्ता निष्कृतिः क्वापि सत्तमः ।।३०।।

आगः कुर्यादसौ येषां तेषामेव प्रसादनात् । शुद्धिरस्य तु विज्ञोया नान्योपायेन केनचित् ।।३१।।

प्रायश्चित्तमिदं प्रोक्तं स्वपापे विदिते परैः । रहस्ये तु प्रकुर्वीत जपं दानं स्वशक्तितः ।।३२।।

महापापे वर्षमेकमुपपापे तदर्धकम् । पौरुषं प्रजपेत्सूक्तं मध्याह्नावधि सोऽन्वहम् ।।३३।।

महापुरुषविद्यां वा गायत्रीं वा द्विजातयः । जपेयुरन्वहं स्नत्वा यमैर्युक्ता मिताशनाः ।।३४।।

नाममन्त्रं भगवतो विष्णोर्वा प्रयतोऽन्वहम् । अयुतार्धं जपेन्मूर्तिंतस्य पश्यन्स्थिरेक्षणः ।।३५।।

गौरवं लाघवं दृा स्वपापस्य सुधीः पुमान् । प्रायश्चित्तं प्रकुर्वीत यथाकालं समाहितः ।।३६।।

इति सेपतः प्रोक्ता पातकानां तु निष्कृतिः । विशेषो मुनिभिश्चास्या बहुधाऽन्यत्र दर्शितः ।।३७।।

यस्य पापस्य कुर्वीत निष्कृतिं ह्यत्र मानवः । तत्फलं नैव भुञ्जीत परलोके यमालये ।।३८।।

पापं कृत्वा गृहस्थश्च यदि कुर्यान्न निष्कृतिम् । धर्मिष्ठः कारयेद्राजा तेनैव स पतिर्यतः ।।३९।।

ब्रह्मचारिवनियतिहरिभक्तेषु भूपतेः । नाज्ञा प्रवर्ततेऽतस्तैः कार्यं यमभयात्स्वयम् ।।४०।।

यत्र त्वग्निप्रवेशो वा कर्मान्यन्मृत्युदायकम् । प्रायश्चित्तं मया प्रोक्तं तत्तु प्राचां मतेन वै ।।४१।।

तस्मात्तादृक्स्थले ज्ञोयं यावज्जीवं तपो द्विज ! । आत्मघातस्य दोषत्वादिदमेव कलौ हितम् ।।४२।।

आवश्यके सङ्कटे तु प्राप्ते लोकत्रपादिके । वसेद्देशान्तरं गत्वा न तु जह्यात्कलेवरम् ।।४३।।

ग्राम्यं सुखं वैषयिकं तु हित्वा क्षेत्रस्थितोऽयाचितधान्यवृत्तिः ।
दिवा च रात्रौ हरिमेव शक्त्या भजेत्स नष्टाखिलपातकः स्यात् ।।४४।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे प्रायश्चित्तविधौ प्रकीर्णपातकात्यधिकपातकप्रायश्चित्तनिरूपणनामा षट्चत्वारिंशोऽध्यायः ।।४६।।