अष्ठचत्वारिंशोऽध्यायः

ब्राह्मण उवाच :-


भुक्तपापावशेषेण कीदृशेन स कीदृशम् । लभते जन्म तन्मह्यं कृपयाख्यातुमर्हसि ।।१।।


श्रीनारायणमुनिरुवाच :- 

ब्रह्मन्कर्मविपाकोऽयं धर्मशास्त्रे सविस्तरम् । मुनिभिर्वर्णितोस्तीति तत एव स बुध्यताम् ।।२।।

महापापादिपापानां भेदाः सन्ति सहस्रशः । तत्तत्पापानुरूपं च तत्तत्कर्ताऽप्नुयात् फलम् ।।३।।

तत्र सामान्यतस्तेषां समासेन फलं द्विजः । तुभ्यं वदामि तेनान्ये विशेषा अवगम्यताम् ।।४।।

आदौ तु पापकर्माणो देहान्ते यमकिङ्करैः । कर्मानुरूपं पात्यन्ते निरयेष्वतिनिर्दयैः ।।५।।

ततो नरकभोगान्ते कर्मशेषानुसारतः । श्वशूकराहिकाकादियोनौ ते यान्ति सम्भवम् ।।६।।

श्वशूकरखरोष्ट्राणां गोजाविमृगपक्षिणाम् । चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ।।७।।

कृमिकीटपतङ्गानां विड्भुजामथ पक्षिणाम् । हिंस्राणां चापि सत्त्वानां सुरापो योनिमाप्नुयात् ।।८।।

लूताहिसरटानां च तिरश्चामम्बुचारिणाम् । हिंस्राणां च पिशाचानां योनिमाप्नोति हेमहृत् ।।९।।

तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । मुहुर्योनिमवाप्नोति पुरुषो गुरुतल्पगः ।।१०।।

तिर्यक्त्वं प्राप्य मानुष्यं लभन्ते ते यदा तदा । ब्रह्महा श्रयरोगी स्यात् सुरापः श्यावदन्तकः ।।११।।

हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः । यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते ।।१२।।

ईर्ष्यालुर्मशकश्च स्याद्द्वीपी स्याद्वेदविक्रयी । वराहत्वं च लभते तथैवायाज्ययाजकः ।।१३।।

गोघ्नो भवेच्च जन्मान्धः सर्वाशी वृषदंशकः । मृष्टैकभोजी च कपिर्मत्सरी भ्रमरस्तथा ।।१४।।

अपण्यविक्रयी गृध्रः पशुगाम्यल्पजिह्वकः । एवमन्ये पापिनोऽपि दुर्योनिं यान्ति कर्मभिः ।।१५।।

ततो मनुष्येष्वरि ते दरिद्रा नित्यदुःखिनः । परतन्त्राश्च जायन्ते रोगिणोऽन्धाश्च केचन ।।१६।।

इत्यादिलक्षणैर्ज्ञोयो विपाकः कर्मणां द्विज ! । पुमानकृतनिर्वेशो यमिहाप्नोति निश्चितम् ।।१७।।

प्रायश्चित्तमतोऽघस्य गुरुणो लघुनोऽपि वा । शीघ्रमत्रैव कर्तव्यं सुधिया शास्त्रसम्मतम् ।।१८।।

अन्यथा तु महद्दुःखं प्राप्यमस्त्येव तत्फलम् । इति सर्वत्र शास्त्रेषु निश्चित्यैवास्ति वर्णितम् ।।१९।।

एवं धर्मा द्विज ! प्रोक्ता वर्णाश्रमवतां नृणाम् । वर्णाश्रमेतरेषां च सेपेण सनिष्कृताः ।।२०।।

एतान् धर्मान् मदुक्तान् ये कीर्तयिष्यन्ति भक्तितः । श्रोष्यन्ति वा तेऽपि जना भविष्यन्ति निरेनसः ।२१

धर्मतत्त्वमिति प्रोक्तं मया नणां हिताय वै । प्रायशोऽत्रार्षवाक्यानि तदर्थश्चास्ति वर्णितः ।।२२।।


सुव्रत उवाच :-

इति श्रुत्वा वचस्तस्य साक्षाद्बगवतो द्विजः । स भूप ! परमप्रीतो नत्वा तुष्टाव तं प्रभुम् ।।२३।।


ब्राह्मण उवाच :-

धर्मकर्ता धर्मवक्ता धर्मात्मा धर्मसंस्थितिः । धर्मरक्षावतारो मे प्रीयतां धर्मनन्दनः ।।२४।।

धर्मभक्तीष्टसुखदो धर्मयुग्भक्तिबोधकः । धर्मनिष्ठजनप्रेष्ठः प्रीयतां धर्मनन्दनः ।।२५।।

धर्मस्थापन उद्योक्तो धर्मशास्त्रप्रवर्तकः । धर्मयुक्ज्ञानवक्ता प्रीयतां धर्मनन्दनः ।।२६।।

धर्महीनोन्मूलनकृद्धर्मरूपप्रकाशकः । धर्मकार्यरतो नित्यं प्रीयतां धर्मनन्दनः ।।२७।।

धर्मधर्माश्रयो धर्मरुचिर्धर्मी धर्मधुरन्धरः । धर्मनिष्ठजनैः सेव्यं प्रीयतां धर्मनन्दनः ।।२८।।

धर्मविज्ञो धर्मवपुर्धर्मरूपाखिलक्रियः । धर्मकीर्तिर्धर्ममतिः प्रीयतां धर्मनन्दनः ।।२९।।

धर्मसर्गैकसम्पोष्टा धर्मवंश्याहितस्वधूः । धर्मेष्टदेवो धर्माख्यः प्रीयतां धर्मनन्दनः ।।३०।।

धर्मरक्षणविख्यातो धर्मपत्नीस्तनन्धयः । धर्मोद्धवपथाचार्यः प्रीयतां धर्मनन्दनः ।।३१।।


सव्रत उवाच :-

इति स्तुत्वा हरिं राजन् शिवरामः स वाडवः । प्रणनामाथ विप्रांस्तान् धर्मान्सर्वानबूबुधत् ।।३२।।

धर्मशास्त्रमिदं नित्यं ये पठेयुर्जना भुवि । विद्युस्ते स्वस्वधर्मान्वै साङ्कर्यं चापि नाप्नुयुः ।।३३।।

धर्मनिष्ठाश्च ते नूनमिह लोके परत्र च । कीर्तिं सुखं च विपुलं प्राप्नुयुर्नात्र संशयः ।।३४।।

कृपा श्रीवासुदेवस्य तेष्वेव भवति ध्रुवम् । ततस्ते संसृतेर्नूनं मुच्यन्ते पुरुषा नृप ! ।।३५।।

तस्मादिदं सदा श्रव्यं पठनीयं च भक्तितः । पुम्भिः स्त्रीभिर्हरेर्भक्तैः स्वस्वधर्मबुभुत्सुभिः ।।३६।।

श्रेयस्करान्मानवदेहभाजां जगाद सामान्यविशेषधर्मान् ।
स्वसंश्रितब्राह्मणमीश्वरो यो नारायणं तं मुनिमानतोऽस्मि ।।३७।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे प्रायश्चित्तविधौनिरूपणनामाष्टचत्वारिंशोऽध्यायः ।।४८।।