सुव्रत उवाच :-
मन्दिरं कारयंस्तत्र धर्मवार्ताभिरन्वहम् । प्रीणयन्निजभक्तांश्च समुवास हरिर्नृप ! ।।१।।
तमेकदा वर्णिराजो मुकुन्दानन्द आदरात् । बद्धाञ्जलिर्नमस्कृत्य प्रपच्छ विनयान्वितः ।।२।।
मुकुन्दानन्द उवाच :-
त्वदाश्रितानामस्माकं नैष्ठिकब्रह्मचारिणाम् । श्रोतुमिच्छाम्यहं त्वत्तो धर्मान् पालयानशेषतः ।।३।।
सुव्रत उवाच :-
इति नैष्ठिकवर्येण पृष्टस्तेन नराधिप ! । प्रसन्नो भगवानूचे भक्तिधर्मप्रपोषकः ।।४।।
श्रीनारायणमुनिरुवाच :-
समीचीनं त्वया पृष्टं वर्णिराज ! वदाम्यहम् । नैष्ठिकानां यथाशास्त्रं धर्मांस्ते ब्रह्मचारिणाम् ।।५।।
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । ब्रह्मचर्याश्रमस्यैते कथिता अधिकारिणः ।।६।।
गर्भाधानादिसंस्कारैः संस्कृतश्चोपनायनम् । प्राप्तो यथाकालमसौ ब्रह्मचर्यं द्विजोऽर्हति ।।७।।
त्रिरात्रं बुद्धिहीनस्य सावित्राख्यं तदीरितम् । प्राजापत्याख्यमुदितं तदब्दं दुर्बलस्य च ।।८।।
अपि बुद्धिमतः पुंसो गृहाश्रमरुचेस्तु तत् । ब्रह्माख्यं द्वादशाब्दं च प्रोक्तं वैराग्यमान्द्यतः ।।९।।
यावज्जीवं नैष्ठिकाख्यमनिच्छोस्तु गृहाश्रमम् । प्रोक्तं तद्बुद्धिवैराग्यबलिनो विरलस्य हि ।।१०।।
तत्रान्त्यः श्रेयसे स्वस्य सग्दुरुं शीघ्रमाश्रयेत् । विष्णुमाहात्म्यबुद्धयैव स पठेन्निगमं गुरोः ।।११।।
साङ्गं सार्थं च स गुरोरधीत्य स्वस्य शक्तितः । वेदं दद्यात्ततस्तस्मै शक्त्या स्वर्णादिदक्षिणाम् ।।१२
तीव्रवैराग्ययुक्तत्वाद्दीक्षामुद्धववर्त्मनि । सम्प्राप्तो नैष्ठिकीं स स्यात्तद्धर्मान्कीर्तयाम्यहम् ।।१३।।
नैष्ठिकेन व्रतेनैव यावज्जीवं स्वसग्दुरोः । सेवने कृतसङ्कल्पः स भवेद्बक्तिमान् हरौ ।।१४।।
नित्यं यज्ञोपवीतं च स विप्रो धारयेच्छिखाम् । तुलसीमालिकायुग्मं स्वकण्ठपरिवर्ति च ।।१५।।
मौञ्जीं च मेखलां दण्डं पालाशं बाल्वमेव वा । स धारयेद्दर्भपाणिश्चासनार्थं मृगाजिनम् ।।१६।।
सोपपात्रं चाम्बुभृतं नित्यं धातुकमण्डलुम् । साम्बुगालनवस्त्रं तं धारयेदुज्ज्वलं शुचिः ।।१७।।
धारयेत् पञ्चकेशांश्च जटायां जन्तुसम्भवात् । तत्राग्निहोत्रजं भस्म मिश्रणीयं नहीतरत् ।।१८।।
अतिजन्तूदये पित्रोर्मृत्यौ वाऽपदि मुण्डनम् । कक्षोपस्थशिखावर्जं कारयेत्तीर्थ एव सः ।।१९।।
द्वे कौपीने सिते धोत्रे क्षौमं वैकां च कम्बलीम् । धारयेद्बुक्तिसमये परिधानार्थमेव सः ।।२०।।
