श्रीनारायणमुनिरुवाच :-
चिह्नैर्जाग्रति च स्वप्ने जायमानैस्तु योगिना । एतैः स्वासन्नमृत्युत्वं निश्चेतव्यमिहादितः ।।१।।
देववर्त्म ध्रुवं शुक्रं तथा गुरुमरुन्धतीम् । आसन्नमृत्युः पुरुषश्छायां स्वस्य च नेक्षते ।।२।।
सूर्यमग्निं शशाङ्कं च पश्येन्निस्तेजसं स च । द्वैरूप्यमपि चन्द्रादेर्वीक्षेत ज्योतिषोऽम्बरे ।।३।।
वान्तिमूत्रपुरीषाणि स्वर्णरूप्यनिभानि च । वृक्षानपि स्वर्णवर्णानासन्नमृतिरीक्षते ।।४।।
कर्दमे वालुकादौ वा पदकार्धानि चात्मनः । छायां सच्छिद्रां पश्येच्च प्रतिबिम्बं स चाशिरः ।।५।।
कृशः स्थूलो भवेत्सद्यो देहः स्थूलोऽथवा कृशः । यदा तदपि विज्ञोयमासन्नमृतिलक्षणम् ।।६।।
देहश्चोरणदुर्गन्धो भवेद्यस्य च देहिनः । दहच्छवसगन्धो वा तस्यापि निकटे मृतिः ।।७।।
यस्य च स्नतमात्रस्य हृदयं चरणावपि । शुष्कतां प्राप्नुयातां च स म्रियेताचिरेण वै ।।८।।
यस्याशितं च पीतं च न किञ्चिदपि जीर्यते । करोति न गुणं किञ्चिच्चौषधं सोऽपि तादृशः ।।९।।
स्यात्तालूदरहृद्दाहो नासाश्रवणवक्रता ।सर्वाङ्गसन्धिशूलानि भवेयुर्लक्ष्म तन्मृतेः ।।१०।।
भुक्त्वा तृप्तस्यापि भवेद्यस्य सद्यः क्षुदुद्बवः । दीपादिगन्धज्ञानं च न स्यात्सोऽप्यन्तिकान्तकः ।।११
योऽन्यनेत्रे न पश्येत्स्वं पिधाय श्रवसी तथा । प्राणघोषं न शृणुयान्मृत्युस्तस्याविदूरतः ।।१२।।
इन्द्रियैर्गृह्यमाणानां विषयाणां पृथक्पृथक् । सदसत्त्वेन विज्ञानं न स्यात्तन्मृत्युलक्षणम् ।।१३।।
नेत्रभ्रमिर्नाभिकार्ष्ण्यं दन्तानां चापि कृष्णता । प्रकृतेश्च विपर्यास आसन्नमृतिलक्षणम् ।।१४।।
पूज्यानामपमानश्च दानीयाद्ग्रहणेषणा । इत्यादीन्यवगम्यानि मृत्युचिह्नानि जाग्रति ।।१५।।
तथा स्वप्ने य आरुह्य ऋक्षवानरवाहनम् । खरं वोष्ट्रं व्रजेद्याम्यां दिशं तस्यान्तिके मृतिः ।।१६।।
गर्ते वा पतितः स्वप्ने तत्र रुद्धयेत केनचित् । यः स आसन्नमृत्युर्वै प्रेतं यश्च परिष्वजेत् ।।१७।।
निमज्जेद्योऽप्यसु वा स्वप्ने प्रविशेद्वा हुताशनम् । विषमद्यात्कर्दमे वा लग्नः स्यात्सोऽन्तिकान्तकः ।।१८
तैलाभ्यक्तः ककुब्वासा जपाकुसुममाल्यधृत् । दक्षिणां यो दिशं गच्छेत्स्वप्ने तस्यान्तिके मृतिः ।।१९
इत्यादीनि च चिह्नानि सन्ति स्वाप्नानि सन्मते ! । तैरपि स्वान्तिके मृत्युं प्राप्तं विद्यात्स योगकृत् ।।२०
चिह्नमासन्नमृत्योस्तु स्वस्य यस्मिन्दिने भवेत् । तत आरभ्य मतिमान्सावधानो द्रुतं भवेत् ।।२१।।
वपुर्जगच्च सकलमसदेवेति निश्चयात् । विरक्तस्तत्र नवधा भक्तौ स्यान्निरतो हरेः ।।२२।।
भक्तः स निर्भयो योगी कालेन वपुषो मृतौ । स्वतन्त्रयोगिवद्धाम प्राप्नोति परमं हरेः ।।२३।।
इत्थं योगस्य महिमा वर्तते मुनिसत्तम ! । तस्माच्छ्रेयोर्थिभिः पुम्भिः साधनीयोऽयमादरात् ।।२४।।
प्रागपीह बहवो महर्षयो भूमिपाश्च शतशोऽपि योगतः ।
लेभिरे स्वमनसोऽभिवाञ्छितं साध्य इत्ययमुदारबुद्धिभिः ।।२५।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे योगोपदेशे कालज्ञाननिरूपणनामा पञ्चषष्टितमोऽध्यायः ।।६५।।