षड्पञ्चाशत्तमोऽध्यायः

सुव्रत उवाच :-


कृष्णेतरपदार्थेषु रुचिहीनस्य सर्वथा । धर्मादिप्रच्छकेऽथाऽसीत् पुंसि प्रीतिर्हरेर्नृप ! ।।१।।

शतानन्दो मुनिस्तस्य सेवायां निरतः सदा । पादसंवाहनं कुर्वन्नेकदाऽसीत्तदन्तके ।।२।।

तमुवाच स्वयं स्वामी मुने ! किञ्चन ते यदि । प्रष्टव्यं स्यात्तदैतर्हि पृच्छ वक्ष्ये तदुत्तरम् ।।३।।

एवमुक्तः स तु प्रीतो भृशं मुनिरुदारधीः । प्राञ्जलिस्तं नमस्कृत्य पप्रच्छेत्थं नराधिप ! ।।४।।


शतानन्द उवाच :-

साङ्गं योगमहं स्वामिन् ! बोद्धुमिच्छामि तत्त्वतः । त्वत्त एव हि सर्वज्ञात्सेवनीयाच्च योगिभिः ।।५।

मया तु त्वत्प्रसादेन योगिनामपि दुर्लभा । समाधिसिद्धिः प्राप्ताऽस्ति विना साधनसम्पदम् ।।६।।

तथापि लक्षणादीनि योगशास्त्रानुसारतः । विवित्साम्यङ्गियोगस्य तदङ्गानां च सर्वशः ।।७।।


सुव्रत उवाच :-

इति पृष्टः स मुनिना तेन योगिहितैषिणा । प्रसन्नो भगवान् राजंस्तमुवाच महामतिम् ।।८।।


श्रीनारायणमुनिरुवाच :-

समीचीनास्ति ते बुद्धियोगं पृच्छसि यन्मुने ! । नास्ति योगसमं किञ्चित्साधनं स्वेप्सितार्थदम् ।।९।।

योगं विना तु मनसो निग्रहो दुष्करः सताम् । भक्तिर्ज्ञानं च योगेन सिद्धिमाप्नोति निश्चितम् ।।१०।।

आदौ हिरण्यगर्भेण योगशास्त्रं प्रवर्तितम् । पतञ्जलिस्वरूपेण तत्फणीन्द्रेण विस्तृतम् ।।११।।

तत्सारमहमादाय साङ्गं योगं वदामि ते । कृष्णे समाधिं मनसो विद्धि त्वं योगलक्षणम् ।।१२।।

यथेद्धवह्निना सर्वे नाश्यन्ते धातुसङ्गताः । दोषाः समाधियोगेन नाश्यन्ते मानसास्तथा ।।१३।।

अतस्तद्दोषनाशार्थं भक्तेन कमलापतेः । समाधियोगाभ्यसनं कार्यमुत्साहिना द्रुतम् ।।१४।।

साङ्गं समाधियोगं तु संसाधयितुमिच्छता । श्रयणीयो गुरुर्भक्त्या सर्वयोगकलानिधिः ।।१५।।

मनोनुकूलया तस्य नित्यं शुश्रूषया स तम् । प्रीणयेदथ तत्प्रोक्तरीत्या योगं समभ्यसेत् ।।१६।।

देशे शुचौ समे वालुशर्करादिविवर्जिते । मनोनुकूले निर्बाधे निवसेद्योगसाधकः ।।१७।।

अन्नादिभिः स्वशुश्रूषा कर्तुर्यत्रानुकूलता । भवेत्स्थाने शीतवातदंशबाधा न यत्र च ।।१८।।

जलाशयानुकूल्यं च यत्र स्वस्योचितं भवेत् । आश्रमे तत्र निश्चिन्तो भक्तो योगं समभ्यसेत् ।।१९।।

नदीकूपोपकण्ठे च सभये पितृकानने । सशब्देऽग्निजलाभयाशे जीर्णगोष्ठे चतुष्पथे ।।२०।।

अशुचौ पूतिगन्धे च शुष्कपर्णचये तथा । देशे जनाकुले चापि न योगाभ्यासमाचरेत् ।।२१।।

जनसङ्गं चातिजल्पमत्याहारमतिश्रमम् । रसलौल्यमतिक्रोधं न कुर्याद्योगमाचरन् ।।२२।।

तुन्दस्य पूरयेद्बागौ द्वावन्नेनैकमम्बुना । शेषयेदेकमेवं हि मितभुग्योगकृद्बवेत् ।।२३।।

यवतण्डुलगोधूमान् गोदुग्धाज्ये च शुण्ठिकाम् । भक्षयेदभ्यसन् योगं सिद्धे त्वस्मिन्न तद्यमः ।।२४

परित्यजेत्सर्वथैव संसर्गं मद्यमांसयोः । भङ्गतमालाहिफेनमादकादीनि पूति च ।।२५।।

साधको भक्षयेन्नैव दधितक्राम्लिकास्तथा । माषान् कुलत्थाञ्छाकं च कटुं च लवणं त्यजेत् ।।२६

तैलं तिक्तं रामठं च सोत्फुल्लमतिशीतलम् । न भक्षयेदविज्ञातं पदार्थं कञ्चनापि च ।।२७।।

उत्साहवान्भवेन्नित्यं शैथिल्यं तु परित्यजेत् । स्त्रीप्रसङ्गं तु यत्नेन सर्वथा स परित्यजेत् ।।२८।।

स्त्रैणपापमतिधूर्तसङ्गमं सर्वथा परिहरेच्च स ध्रुवम् ।
अन्यथा तु परिपक्वयोगवान्भ्रंशमेति किमु तर्हि साधकः ।।२९।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे योगसाधनोचितदेशाहारनिरूपणनामा षट्पञ्चाशत्तमोऽध्यायः ।।५६।।