त्रिपञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


वेदाभ्यासः प्रकर्तव्यः प्रत्यहं ब्रह्मचारिणा । नारायणात्मको वेदो यतः प्रोक्तः सनातनः ।।१।।

माहात्म्यातिशयज्ञानं हरेर्वेदार्थबोधनम् । विना नैव भवेत्तस्माच्चिन्त्योऽर्थस्तस्य चादरात् ।।२।।

प्रमाणानां हि सर्वेषां वेद एव पुरातनैः । प्रमाणं परमं प्रोक्तः सद्बिस्तत्त्वार्थवेदिभिः ।।३।।

नारायणात्समुद्बूतो वेदः प्रणवमूलकः । यथा तथेह सेपात्कथयामि प्रसङ्गतः ।।४।।

पुरुषोत्तम एवादौ प्रकृतेः पुरुषात्परः । नारायणोऽक्षरे धाम्नि वासुदेवो व्यराजत ।।५।।

स सिसृक्षुरथाण्डानि स्वतन्त्रः स्वेक्षया प्रभुः । प्राबोधयद्ब्रह्मधाम्नि सुप्तौ प्रकृतिपूरुषौ ।।६।।

वीर्यं पुरुषरूपेण मायायां वीक्षया प्रभुः । निदधे साऽग्रहीत्तच्च स्त्री गर्भमिव पूरुषात् ।।७।।

ततः प्रधानपुरुषा आविर्भूता अनेकशः । प्रधाने वीर्यमाधत्त तत्पुंरूपेण च प्रभुः ।।८।।

चिद्रूपं भगवद्वीर्यं मायास्थै रजआदिभिः । मिश्रं गुणैरचिद्रूपैर्महानासीग्दुणात्मकः ।।९।।

तं मायाऽसूत सोऽस्राक्षीदण्डकोशं हिरण्मयम् । अहङ्काराकाशमुख्यैः षड्भिरावरणैर्वृतम् ।।१०।।

महापुरुषसृष्टेऽसावनेकाण्डसमाश्रये । विराट्संज्ञो जलेऽवात्सीत्कारणार्णवसंज्ञाके ।।११।।

आविर्बभूव कालेन तस्मिन्वैराजपूरुषः । सोऽव्यक्तकरणः शिश्ये तदण्डे गर्भवारिणि ।।१२।।

ब्रह्मादीनीश्वरान्सर्वाञ्जीवांस्तत्स्थानकानि च । स्रष्टुं स नाशकद्बोगान्भोगोपकरणानि च ।।१३।।

कालशक्त्या प्रभोस्तस्य मुखबाहुपदादयः । आसन्नवयवा व्यक्ता बहिश्चान्तर्हृदादयः ।।१४।।

तेष्विन्द्रियैः सहावात्सुर्गोलकेष्वधिदेवताः । वरुणाद्याश्च चन्द्राद्या बाह्यैराभ्यन्तरैस्तथा ।।१५।।

विराट्सूत्राव्याकृताख्यं तदा तस्य वपुस्त्रयम् । अपि सुव्यक्तमभवत्स्थूलादीवात्मनामिह ।।१६।।

यथा पाकदशायां स्यान्नालिकेरीफलं त्रिधा । व्यक्तं ज्ञोयं तथैवास्य वपुरेकमपि त्रिधा ।।१७।।

तद्योगात्कथितश्चासौ विष्णुब्रह्मशिवाभिधः । गोलोकेन्द्रियदेवांस्तान्व्यापत्तादात्म्यतोऽथ सः ।।१८।।

तथाभूतोऽपि नोत्थातुं स शशाक यदा तदा । महापुरुषरूपेण तस्मिन्नारायणोऽविशत् ।।१९।।

तज्जीवरूपतां प्राप्य तदध्यात्मादितां च सः । सहस्रशीर्षपुरुषसंज्ञोऽभूत्पुरुषोत्तमः ।।२०।।

आदौ वैराजशिरसि स सहस्रदलाम्बुजे । आविर्भूयाक्षरब्रह्मात्मकं नादं चकार च ।।२१।।

सुषुम्णावर्त्मना सद्यो नाभिकन्दं च तस्य सः । व्याप्योर्ध्वं ववृधे तस्मान्महाप्राणेन संयुतः ।।२२।।

अधोमुखं नाभिपद्मं कदलीकोशवत्स्थितम् । तेनैवाभूदूर्ध्वमुखं हृदयावधि तस्य च ।।२३।।

तस्य यो नाभिकन्दे तु नादोऽभूत्सा परेति वाक् । वेदोत्पत्त्यै भगवता बीजत्वेन प्रकाशिता ।।२४।।