कन्थां च प्रच्छदपटीं कम्बलं द्वे च पञ्चिके । शिरःपटकमेतानि काषायाण्येव धारयेत् ।।२१।।
पूजोपकरणैः साकं शालग्रामं च धारयेत् । चित्रार्चां चावश्यकानि धातुपात्राणि पक्तये ।।२२।।
सच्छास्त्रपुस्तकं चासौ धर्मज्ञानादिपुष्टये ।स्वोपयोगि भवेद्यावत्तावत्तदपि धारयेत् ।।२३।।
पीठार्थं कम्बलीखण्डो जपमाला सगोमुखी । धार्या गोपीचन्दनं च पादुके इति सङ्ग्रहः ।।२४।।
इतोऽन्यत्परिगृीयाद्यावतो वासरान्स तु । उपवासान् प्रकुर्वीत तावतः स्वस्य शुद्धये ।।२५।।
स्त्रियः कामान्न वीक्ष्याश्च क्रीडन्त्यस्तेन वा स्थिताः । श्रव्याः कीर्त्या न तद्वार्ताश्चासच्छास्त्रस्थतत्कथाः २६
क्रीडां विनोदं गुह्योक्तिं स्त्रीभिः साकं न चाचरेत् । न कारयेच्च पुंसाऽपि कामयेत हृदा न ताः ।।२७
स्पृशेत्स्त्र्यङ्गं तु न क्वापि न च स्त्रीधार्यमंशुकम् । धौतशुष्कं च धौतार्द्रं तच्चेत्तर्हि न दोषभाक् ।।२८
विहाय देवतामूर्तिं न स्त्रियाः प्रतिमामपि । काष्ठधातुवस्त्रमृज्जां चित्रस्थामपि न स्पृशेत् ।।२९।।
न स्त्रीजातेश्च गुह्याङ्गं पश्येद्बुद्धा च दूरतः । तथा नग्नां तु नेक्षेत कन्यकामपि नैष्ठिकः ।।३०।।
न स्त्रीभिः सह भाषेत न तच्चित्रं तथा लिखेत् । न स्पृशेन्न च वीक्षेत चित्राद्यपि च मैथुनि ।।३१।।
दृश्यमैथुनिचित्रादौ न च गेहे वसेत्क्वचित् । स्त्रीवक्त्रसन्मुखमुखं क्वचिन्नोपविशेच्च सः ।।३२।।
प्रच्छन्नं प्रेषयेन्नैव वस्तु कि ञ्चिदपि स्त्रियै । प्रेषितं च तया किञ्चिग्दृीयान्न रहस्तथा ।।३३।।
स्त्रियमुद्दिश्य पुरतः पुरुषस्य हरेरपि । कथां वार्तां न कुर्वीत शृणुयान्न च तां ततः ।।३४।।
स्वपेतां दम्पती रात्रौ यतः कुडयन्तरे गृहे । तत्र गेहे स्वपेन्नेव दोषो नास्त्यन्यथा त्विह ।।३५।।
न स्वपेत् स्त्रीयुते गेहे सत्सु पुंसु बहुष्वपि । न स्त्रीसञ्चरणस्थाने कुर्यादुत्सर्गकर्म च ।।३६।।
स्ननोत्सर्गादिका यत्र यत्र स्युर्योषितां क्रियाः । तत्र तत्र क्रियां तां तां वर्णी नैवाचरेत् क्वचित् ।।३७।।
धनुर्मानान्तरे नैव स्त्रिया गच्छेदनापदि । मार्गाल्पोत्सवमौढयादौ रक्ष्यं तत्स्पर्शतो वपुः ।।३८।।
स्त्रिया सह रहःस्थाने वर्णी तिष्ठेन्न कर्हिचित् । न चाध्वनि तया साकं स्थविरोऽपि क्वचिद्व्रजेत् ।।३९
नारोहेद्वाहनं वर्णी क्वाप्यारोहेद्यदापदि । तदापि न स्त्रिया साकं शकटादावुपाविशेत् ।।४०।।
