प्रथमोऽध्यायः

श्रीकृष्णाय नमस्तस्मै यः साक्षाद्धर्मनन्दनः । भुवि भूत्वा हरत्यन्तस्तमस्तम इवांशुमान् ।। १   

नराकृति परंब्रह्म स्थितो योऽक्षरधामनि । निर्गुणो निर्विकारश्च सच्चिदानन्दलक्षणः ।। २ 

अनेककोटिब्रह्माण्डाधारोऽनन्तोऽपि यः स्वयम् । नणां निःश्रेयसायैव दिव्यमानुषविग्रहः ।। ३

जगत्सर्गस्थितिहृतीर्यस्यैव हि निदेशतः । काले काले विदधते विधातृहरिशम्भवः ।।४

वासुदेवादयो यस्माद्व्यूहाः प्रादुर्भवन्ति च । चत्वारः केशवाद्याश्च चतुर्विंशतिरीशितुः ।।५

यः क्रोडाद्यवताराणां धर्ता वैराजपुरुषः । सहस्रशीर्षा च यतो ह्यस्ति नारायणाह्वयः ।।६

नित्यासंख्येयकल्याणदिव्यसद्गुणमण्डितः । सेवितश्च भगैः षड्भिः सिद्धिभिश्चाणिमादिभिः ।।७

यदाज्ञाया तपत्यर्को विचरत्यनिलोऽपि च । न निमज्जति भूश्चाप्सु भीतश्चरति चान्तकः ।।८ 

देवानामपि यो देव ईश्वराणां तथेश्वरः । कालस्यापि हि यः कालः कारणानां च कारणम् ।।९ 

चतुर्विंशतितत्त्वैश्च शक्तिभिश्च सहस्रशः । अनन्तब्रह्मरुद्राद्यैरर्च्यमानपदाम्बुजः ।।१० 

संस्तूयते यो निगमैः सहस्रवदनादिभिः । वाङ्मनोऽगोचरो यश्च परमात्मा परात्परः ।।११

स एव साक्षाद्बगवान् स्वामिनारायणाख्यया । प्रसिद्धोऽस्ति स मां पायाद्धरिः सर्वान्तरायतः ।।१२

सदानन्दाम्भोधिः स्मितरुचिरपूर्णेन्दुवदनः प्रफुल्लाम्भोजन्मच्छदसदृशशोभाक्षियुगलः ।

कृपापारावारः श्रितसकलजीवातिसुखदो महाश्रेयोमूर्तिर्जयति स हि नारायणमुनिः ।।१३

सुदुर्जेयं नित्यं विविधनियमाचारनिरतैरपि ब्रह्मेशानप्रमुखसुरसङ्घैः स्वमहसा ।
मनस्तत्तूर्णं यः प्रसभमपि कुर्वञ्छ्रितवशे नरो भात्यज्ञानां दिशतु स मतिं मे हरिरसौ ।।१४

अतिक्षान्त्या दान्त्या मृदुलवचनैश्छादितनिजध्रुवा तर्क्यैश्वर्याद्विलसितनृनाटयाय गुरवे ।
वसानाय श्वेताम्बरयुगलमावार्धियशसे नमस्तस्मै नित्यं हृदि भगवते ध्येयवपुषे ।।१५

वाञ्छितार्थप्रदः श्रीमान्विघ्नौघदलनक्षमः । श्रीगणेशः सदा मेऽस्तु श्रीकृष्णावतारः श्रिये ।।१६

श्रीमच्छतानन्दकृतेऽत्र रम्ये सन्दर्भसारेऽखिलवेदसारः । सुस्पष्टमैकान्तिकधर्म उक्तः स्याद्येन सद्यो भवपाशमुक्तिः ।। १७ 

साक्षाद्धरौ सकललोकगुरौ रसाया अन्तर्हिते ननु मुमुक्षुजनैकबन्धौ ।
निस्तारणाय लघु संसृतिसागरस्य नौकेदमेव भुवि मानवदेहभाजाम् ।।१८

लीलारसो हि सकलोऽमृतदिव्यमूर्तेः स्वेच्छानराकृतिधृतो भुवि धर्मसूनोः ।
सत्सङ्गिनां परमजीवनमस्त्यतोऽसौ सम्यङ्निरूपित इहेति स पीयतां तैः । १९

एतत्पुण्यमलं पवित्रममलं सद्धर्मशास्त्रं परं धर्मज्ञानविरागभक्तिनिभृतं सेव्यं सतां नित्यदा ।
पापौघप्रशमं नृणां कलिमलप्रक्षालनं सर्वथा जाडयध्वान्तनिवारणं सुकृतिभिः सम्प्राप्यते नेतरैः ।२०