तेजःप्रवाहरूपाऽथ सार्धमात्रात्मिका ततः । प्राप्य तद्धृदयाकाशं पश्यन्त्याख्यामवाप च ।।२५।।

मध्यमाख्यां कण्ठदेशं प्राप्य सालभताथ च । वदनं प्राप्य याति स्म वैखरीत्यभिधां किल ।।२६।।

ऊर्ध्वं गच्छत्यधो गत्वा जलयन्त्रे जलं यथा । नाभिमेत्य मुखं याति नादोऽपि शिरसस्तथा ।।२७।।

वैखर्यादिस्थानकेषु तद्वक्त्रगलहृत्स्वथ । वर्णाः क्रमेणाविरासंस्त्रैसोक्यधारकाः ।।२८।।

अकारः प्रथमः प्रोक्तस्तत्रोकारो द्वितीयकः । अन्त्यो मकारः कथितास्त्रयोऽमीत्रिगुणात्मकाः ।।२९।।

स्थानेष्वेषु व्यतिष्ठंस्ते विष्णुब्रह्ममहेश्वराः । अधीश्वराः क्रमेणैषां वर्णानां च गुणौकसाम् ।।३०।।

स्वस्वस्थानस्थिता एव वर्णास्ते त्विच्छया हरेः । ऐक्यं प्रापुर्हृदाकाशे ततोऽभूत्प्रणवध्वनिः ।।३१।।

महाप्राणमयो घोषः स मनोमयतां हृदि । प्राप्येन्द्रियमयत्वं च कण्ठे व्याञ्जीच्च तन्मुखे ।।३२।।

अन्तःस्थोष्मस्वरस्पर्शप्रमुखाः सकलास्ततः । वर्णा आसंस्ततो वेदाः सर्गारम्भे हि जज्ञिारे ।।३३।।

स्थानभेदाद्यथा नाद एकोऽप्यासीच्चतुर्विधः । नारायणोऽपि भगवांस्तथैवाभूच्चतुर्विधः ।।३४।।

नाभिपद्मे परादेवो वासुदेवाख्य ईरितः । सङ्कर्षणाख्यश्च तथा पश्यन्तीदेवता हृदि ।।३५।।

अनिरुद्धाभिधः कण्ठे मध्यमायाश्च देवता । मुखे प्रद्युम्ननामाऽसौ वैखर्या देवता मतः ।।३६।।

विष्ण्वादयस्त्रयो देवाः स्वस्थानस्था उपासत । प्रद्युम्नादीन् क्रमेणैव तत्तद्वाण्यधिदेवताः ।।३७।।

सङ्कर्षणादयस्तत्र सगुणा मूर्तयः प्रभोः । स्वयं तु वासुदेवोऽस्ति नाभिपद्मे हि निर्गुणः ।।३८।।

इत्थं नारायणादेव साक्षाच्छ्रीपुरुषोत्तमात् । आविर्बभूव सृष्टयादौ वेदः सर्वार्थबोधकः ।।३९।।

सर्वस्मिन् वाङ्मये मुख्यः साक्षान्नारायणास्यतः । उत्पन्नत्वाद्वेद एव ततोऽध्येयः स वर्णिना ।।४०।।

अच्छेद्योऽखण्डचैतन्यः स्वात्मा ज्ञोयः पृथक्तनोः । तस्यैक्यं ब्रह्मणा बुद्धा तद्रूपः सन्भजेद्धरिम् ।४१

भोगानामुपभोगेन न कामः शाम्यति क्वचित् । हविषा कृष्णवर्त्मेव भूयस्तेन तु वर्धते ।।४२।।

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ।।४३।।

जीर्यन्ते जीर्यमाणस्य पुंसः केशरदादयः । जीविताशा धनाशा च कुमारीव विवर्धते ।।४४।।

नश्वरत्वाद्धि देहस्य तदीयेष्वखिलेष्वपि । ततस्तृष्णां परित्यज्य धर्मनिष्ठो हरिं भजेत् ।।४५।।

देशं कालं क्रियां देवं शास्त्रं मन्त्रं च पूरुषान् । नासतः क्वापि सेवेत सेवेतैतान्सतः सदा ।।४६।।

देशादीनसत इहाऽश्रयन्ति ये ते संयान्ति प्रसभमसत्त्वमेवसन्तः ।
तस्मात्ते निजहितमिच्छताऽतिदूरं हातव्या मुनिवर ! सन्त एव सेव्याः ।।४७।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे नैष्ठिकधर्मेषु ब्रह्मचारिणां वेदाध्ययनप्रसङ्गेन वेदोत्पत्तिनिरूपणनामा त्रिपञ्चाशत्तमोऽध्यायः ।।५३।।