परिवेष्ट्री पाककर्त्री स्याद्यत्र स्त्री न पूरुषः । तत्र भोक्तुं नैव गच्छेन्न स्पृशेच्च भ्रुकुंसकम् ।।४१।।
गुणांश्चाप्यगुणान्स्त्रीणां क्वचिद्वर्णी न वर्णयेत् । लेपनाद्यर्थमपि ताः स्वमठे न प्रवेशयेत् ।।४२।।
एतेषु नियमेषु स्याद्यस्य भङ्गः प्रमादतः । तत्रैक उपवासोऽस्य प्रायश्चित्तमुदीरितम् ।।४३।।
स्त्रीसम्बन्धिनिषेधोऽयं साक्षात्स्पर्शं रहःस्थितिम् । विना स्वासन्नसम्बन्धस्त्रीभ्योऽन्यत्रावगम्यताम् ।।४४
रहःस्थाने तु मात्रापि सह तिष्ठेन्न कर्हिचित् ।ब्रृहद्व्रतधरो वर्णी साक्षात्तामपि न स्पृशेत् ।।४५।।
कार्यमावश्यकं स्याच्चेत्सम्बन्धिन्यापि योषया । अस्पृशन्भाषणादीनि तर्हि कुर्वीत नान्यदा ।।४६।।
क्वचिदापदि कष्टायां भाषणस्पर्शने स्त्रियाः । विहिते भवतस्ते च कथयामि समासतः ।।४७।।
अन्नाम्बुकाष्ठपात्रादेर्याचने प्रच्छनेऽथ च । स्वावासस्य वदेन्नारीमुद्दिश्य पुरुषं प्रति ।।४८।।
ईदृशावश्यके कार्ये रीतिरित्थं हि भाषणे । साक्षाद्बाषणकालं च सूचयामि स्त्रियं प्रति ।।४९।।
सबन्धनाश्रमे स्वस्य योषा यद्यापतेत्क्वचित् । स्पृष्टं वा स्वं तदा त्वस्य न दोषो भाषणे तया ।।५०।।
जलाग्निशृङ्गिदंष्ट्रयादेर्भये शस्त्राद्विषात्तथा । गृहद्रुमादिपाते वा रोगे स्वस्य स्त्रिया अपि ।।५१।।
प्राणान्तिकापदीदृश्यां साक्षात्स्पर्शे च भाषणे । स्त्रिया जातेऽपि नास्त्येव दोषस्तस्यान्यथाऽस्ति हि ।५२
सर्वथैव निषिद्धोऽस्ति स्त्रीप्रसङ्गोऽत्र वर्णिनः । स्त्रैणप्रसङ्गोऽपि तथा हेयः प्रोक्तोऽस्ति बन्धकृत् ।।५३
न वीर्यपातनं कुर्याद्बुद्धिपूर्वं कदाचन । स्रावे जाते स्वतः कुर्याद्दिनमेकपोषणम् ।।५४।।
प्रमादात्पातिते वीर्ये कार्यं चान्द्रायणव्रतम् । साक्षात्सङ्गे स्त्रिया जाते पतितोऽसौ बृहद्व्रतात् ।।५५।
नैष्ठिकत्वं न तस्य स्यात्प्रायश्चित्तशतैरपि । अतस्तन्मण्डलाद्भ्रष्टः स त्वौद्धवसमाश्रितात् ।।५६।।
प्रायश्चित्तं विधायासौ ततः कुर्याग्दृहाश्रमम् । तत्र साधून्सेवमानो लक्ष्मीनारायणं भजेत् ।।५७।।
यदि न स्यात्स्त्रियाः प्राप्तिः कुलद्रव्याद्यभावतः । तुरीयाश्रममाश्रित्य तपस्येत्तर्हि मुक्तये ।।५८।।
तत्रापि भक्तिं कमलाधवस्य कुर्वीत नित्यं स च वर्णिराज ! ।पापक्रियाया विमुखस्तयाऽसौ मृत्वाप्नुयाद्धाम तदीयमेव ।।५९।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणेनैष्ठिकधर्मेषु ब्रह्मचारिपरिग्रहस्त्रीप्रसङ्गवर्जननिरूपणनामा पञ्चाशतमोऽध्यायः ।।५०।