श्रीनारायणमुनिरुवाच :-
अथ चान्द्रायणादीनां व्रतानां लक्षणान्यहम् । पापशोधनहेतूनां प्रोक्तानि मुनिभिर्ब्रुवे ।।१।।
तिथिवृद्धया शुक्लपक्षे ग्रासानामलकोपमान् । एकैकवृद्धया भुञ्जीत हासयेच्च सितेतरे ।।२।।
चरुर्भैक्षं सक्तुकणा यावकः शाकमेव च । पयो दधि घृतं मूलं फलं पानीयमेव वा ।।३।।
उत्तरोत्तरशस्तानि हवींष्येतानि तत्र तु । यथा स्वशक्त्यन्यतमं व्रती भक्ष्ये प्रकल्पयेत् ।।४।।
अमायां नैव भुञ्जीत तिथिवृद्धौ तु षोडश । ग्रासास्तिथिक्षये च स्युश्चतुर्दश यथातिथि ।।५।।
यवमध्याभिधं प्रोक्तं व्रतं चान्द्रायणं त्विदम् । सर्वपापप्रशमनं धर्मवृद्धिकरं तथा ।।६।।
मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । ग्रासापचयभोजी सन्पक्षशेषं समापयेत् ।।७।।
तथैव शुक्लपक्षादौ ग्रासमेकं तु भक्षयेत् । ग्रासोपचयभोजी सन् पक्षं तं च समापयेत् ।।८।।
पिपीलिकामध्यमिदं व्रतं चान्द्रायणं मतम् । यथारुचि प्रकुर्वीत द्वयोरन्यतमं पुमान् ।।९।।
यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत तदपीन्दुव्रतं मतम् ।।१०।।
अष्टावष्टौ समश्नीयात्पिण्डान्मध्याह्नतः परम् । नियतात्मा हविष्यस्य यतिचान्द्रायणं मतम् ।।११।।
चतुरः प्रातरश्नीयात्पिण्डान्विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं च तत् ।।१२।।
त्रींस्त्रीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः । हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम् ।।१३।।
गोक्षीरं सप्तरात्रं च पिबेत्स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् ।।१४।।
षड्रात्रं च तथैकस्मात्त्रिरात्रं वायुभुग्भवेत् । एतत्सोमायनं नाम व्रतं कल्मषनाशनम् ।।१५।।
एकभक्तैश्च नक्तैश्च तथैवायाचितैरपि । उपवासैश्चतुर्भिश्च कृच्छ्रः षोडशभिर्दिनाः ।।१६।।
क्षीरं घृतं चाम्बु तप्तं मिश्रमेकदिनं पिबेत् । उपावसेदेकदिनं तप्तकृच्छ्रोऽयमुच्यते ।।१७।।
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रं चोपवसेत्तप्तकृच्छ्रो महान्मतः ।।१८।।
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नयी समाहितः ।।१९।।
जलं पिबेत्तु त्रिपलं द्विपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिस्त्रिरात्रं चोष्णमारुतम् ।।२०।।
पीयते शीतमम्ब्वादि व्रतेऽस्मिन्यदि तर्हि तत् । शीतकृच्छ्र इति प्रोक्तं यमेनाघहरं व्रतम् ।।२१।।
पिबेदेकदिनं मिश्रं पञ्चगव्यं कुशोदकम् । उपावसेदेकदिनं व्रतं सान्तपनं हि तत् ।।२२।।
पृथक्सान्तपनद्रव्यैः षट्दिनानि क्षिपेत्पुमान् । उपावसेदेकदिनं महासान्तपनं त्विदम् ।।२३।।
प्रत्येकं प्रत्यहं गव्यं शकृन्मूत्रं पयो दधि । घृतं कुशोदकं पीत्वा सप्तमेऽह्नि ह्युपावसेत् ।।२४।।
दिनैः सप्तभिरित्युक्तं व्रतं सान्तपनाभिधम् । एतदेव त्रिरभ्यस्तं महासान्तपनं मतम् ।।२५।।
त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं त्र्यहमाज्यं पिबेत्पुमान् ।।२६।।
महासान्तपनं ह्येतद्व्रतं पापप्रणाशनम् । यतिसान्तपनं प्रोक्तं पञ्चगव्याशनात्त्र्यहम् ।।२७।।
पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्येकं पीतैः पर्णकृच्छ्र उदीरितः ।।२८।।
एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिबेदद्बिः पर्णकूर्चस्तदा मतः ।।२९।।
फलैर्मासेन कथितः फलकृच्छ्रस्तु भक्षितैः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माख्यैः पद्मसंज्ञिातः ।३०
मासेनामलकैरेवं श्रीकृच्छ्रो ह्यपरो मतः । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैः पुष्पाख्य उच्यते ।।३१।।
मूलकृच्छः स्मृतो मूलैस्तोयकृच्छ्रो जलेन तु । क्षीरादावपि विज्ञोयमेवमेव विचक्षणैः ।।३२।।
एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैकाहं पादकृच्छ्रः प्रकीर्तितः ।।३३।।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहं कुर्यादयाचितम् । त्र्यहं परं च नाश्नीयात्प्राजापत्योऽयमुच्यते ।।३४।।
अयमेवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः । उपवासाहवर्जं वै दिनैर्द्वादशभिर्द्विज ! ।।३५।।
प्राजापत्यं चतुर्धैव विभज्य प्राह च व्रतम् । आपस्तम्बो मुनिः पादकृच्छ्रं वर्णानुरूपतः ।।३६।।
त्र्यहं निरशनं पादः पादश्चायाचितं त्र्यहम् । सायं त्र्यहं तथा पादः पादः प्रातस्तथा त्र्यहम् ।।३७।।
प्रातः पादं चरेच्छूद्रः सायं वैश्यः समाचरेत् अयाचितं तु राजन्यस्त्रिरात्रं ब्राह्मणः परम् ।।३८।।
सायं तु द्वादश ग्रासाः प्रातः पञ्चदश स्मृताः । चतुर्विंशतिरायाच्याः परं निरशनं स्मृतम् ।।३९।।
सायं प्रातस्तथैकैकं दिनद्वयमयाचितम् । दिनद्वयं च नाश्नीयात्कृच्छ्रार्धं तत्प्रकीर्तितम् ।।४०।।
नयेत्पीत्वा पयोमात्रं दिवसानेकविंशतिम् । कृच्छ्रातिकृच्छ्रः कथितो द्वादशाहं जलं च वा ।।४१।।
द्वादशाहोपवासैश्च पाराकः परिकीर्तितः । शोधनः सर्वपापानां मुनिभिर्द्विजसत्तम ! ।।४२।।
पिण्याकसक्तुतक्राणामेकैकं प्रत्यहं पुमान् । अद्यात्सौम्याख्यकृच्छ्रोऽयं तुर्ये चोपवसेद्दिने ।।४३।।
सम्प्राश्य तिलपिण्याकं तक्रं तोयं कुशोदकम् । उपावसेत्पञ्चमेऽह्नि सोऽपि कृच्छ्रः स ईर्यते ।।४४।
पिण्याकाचामतक्राम्बुसक्तुभिः पञ्च वासरान् । एकरात्रोपवासश्च सौम्यकृच्छ्रः प्रकीर्तितः ।।४५।।
एषां त्रिरात्रमभ्यासादेकैकस्य यथाविधि । तुलापुरुषकृच्छ्रोऽयं ज्ञोयः पञ्चदशाहिकः ।।४६।।
आचाममथ पिण्याकं तक्रं चोदकसक्तुकान् । त्र्यहं त्र्यहं प्रयुञ्जानो वायुभक्षस्त्र्यहद्वयम् ।।४७।।
एकविंशतिरात्रोऽयं तुलापुरुष ईरितः । व्रतभेदेषु सर्वत्र ग्राह्यः स्वशक्तितः ।।४८।।
ब्रह्मकूर्चं प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् । कृतेन येन मुच्यन्ते मनुष्याः सर्वकिल्बिषैः ।।४९।।
उपवासं पूर्वदिने कृत्वा प्रयतमानसः । पञ्चगव्यं द्वितीयेऽह्नि पिबेत्सह कुशाम्भसा ।।५०।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यं तु पवित्रं कायशोधनम् ।।५१।।
गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चापि गोमयम् । पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ।।५२।।
