तृतीयोऽध्यायः

शतानन्द उवाच -

श्रीवासुदेव इह सर्वमुमुक्षुलोकक्षेमाय निर्जरऋषिः करुणानिधिस्त्वम् ।
आकल्पमाचरसि तीव्रतपांसि तं त्वां नारायणं मुनिवरं बदरीशमीडे ।। १ 

श्रीनारादादिमुनिमण्डलसेवितांघ्रिं निर्नीडगाढदलसंकुलितां विशालाम् ।
अध्यास्य वेद हृदयस्य निरूपकं त्वां नारायणं मुनिवरं बदरीशमीडे ।। २ 

देवाङ्गनागणवसन्तसुगन्धिवातैर्युक्तः सुराधिपतिमोहकगायकौघैः ।
कामोऽपि येन सहसा विजितश्च तं त्वां नारायणं मुनिवरं बदरीशमीडे ।। ३ 

यन्मानसं जिततपस्विगणोऽपि रोषः स्प्रष्टुं कथञ्चन कदाचन नाऽऽप शक्तिम् ।
तं त्वा च बिभ्यति यतोऽन्तरवैरिणोऽन्ये नारायणं मुनिवरं बदरीशमीडे ।। ४ 

त्वं पूर्वकामपतिरप्यनुवासरं स्वं दैवं च पित्र्यमपि कर्म करोषि काले ।
सङ्ग्राहयन्नखिलनैष्ठिकवर्णिनस्त्वां नारायणं मुनिवरं बदरीशमीडे ।। ५ 

यस्मात्प्रवर्तत इहाखिलसौख्यहेतुः सच्छास्त्रवृन्दमखिलं खलु नैष्ठिकेन्द्रात् ।
यत्कर्म दुष्करममर्त्यगणैश्च तं त्वां नारायणं मुनिवरं बदरीशमीडे ।। ६ 

ये ये निवृत्तिमुपयन्ति विरागवेगात्संसारभीतिजनितादधिभूमि ते ते ।
यस्याश्रयेण सुखिनोऽत्र भवन्ति तं त्वां नारायणं मुनिवरं बदरीशमीडे ।। ७ 

यत्पादपद्ममकरन्दरसैकलुब्धो ब्रह्माण्डसौख्यमखिलं हि कदाचिदेव ।
रङ्कोऽपि नेच्छति सुखाम्बुधिमेव तं त्वां नारायणं मुनिवरं बदरीशमीडे ।। ८ 

मनोरथो मे बहुकालजातस्त्वदीक्षयैवाद्य फलेन पूर्णः ।
कृपा विधेया मयि भक्तिभाजि तवाङ्घ्रिपद्मे करुणारसार्द्रे ।। ९

सुव्रत उवाच - 

इति स्तुवन्तं तमुवाच भक्तं नारायणः स्वाश्रितकल्पवृक्षः । प्रीतोऽस्मि ते मद्वरमीप्सितं त्वं वृणीष्व वर्णिन् ! सकलार्थसिद्धेः ।। १० 

एवमुक्तो भगवता तं प्रणम्य मुदा पुनः । स ब्रह्मचारी प्रोवाच तत्सेवोत्सुकमानसः ।। ११ 

यदि प्रसन्नोऽसि विभो ! वरो देयश्च मे तदा । रक्ष मां स्वान्तिके नित्यं देहि सेवां त्वमात्मनः ।। १२ 

गुणगानं तवैवेह कर्तुमिच्छामि पार्श्वगः । साफल्यं येन वचसः शुद्धिः स्याच्चान्तरात्मनः ।। १३ 

सिद्धयैश्वर्यादि नेच्छामि त्वत्तोऽहं किमपि प्रभो ! । सांसारिके विरक्तोऽस्मि सुखे मायामये ध्रुवम् ।। १४ 

इत्युक्तवन्तं भगवांस्तमुवाच महामतिम् । ब्रह्मंस्त्वया व्यवसितं सम्यगेतन्मुमुक्षुणा ।। १५ 

किन्त्वहं साम्प्रतं भूमौ कोसलेषूत्तरेष्विह । जातोऽस्मि धर्मतो भक्तौ हरिनाम्ना हि विश्रुतः ।। १६ 

वर्ते पश्चिमपञ्चालदेशे दुर्गपुरेऽधुना । सोऽहं त्वामन्तिके स्वस्य रक्षिष्यामि न संशयः ।। १७ 

मदीयगुणगानेच्छा वर्तते तव हृद्यतः । तस्य मे त्वं चरित्राणां ग्रन्थकर्ता भविष्यसि ।। १८ 

सोऽहं पूर्णं करिष्यामि त्वद्वाञ्छितमतस्त्वया । सोऽन्वेष्य प्राप्य इत्युक्त्वा भगवान् स तिरोदधे ।। १९

ततः सोऽतिप्रहृष्टात्मा तद्वीक्षाप्तमनोरथः । विधाय पारणां प्रातः पञ्चालाभिमुखं ययौ ।। २० 

नारायणेक्षणानन्दो द्विजो मासद्वयेन सः । ख्यातं गुर्जरदेशेषु प्राप श्रीनगरं पुरम् ।। २१ 

तत्र शुश्राव पञ्चालाद्धरिर्दर्भावतीं पुरम् । आगत्य सहजानन्दो वर्णी यज्ञां करोति हि ।। २२ 

नारायणावतारं तं द्रक्ष्यामो मिष्टभोजनम् । कृत्वा धनं च प्राप्स्याम इति विप्रगिरोऽशृृणोत् ।। २३ 

