द्विपञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


कर्म दैवं च पित्र्यं च यथाकालं यथाविधि । ब्रह्मचारी विष्णुभक्तः कुर्यान्नित्यमतन्द्रितः ।।१।।

नरनारायणः साक्षादाचार्यो ब्रह्मचारिणाम् । तपः परोपकारार्थं कुर्वन्नमरदुष्करम् ।।२।।

दैवं पित्र्यं करोत्येव भगवानपि नित्यदा । तर्हि हेयं कथं तत् स्यादधुनातनवर्णिभिः ।।३।।

सन्ध्यात्रयमुपासीत काले काले यथाविधि । उपस्थानं रवेः कुर्याज्जपेद्वेदप्रसूं च सः ।।४।।

सायं प्रातः प्रदीप्तेऽग्नौ होममन्वहमाचरेत् । जलाञ्जलीनशक्तस्तु तस्मिन्काले जले क्षिपेत् ।।५।।

अनापदि द्विजान्नित्यं याचित्वाऽन्नमुपाहरेत् । अपक्वं पाचयित्वा तन्निवेद्याद्याच्च विष्णवे ।।६।।

स्ननं त्रिषवणं कुर्याद्विष्णुपूजानं तथाऽन्वहम् । पञ्चयज्ञान् यथाशक्ति ब्रह्मचारी समाचरेत् ।।७।।

सदोपवीती च भवेत्सदा बद्धशिखश्च सः । पित्रोः श्राद्धं च कुर्वीत यथाकालं यथोचितम् ।।८।।

मेखलामजिनं दण्डमुपवीतं च तुम्बिकाम् । अप्सु प्रास्येद्विनष्टानि धृत्वैवान्यानि मन्त्रतः ।।९।।

सूनिसूतकिपाषण्डियवनान्त्यजपापिनाम् । स्पर्शे शमशानाक्रमणे सचैलं स्ननमाचरेत् ।।१०।।

अमेध्यस्पर्शने वान्तावसद्बैक्षभुजावपि । स्ननं कुर्यान्मलोत्सर्गे दुःस्वप्ने च बृहद्व्रतः ।।११।।

स्नत्वोपवासं कुर्वीत स्त्र्यङ्गस्पर्शे तु सर्वथा । स्त्र्यङ्गस्थवस्त्रस्पर्शे च क्वचिज्जातेऽप्यबोधतः ।।१२।।

एकादशीषु सर्वासु विष्णोर्जन्मोत्सवेषु च । उपवासान्स कुर्वीत सम्प्रदायानुसारतः ।।१३।।

प्रासादिकं हरेरन्नं मितं च नियतं शुचिः । भुञ्जीत प्रत्यहं वर्णी वैश्वदेवावशेषितम् ।।१४।।

भवेद्व्रतेषु निरतः कृच्छ्रचान्द्रायणादिषु । त्वगस्थिशेषगात्रस्तैः शुष्कमांसासृगात्मवान् ।।१५।।

ज्ञानविज्ञानवैराग्यसम्पन्नो विजितेन्द्रियः । एकान्तिकीं हरौ भक्तिं कुर्यादचलनिश्चयः ।।१६।।

गुरोः समीपे वर्तेत दासवत्तन्निदेशकृत् । याने स्थाने च शयने नातिदूरस्ततो भवेत् ।।१७।।

शान्तो दान्तश्च धृतिमान् समलोष्टाश्मकाञ्चनः । मित्रोदासीनरिपुषु समदृष्टिर्भवेत्सुधीः ।।१८।।

बिभियादिव सर्पेभ्यः स्वबन्धुभ्योऽथ योषितः । शवादिव च मिष्टान्नतृप्तेस्तु निरयादिव ।।१९।।

विप्राणां कुशलं वाञ्छन् प्रशंसेत्तांश्च संसदि । पूजयेन्मानयेत्प्रीत्या विष्णुभक्तानमत्सरः ।।२०।।

जीवेद्धर्मार्थमेवासौ फलं धर्मस्य तु प्रभोः । श्रीविष्णोः प्रीणनं विद्यान्न तु क्षुद्रसुखं स च ।।२१।।

अभयं सर्वभूतेभ्यो महादानादितोऽधिकम् । भगवद्वार्तया दद्यात्सर्वकालं च नैष्ठिकः ।।२२।।

स्नने होमे जपे चैव भोजने सन्ध्ययोर्द्वयोः । मौनी भवेत्तथोत्सर्गे स च शौचक्रियावधि ।।२३।।

विधिष्वेतेषु यद्येकमतिक्रामेत्प्रमादतः । तर्हि तद्दोषशुद्धयर्थं कुर्यादेकमुपोषणम् ।।२४।।

ज्ञानं सत्यं तितिक्षा ह्रीरमात्सर्यं धृतिस्तपः । शमो दमोऽनसूया च दानं यज्ञो गुणा अमी ।।२५।।

कामः क्रोधः शोकमोहौ तृष्णेर्ष्या चाऽकृपा स्पृहा । 
लोभोऽसूया जुगुप्सा च मानो दोषा इमे मताः ।२६

दोषैः स च द्वादशभिर्विहीनो युक्तो गुणैर्द्वादशभिश्च नित्यम् ।
श्रीकृष्णभक्तौ निरतश्च कुर्वन् सेवां गुरोरत्र विशिष्यते वै ।।२७।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे नैष्ठिकधर्मेषु ब्रह्मचारिणां विहितक्रियानिरूपणनामा द्विपञ्चाशत्तमोऽध्यायः ।।५२।।