घृतं च कृष्णवर्णायाः सर्वं कापिलमेव वा । अलाभे सर्ववर्णानां पञ्चगव्येष्वयं विधिः ।।५३।।
गोमूत्रे माषकास्त्वष्टौ गोमयस्य तु षोडश । क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश कीर्तिताः ।।५४।।
गोमूत्रवत् घृतस्येष्टास्तदर्थं तु कशाम्भसः । गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।।५५।।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ।।५६
पञ्चगव्यमृचा पूतं होमयेदग्निसन्निधौ । सप्तपत्रास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः ।।५७।।
एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि । इरावती इदं विष्णुर्मानस्तोके च शंवतीः ।।५८।।
एताभिश्चैव होतव्यं हुतशेषं पिबेद्द्विजः । प्रणवेन समालोडय प्रणवेनाभिमन्त्र्य च ।।५९।।
प्रणवेन समुद्धृत्य पिबेत्तत्प्रणवेन तु । मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् ।।६०।।
स्वर्णपात्रेण रौप्येण ब्रह्मतीर्थेन वापि तत् । कथितो ब्रह्मकूर्चोऽयं शारीराघप्रदाहकः ।।६१।।
एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम् । द्वादशाहं तिलैर्वृत्त्या कृच्छ्र आग्नेय उच्यते ।।६२।।
गोनिर्हारविनिर्मुक्त्यवसक्तुभिरेव यत् । वर्तनं मासमेकं तद्याम्यकृच्छ्र इतीर्येते ।।६३।।
गवां निर्हारनिर्मुक्तैर्यवैरेव च वर्तनम् । मासमेकं तु तत्प्रोक्तं यावकं व्रतमुत्तमम् ।।६४।।
मासं चैकं प्रकुर्वीत तिलपिण्याकभक्षणम् । स्वप्रसृतिप्रमाणेन कृच्छ्रः कौबेर उच्यते ।।६५।।
गोमूत्रेणाचरेत्स्ननं गोमयं चापि भक्षयेत् । गवां मध्ये सदा तिष्ठेग्दोपुरीषे च संविशेत् ।।६६।।
गोष्वपीतासु न पिबेदुदकं द्विजसत्तम ! । अभुक्तासु न चाश्नीयादुत्थितासूत्थितो भवेत् ।।६७।।
तथा तासूप्रविष्टासु सर्वासूपविशेन्नरः । मासेनेदृग्व्रतं पुसो गोव्रतं कथ्यते हि तत् ।।६८।।
आमिक्षया च द्वौ मासौ पक्षं तु पयसा ततः । दघ्ना वर्तेत चाष्टाहं त्रिरात्रमपि सर्पिषा ।।६९।।
निराहारस्त्रिरात्रं च व्रतमुद्दालकं त्विदम् । वीरासनेन सहितः कृच्छ्रो बहुगुणो मतः ।।७०।।
उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि । एतद्वीरासनं प्रोक्तं महापातकनाशनम् ।।७१।।
एवमेतानि कृच्छ्राणि व्रतानि कथितानि ते । शमनानीह पापानां सर्वेषामपि सुव्रत ! ।।७२।।
संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्तशुद्धयर्थं ज्ञातस्य तु विशेषतः ।।७३।।
अज्ञातं यदि वा ज्ञातं पापं कृच्छ्रो विशोधयेत् । कृच्छ्रसंशुद्धपापानां नरको न विधीयते ।।७४।।
श्रीकामः पुष्टिकामश्च स्वर्गकामस्तथा पुमान् । देवप्रीणनकामश्च कृच्छ्रं कुर्वीत सर्वथा ।।७५।।
गुरु वा लघु वापि पातकं पुरुषो योऽत्र विधाय तस्य चेत् ।
विदधीत न निष्कृतिं तदा परलोके नरकेषु पच्यते वै ।।७६।।
स ततो यमराजशासनाद्बहुकालेन निकृष्टयोनिषु ।
भुजिशिष्टनिजाघमन्वितं लभते जन्म मुहुश्च दुःखदम् ।।७७।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे प्रायश्चित्तविधौ चान्द्रायणादिव्रतलक्षणनिरूपणनामा सप्तचत्वारिंशोऽध्यायः ।।४७।।