एकपञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


न क्रोधो वर्णिना कार्यो जायेताकस्मिकः स चेत् । तर्हि यस्मै स जातस्तं प्रणम्याशु प्रसादयेत् ।।१।

पापमूलं च लोभोऽस्ति ततस्त्याज्यः स सर्वथा । सङ्ग्रहो नैव कर्तव्यो विहितेतरवस्तुनः ।।२।।

त्यागीव ब्रह्मचार्येष धनं रक्षेन्न रक्षयेत् । वर्जयेत्सकलान्भोगान् द्यूतादिव्यसनानि च ।।३।।

स्वसम्बन्धिजनानां च दृाऽसावापदं क्वचित् । धनार्थमुद्यमं नैव कुर्यात्तस्या निवृत्तये ।।४।।

मोहं मदं मत्सरं च मानं तन्द्रीं च वर्जयेत् । दम्भं दर्पं च कार्पण्यं कलिं निन्दां च यत्नतः ।।५।।

अवाच्यां न वदेद्वाचमभक्ष्यं नैव भक्षयेत् । अस्पृश्यं न स्पृशेद्वर्णी नापेयं च पिबेत्क्वचित् ।।६।।

न मर्मभिद्वचो ब्रूयाद्दुरुक्तिं वितथं कटु । नानृतं च वदेत्क्वापि सत्यं च परदुःखकृत् ।।७।।

रसलुब्धो भवेन्नैव नैकं भिक्षेत चान्वहम् । धातुपुष्टिकरं चान्नं प्रायो वर्णी न भक्षयेत् ।।८।।

खर्या उष्ट्रयास्तुरङ्गायाश्च हस्तिन्या अपि यत्पयः । आपद्यपि क्वचिन्नैव स्वीकुर्यान्नौषधेऽपि तत् ।।९

चण्डिकाभैरवादीनां मद्यमांसाशिनां क्वचित् । नाश्नीयाद्ब्रह्मचार्येष आपद्यपि निवेदितम् ।।१०।।

नाद्याच्च मादकं किञ्चिन्न स्पृशेत्पललं तथा । नाद्यात्पलाण्डुं लशुनं नान्नं दत्तमश्रद्धया ।।११।।

मद्यमांसाद्यभक्ष्येण मिश्रमौषधमप्यसौ । नाद्याच्च तन्न गृीयादज्ञातगुणवैद्यतः ।।१२।।

अनिवेदितमन्नं वा फलापत्रादि विष्णवे । ब्रह्मचारी न भुञ्जीत क्वापि किञ्चिन नैष्ठिकः ।।१३।।

नात्याहारं च कुर्वीत पुनर्भुक्तिमनापदि । पौर्वाकिं कर्म नित्यमसमाप्य च कर्हिचित् ।।१४।।

न याचेदाग्रहेणासौ भिक्षां कमपि कर्हिचित् । न द्वारधन्धनं कुर्यान्नाक्रोशं चान्नयाचने ।।१५।।

नाभिशस्तं न पतितं पापकर्मरतं न च । द्विजमाशौचिनं क्वापि न याचेदन्नमाह्निकम् ।।१६।।

अगालितेन तोयेन नाम्बुकार्यं समाचरेत् । न स्पृशेन्मद्यपात्रादि यदन्यच्चाप्यमङ्गलम् ।।१७।।

खरमुष्ट्रमनड्वाहं महिषं बर्करं च सः । ब्रह्मचारी नाधिरोहेदापद्यपि कदाचन ।।१८।।

दिवा निन्द्रां न कुर्वीत निशश्चाद्यन्तयामयोः । सन्ध्ययोश्च स्वपेन्नैव ब्रह्मचारी विनापदम् ।।१९।।

प्रासादिकेनापि हरेश्चन्दनेनाङ्गचर्चनम् । तथा सुगन्धितैलेन कुर्यान्नाभ्यङ्गमप्यसौ ।।२०।।

गन्धद्रव्यं च कस्तूरीकुङ्कुमादि न धारयत् । न दन्तान् रञ्जयेत्क्वापि कुर्यात्तान्नोज्ज्वलानपि ।।२१।।

छत्रं न धारयेद्वर्णी न नृत्यप्रेक्षको भवेत् । नातिरक्तानि वासांसि काषायाण्यपि धारयेत् ।।२२।।

न चाङ्गमर्दनं कुर्यात्स्ननकाले तथा पदे । घर्षयित्वा न धावेच्च मुखं नेक्षेत दर्पणे ।।२३।।

नात्युज्ज्वलानि वासांसि धृत्वा कुर्वीत कर्हिचित् । नाञ्जयेच्च स्वके नेत्रे न तामबूलादि भक्षयेत् ।२४

