सुव्रत उवाच -
सततं निजमूर्तिचिन्तकानामधिकश्वेतमनोहरप्रकाशे । हृदि दर्शितरम्यदिव्यरूपं भगवन्तं तमहं हरिं नमामि ।। १
शरणागतदेहिनां च मायां त्रिगुणां यश्च कठोरकर्मबन्धान् । करुणार्द्रदृशैव नाशयित्वा नयति ब्रह्मपुरं सुदुर्लभं तान् ।। २
निजनेत्रचकोरचन्द्रमीशं विलसन्तं हृदये बहिश्च रम्यम् । कमलाभयदानपाणिमीडे जलदश्यामतनुं सितांशुकं तम् ।। ३
अशेषब्रह्माण्डप्रभुरपि निजेच्छात्तनृतनुर्जयत्येकः स्वामी स च सुरनरेन्द्रार्चितपदः ।
तमीशामीशानं क्षरपरमहं चाक्षरपरं हरिं वन्दे वाचं मम स हि करोत्वद्य विमलाम् ।। ४
वैराग्यवेगपरिहातसमेन्द्रियार्थं विष्णुप्रसादसमिताखिलयोगसिद्धिम् ।
कृष्णाङ्घ्रयुपासनबलाप्तदृढात्मनिष्ठं तं विष्णुदत्ततनयं स्वगुरुं नमामि ।। ५
सर्वज्ञातां प्राप्य हरेः प्रसादात्तच्चित्रचारित्रमिदं रचित्वा । योऽपाठयद्वयाससुताकृतिर्नः प्रीतः शतानन्दमुनिः स भूयात् ।। ६
प्रश्नस्त्वयैष राजर्षे ! कृतः सम्यङ्मुमुक्षुणा । यत्पृच्छसि कथां विष्णोर्जनसंसृतिमोचनीम् ।। ७
जन्मान्तरसहस्रोत्थो येषां स्यात्पुण्यसञ्चयः । कथायाः श्रवणे बुद्धिस्तेषामेव हरेर्भवेत् ।। ८
श्रीहरेञ्चरितं वर्णी शतानन्दो जुगुम्फ ह । तत्कृपालब्धसार्वज्ञयः सिद्धयोगः कुशाग्रधीः ।। ९
तदहं परमं पुण्यं नृप ! सत्सङ्गिजीवनम् । तस्मादेव ह्यधिगतमशेषं कथयामि ते ।। १०
राजोवाच
कोऽसौ शतानन्दमुनिः क्व जातः कस्य वा सुतः । कथं चाप्रीणयद्विष्णुं क्वेेदं व्यरचयत्स च ।। ११
एतन्मे मुनिवर्य ! त्वं ब्रूहि सर्वं बुभुत्सते । सर्वज्ञास्य न ते किञ्चिदविज्ञातं महामुने ! ।। १२
अहमव्यग्रचित्तोऽस्मि त्यक्तग्राम्यसुखैषणः । ततः श्रावय तच्छास्त्रं शुश्रूषुं मामशेषतः ।। १३
इति भूपतिना तेन पृष्टो भागवतो द्विजः । यथानुभूतं तत्सर्वं कथयामास तं मुदा ।। १४
सुव्रत उवाच
अस्ति भूमितले पुण्या नगरी मिथिला नृप ! । तस्यामभूद्द्विजवरो विष्णुदत्तोऽतिधार्मिकः ।। १५
तस्य पुत्रः शतानन्दो नैष्ठिकं व्रतमास्थितः । ख्यातो गुणगणैः सद्बिर्गुरुशुश्रूषकोऽभवत् ।। १६
वेदशास्त्रपुराणज्ञाः पञ्चरात्रार्थकोविदः । विषयेषु विरक्तश्च स्वधर्माचलसंस्थितिः ।। १७
शास्त्रेण चक्षुषा चासौ दैवमानुषलक्ष्मवित् । सदसद्व्यक्तिविच्छान्त उदारो मृदुभाषणः ।। १८
अहिंसवृत्तिः करुणः सत्समागमनिर्वृतिः । पारोक्ष्येण भजन्विष्णुं तत्प्रत्यक्षेक्षणैषणः ।। १९
पश्यन्ति हि हरिं साक्षाद्दृढभक्ता मुमुक्षवः । इति निश्चितवान् शास्त्रदृष्टया स च तथाविधः ।। २०
भक्तया श्रीमद्बागवतं पठति स्म स नित्यदा । तदर्थं चापि मनसा व्यचिचिन्तद्रहः स्थितः ।। २१
एकदा पञ्चमस्यासौ स्कन्धस्यार्थं विचिन्तयन् । उपास्यं भारते वर्षे नरनारायणं ह्यवैत् ।। २२
स च प्रत्यक्ष एवास्ते विशालायां तपश्चरन् । आकल्पान्तं स्वयं जुष्टो नारदेनोद्धवेन च ।। २३
अथोत्कस्तद्दिदृक्षायै करिष्यन्सफलां नृताम् । तैर्थिकैः सह स प्रायाज्जनैर्बदरिकाश्रमम् ।। २४
यत्र साक्षाद्विष्णुपदी गङ्गाऽस्ति भवमोचनी । पुण्यं नारदकुण्डं च तप्तकुण्डमघापहम् ।। २५
उर्वशीसङ्गमं तीर्थं यत्र पञ्चशिलास्तथा । पुण्याः सन्ति च तीर्थानि यत्रान्यान्यपि भूरिशः ।। २६
अक्षयाख्यतृतीयायां प्राप्य तं तत्र स द्विजः । नारायणर्षेरकरोदर्चारूपस्य दर्शनम् ।। २७
धर्मशास्त्रानुसारेण तैर्थिकं विधिमाचरन् । तत्रैवावासमकरोद्वर्णीन्द्रोऽनाकुलान्तरः ।। २८
सहागतेषु लोकेषु कृत्वा यात्रां गतेष्वथ । प्रसादयितुमारेभे नारायणमृषिं नृप ! ।। २९
विधाय नैत्यकं कर्म प्रत्यहं पुरतो हरेः । पपाठ दशमस्कन्धं सम्पूर्णं विधिवत्सुधीः ।। ३०
एवं तमाराधयतः कन्दमूलफलाशिनः । व्यतीयुस्तस्य षण्मासा दीर्घदृष्टेरखिद्यतः ।। ३१
एकादश्यां प्रबोधन्यां दिवा पाठार्चनादि सः । विधाय जागरं चक्रे निराहारो निशि द्विजः ।। ३२
अथ प्रसन्नो भगवान्दयानिधिस्तस्मै स आत्मीयवपुस्तदेव हि । अदीदृशद्दिव्यमनन्यमानसैर्दृश्यं निजैरद्बुतमात्मसंस्मृतैः ।। ३३
सहोद्यतानेकदिवाकराभं तं वर्णिवेषं द्विभुजं वयःस्थम् । तपस्विनं श्याममतिप्रशान्तं दृष्ट्वेष्टदेवं सहसा स विस्मितः ।। ३४
अवेत्य सद्यो बदरीपतिं तमुत्थाय नत्वा धरणौ निपत्य । प्रेमाश्रुनेत्रः पुलकावृताङ्गो बद्धाञ्चलिद्वन्द्व इतीशमैट्ट ।। ३५
।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे शतानन्दकृतबदरीपतिसमाराधननामा द्वितीयोऽध्यायः ।।२।।