महामखोत्सवं द्रष्टुं गच्छद्बिर्ब्राह्मणव्रजैः । सह सोऽपि समागच्छद् द्वितीयेऽहनि तां पुरीम् ।। २४

नानादेशसमायातैः करात्तबलिभिर्जनैः । वृतायां तद्दिदृक्षोत्कैस्तस्यामैक्षत तं प्रभुम् ।। २५ 

उच्चसिंहासनारूढं श्यामं चन्द्रसमद्युतिम् । भक्तहृन्नयनानन्दं वर्णिवेषं च बिभ्रतम् ।। २६ 

हैमै रत्नमयैः पौष्पैर्भूषणैर्बहुधांशुकैः । अभ्यर्च्यमानं भक्तौघैश्चन्दनेन सुगन्धिना ।। २७ 

करात्तयष्टया गृन्तं हारान् पौष्पान्सहस्रशः ।नैकदेशसमायातैर्दीयमानान्नरव्रजैः ।। २८ 

हैमी रौप्या मुद्रिकाश्च वासांस्याभरणानि च । विप्रेभ्यो ददतं प्रीत्या सहासमुखपङ्कजम् ।। २९ 

तं दृष्ट्वा दण्डवद्बूूमौ पतित्वा प्रणनाम सः । बद्ध्वाञ्जलिपुटं प्रोचे नारायण ! हरे ! जय ।। ३०

हरिस्तं मानयामास सम्प्रीतः स्वागतादिभिः । वरदानं सफलयन्स्वकृतं भक्तवत्सलः ।। ३१ 

स्वान्तिके वासयामास दत्त्वा दीक्षां च तं द्विजम् । प्रपन्नाभयदः स्वामी करुणावरुणालयः ।। ३२ 

मनोरथफलं प्राप्य स च हृष्टमनाः प्रभुम् । सेवमानोऽवसन्नित्यं तद्यशोवर्णनोत्सुकः ।। ३३ 

कालेनाल्पेन च हरेः कृपया तस्य सद्धियः । समाधिसिद्धिरष्टाङ्गयोगाभ्यासं विनाऽभवत् ।। ३४ 

ध्यायंस्तं हृदि सोऽद्राक्षीत्प्राग्दृष्टं बदरीश्वरम् । क्षणान्तेऽन्तर्हितः सोऽथ यथा सौदामनी दिवि ।। ३५ 

ज्योतिर्मयेऽक्षरेधाम्नि स्थितं तं कृष्णमैक्षत । समग्रैश्वर्यसम्पन्नं सपार्षदपरिग्रहम् ।। ३६ 

गोलोकमथ वैकुण्ठं श्वेतद्वीपादि धाम यत् । तदैक्षयत्सहैश्वर्यं हरिस्तस्मात् अलौकिकम् ।। ३७ 

यथा स्वयं चाविरासीद्धर्मो भक्तिस्तथर्षयः । तेषां रूपं यथा पूर्वमत्रत्यं चाप्यबूबुधत् ।। ३८ 

स्वस्य भक्ताश्च ये भूमौ पुरुषा योषितस्तथा । अपि तेषामुभे रूपे तस्मै हरिरजिज्ञापत् ।। ३९ 

जन्मकर्मादि तेषां च स्वस्यैश्वर्यं च सर्वशः । भूतं भव'भविष्यं यत्तज्ज्ञाानं प्रददौ प्रभुः ।। ४० 

ततोऽभूत्सोऽपि सर्वज्ञाः शतानन्दो महामतिः । यथावत्तत्सर्वमवैन्मैत्रेयं स्वमृषिं तथा ।। ४१ 

सोऽथ प्रीतमना वर्णी तदीयगुणवर्णनैः । स्वीयं ज्ञानं तथा विद्याः सफलीकर्तुमाह तम् ।। ४२ 

त्वद्यशोगुम्फनेनैव प्रबन्धैर्विविधैः प्रभो ! । स्वज्ञानं सफलीकर्तुमुत्कायाऽऽज्ञां तु देहि मे ।। ४३ 

इति निष्कपटं तेन याचितो हरिराहतम् । मनोरथोऽयं सफलो भविष्यति तव द्विज ! ।। ४४ 

आयाहि त्वं मया साकं दुर्गपत्तनमुत्तमम् । तत्राहं कारयिष्यामि राधाकृष्णस्य मन्दिरम् ।। ४५ 

तत्रातिपावने क्षेत्रे वसंस्त्वं स्थिरमानसः । शास्त्रं विरचयेर्वर्णिन् ! यथात्मानुभवं मम ।। ४६ 

इत्यनुज्ञात ईशेन हृष्टः स कृतवांस्तथा । साकं भगवता दुर्गपुरमेत्यावसश्चिरम् ।। ४७ 

सत्सङ्गिजीवनं नाम धर्मशास्त्रमिदं हि सः । हरिलीलामयं चक्रे श्रीगोपीनाथमन्दिरे ।। ४८ 

शोधयित्वाऽथ तद्बक्तान् हरेर्मत्प्रमुखान् विदः । कतिचित् पाठयामास विप्रानन्तर्हिते हरौ ।। ४९ 

इति ते कथितं भूप ! जन्मकर्मादि मे गुरोः । सत्सङ्गिजीवनमथो सच्छास्त्रं वच्मि तत्कृतम् ।। ५० 

सकलधर्मभृतं हरिलीलया समुपबृंहितमेतदिहाद्बुतम् । रसविदां भुवि मानसरञ्जनं कलिमलोपशमं शृणु सादरम् ।। ५१

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे शतानन्दमनोरथसिद्धिनामा तृतीयोऽध्यायः ।।३।।