सकलधर्मविनिर्णयमञ्जसा सकलशास्त्रमतभ्रमवारणम् । सकलवाञ्छितपूरणमुत्तमं सकललोकमनःश्रुतिरञ्जनम् ।। २१ 

विविधसंशयशल्यसमुद्धरं श्रवणमात्रत एव कुबुद्धिहृत् । मदनकोपमुखारिभयापहं जयति शास्त्रमिदं कविभूषणम् ।। २२ 

पुण्यं भुवि कुरुक्षेत्रं धर्मवृद्धिमभीप्सुभिः । सेव्यमानं सुमतिभिर्वर्षे भवति भारते ।। २३ 

ब्रह्मर्षिः सुव्रतस्तत्र भक्त आसीद्धरेर्महान् । स्वधर्मज्ञानवैराग्यशान्त्यादिगुणमण्डितः ।। २४ 

भक्त्या वशीकृतो येन गृाति भगवान्स्वयम् । पूजोपहारान् सकलान् प्रत्यक्षं प्रतिवासरम् ।। २५

ज्ञानं त्रैकालिकं प्राप्तः प्रसादादेव तस्य यः । वेद्यश्च भगवद्बक्तैर्विशुद्धधिषणैर्नृभिः ।। २६ 

सोऽन्तर्हिते भगवति हरौ गुर्वाज्ञाया मुनिः । तीर्थानि व्यचरद्बूमावज्ञान् सद्वर्त्म दर्शयन् ।। २७ 

वृन्दावनं स काशीं च गत्वा तीर्थविधौ रतः । प्रापज्जगन्नाथपुरीमुपकण्ठे महोदधेः ।। २८ 

दत्ते यत्र स्वभक्तेभ्यः कृष्णः साक्षात्स्वदर्शनम् । पृथिव्यां नोपमा यस्याः प्रतापातिशयाद्धरेः ।। २९

यत्र पञ्चसु कालेषु प्रातरादिषु चान्वहम् । जायते वासुदेवस्य महानेवार्चनोत्सवः ।। ३० 

तत्क्षेत्रदर्शनप्राप्तपरमानन्द आत्मनः । आवासमकरोत्तत्र चक्रतीर्थेऽतिपावने ।। ३१ 

प्रत्यहं पञ्चकालं च श्रीजगन्नाथदर्शनम् । चकार पालयन् धर्मं भक्तिं च नवधा हरेः ।। ३२ 

प्राप्तेभ्यः स्वान्तिकं नृभ्यो मुमुक्षुभ्य उपादिशत् । कृष्णभक्तिं स्वधर्मं च निर्मानो विजितेन्द्रियः ।। ३३

तत्रागतोऽभूद्राजर्षिर्गुर्जराणामधीश्वरः । नाम्ना प्रतापसिंहश्च त्यक्तराज्यो विरागवान् ।। ३४ 

धर्मी कृष्णस्य भक्तश्च तत्प्रत्यक्षेक्षणोत्सुकः । अवसत्सोऽपि तत्रैव तीर्थे सत्सङ्गलालसः ।। ३५ 

स एकदा तमद्राक्षीदासीनं कौश आसने । बोधयन्तं मुमुक्षून् नन् कृष्णमाहात्म्यमादरात् ।। ३६ 

तपस्विनं प्रशान्तं च स्वधर्मस्थं शुचिं मृदुम् । पालयन्तं ब्रह्मचर्यं तितिक्षुं सिद्धयोगिनम् ।। ३७ 

विवेकवैराग्ययुतं जितान्तर्वैरिणं स्थिरम् । आत्मनिष्ठं वैष्णवेन्द्रं पटुं सद्धर्मबोधने ।। ३८ 

साधुलक्षणसम्पन्नं पूर्णकाममवेत्य तम् । विनयेनोपसाद्याथ प्रणम्योवाच भूपतिः ।। ३९ 

मुनिवर्य ! प्रपन्नोऽस्मि त्वामहं साधुलक्षणम् । मुच्येय संसृतेर्येन तन्मे त्वं वक्तुमर्हसि ।। ४० 

इति पृष्टः स विप्रर्षिर्मानयित्वा तमादरात् । उवाच नृपतिं प्रीतो मुमुक्षुजनवल्लभः ।। ४१ 

साधु पृष्टं त्वया भूप ! यतोऽस्ति हितमात्मनः । कार्यं नृदेहेनैतद्वै यद्विमुच्येत संसृतेः ।। ४२ 