न गायेद्ग्राम्यगीतानि ग्राम्यवार्ता न कीर्तयेत् । न दौत्यं न च पैशुन्यं वर्णी कुर्यान्न चारताम् ।।२५।।

देवताप्रतिमानां च तीर्थानां धर्मिणां गवाम् । वेदानां च सतीनां च गर्हां कुर्यान्न सग्दुरोः ।।२६।।

न हिंसेत्प्राणिमात्रं च मनसा वपुषा गिरा । न दन्तधावनायापि छिन्द्यादार्द्रद्रुमाङ्गकम् ।।२७।।

तुलसीपत्रपुष्पादि विष्णुपूजनहेतवे । होमार्थं समीधो दर्भान् गृन्नेष न दुष्यति ।।२८।।

न सूर्यास्तमयादूर्ध्वं चलेदध्वन्यनापदि । जन्तूनालोक्य शनकैर्दिवसेऽपि चलेत्पथि ।।२९।।

न जन्तुबहुले स्ननं कार्यं क्वापि जलाशये । तत्रैव गालयित्वाम्बु पात्रे स्नयात्ततो बहिः ।।३०।।

शुद्धर्थोदकपात्रेण विनाऽपाक्कच्छमात्मनः । अनिष्कास्य च कुर्वीत न मूत्रोत्सर्गमप्यसौ ।।३१।।

नात्मघातं क्वापि कुर्याज्जातिभ्रंशक्रियां न च । पाणिपादाक्षिचापल्यं न कुर्यात्कूर्दनं तथा ।।३२।।

राज्ञा च राजपुरुषैः स्त्रीभिश्च गुरुभिः सह । विवादं नैव कुर्वीत येन स्वस्य जयो भवेत् ।।३३।।

परान्नोद्वेजयेद्वाचा नाविश्वास्यः परैर्भवेत् । नोद्विजेद्धैर्यवान्वर्णी दुर्जनानां दुरुक्तिभिः ।।३४।।

तेन तूलपटी चापि न प्रावार्या ह्यनापदि । आपद्यपि क्वचिन्नैव सा तु चेत्प्रावृता स्त्रिया ।।३५।।

अनापदि न खट्वायां वर्णी नग्नश्च न स्वपेत् । न केशोत्पाटनं कुर्यान्न मण्यादिप्रतिग्रहम् ।।३६।।

मृत्तिकातृणकाष्ठादि यत्स्यात्सस्वामिकं यदि । तदा तदपि चौर्येण गृीयान्न कदाचन ।।३७।।

न सन्ध्याहोमयोः कालमतिक्राम्येद्विनापदम् । विष्णुपूजां गुरोः सेवामर्कोपास्तिं तथैव च ।।३८।।

क्षेत्रवाटीद्रुमावापं स्ववृत्त्यर्थं न चाचरेत् । नैवान्नसङ्ग्रहं कुर्यान्न रसादेरपि क्वचित् ।।३९।।

नापवादं गुरोः क्वापि ब्रूयान्नातिक्रमेत्सतः । परिदध्यान्न विकृतं वासश्चोपानहौ न च ।।४०।।

अमार्गेण न गच्छेच्च गृहिगेहं कदाचन । बालकं लालयेन्नैव वर्णी कस्यचिदप्यसौ ।।४१।।

तैलेन केशसंस्कारं ब्रह्मचारी न चाचरेत् । मनुष्यं वापि पश्वादिं तृणेनापि न ताडयेत् ।।४२।।

विप्रभिक्षुकसूतादेराजीव्यवृत्तिनाशनम् । यथा स्यान्न तथा कुर्याद्वार्ता हर्याश्रिता अपि ।।४३।।

पितरौ स्वमुपाध्यायं सतीर्थ्यं च गुरुं विना । सनाभेरपि नो कुर्यादौर्ध्वदैहिककर्म च ।।४४।।

यो यं निषेधेष्वेतेषु व्यतिक्रामेदनापदि । स तद्दोषापनोदार्थं कुर्यात्पृथगुपोषणम् ।।४५।।

न निष्कृतिं दुष्कृतकर्मणो यः करोति मूढःस तु वर्णिवर्य ! ।
दुष्कीर्तिमाप्नोति हि भूमिलोके ज्ञोयश्च्युतश्चोद्धवसम्प्रदायात् ।।४६।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे नैष्ठिकधर्मेषु ब्रह्मचारीणां निषिद्धक्रियानिरूपणनामैकपञ्चाशत्तमोऽध्यायः ।।५१।।