कृष्णस्यास्य जगन्नाथनाम्नो नवविधां नृप ! । कुरु भक्तिं तयैव त्वं प्राप्स्यसे श्रेय ईप्सितम् ।। ४३ 

इत्युक्तः शिरसाऽऽदाय तद्वाक्यं स तथाऽकरोत् । समागमं च निश्छद्म मुनेस्तस्यानुवासरम् ।।४४

इत्थं हि भजतः कृष्णं तस्यासीन्निर्मला मतिः । ततो मुनिमवैद्राजा साक्षाच्छ्रीकृष्णसेविनम् ।।४५

अथ प्रणम्य तं भूयः प्रोवाच प्राञ्चलिर्नृपः । त्वं साक्षात्कृष्णसेवीति विप्रर्षे ! प्रतिभाति मे ।। ४६ 

भाषते हि त्वया कृष्णो भुङ्क्ते चान्नं त्वयार्पितम् । इत्थं हि भाति मे चिह्नैस्तव लोकविलक्षणैः ४७

समर्थोऽसि ततो ब्रह्मन्मय्यपि त्वमनुग्रहम् । कर्तुमर्हसि येनाहं साक्षाद्वीक्षेय तं प्रभुम् ।। ४८ 

एवमुक्तो नृपेणोचे सुव्रतः प्रीतिमान्स तम् । अतीव दुर्लभं नणां साक्षात्कृष्णेक्षणं नृप ! ।। ४९ 

एतदर्थं जहू राज्यं महान्तश्चक्रवर्तिनः । उग्रं तपश्च कुर्वन्ति त्यक्तगेहा विवेकिनः ।। ५० 

धर्मज्ञानविरागादिसाधनानां च सत्फलम् । एतदेवोदितं सद्बिर्यत्साक्षाद्विष्णुतोषणम् ।। ५१ 

तथापि स्वेच्छया यर्हि स धर्मं सतोऽवितुम् । हन्तुं च तद्द्रुहो भूमौ जायते तर्हि दृश्यते ।। ५२ 

साक्षाद्दृश्योऽपि सर्वेषामेष वै भगवान् स्वयम् । इति तु ज्ञायते कैश्चिन्न तु सर्वैर्नराकृतिः ।। ५३ 

जातोऽभूत् साम्प्रतं भूमौ कोसलेषूत्तरेषु सः । भक्तौ धर्माद्धरिरिति प्रसिद्धः सारवो द्विजः ।।५४

साक्षात्स मां हि मिलितोऽनुग्रहं कृतवान्मयि । तेन तं सर्वदा राजन् ! वीक्षे निजदृशोऽग्रतः ।।५५

जनमङ्गलमूर्तिः स प्रभुः साम्प्रतमेव हि । अन्तर्हितोऽभवत्स्वानां मनांस्याकृष्य चात्मनि ।।५६

गुर्वाज्ञाया चराम्यत्र तीर्थोद्देशेन भूतले । मुमुक्षून्प्रति तद्वार्ताः कुर्वन्नार्षभवर्तनः ।। ५७ 

मुनिवाक्यमिति श्रुत्वा सोऽतिहृष्टमना नृपः । प्रणम्योवाच तं भूयो बद्धाञ्जलिपुटः सुधीः ।। ५८ 


राजोवाच -

अहो ! भाग्यं मम ब्रह्मन्नद्य मे सफलं जनुः । यत्त्वत्समागमं प्राप्तः सुराणामपि दुर्लभम् ।। ५९ 

करुणा भगवद्बक्ताः पूर्णकामा अपि क्षितौ । अनुग्रहाय जीवानां विचरन्ति मुमुक्षताम् ।। ६० 

अतस्त्वं कृपया ब्रह्मंश्चरित्रं सकलं हरेः । वक्तुमर्हसि मे तस्य यथादृष्टं यथाश्रुतम् ।। ६१ 

आविरासीद्यथा भूमौ यद्यच्च कृतवान्प्रभुः । तत्तच्छ्रुश्रूषवे मह्यमव्यग्रमनसे वद ।। ६२ 

इति क्षितीशेन हरेश्चरित्रं श्रद्धावता तेन हिताय पृष्टः । यथाश्रुतं स्वेन तथा स सर्वं प्रवक्तुमारेभ ऋषिः प्रसन्नः ।। ६३

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे सुव्रतप्रतापसिंहसमागमनामा प्रथमोऽध्यायः ।। १ ।।