चतुर्थोऽध्यायः

सुव्रत उवाच -


पातुं धर्ममधर्ममुत्खनयितुं श्रीभक्तिधर्माङ्गतो जातायोत्तरकोसलेषु विबुधानन्दाय सद्धर्मिणे ।
श्रीमच्चन्दनपुष्पहाररुचये शुभ्रांशुके बिभ्रते तस्मै श्रीगुरवे नमोऽस्तु हरये नारायणायर्षये ।। १ 

यो बाल्येऽप्यखिलर्द्धिवैभवभृतेऽनासक्त एवात्मनो गेहे स्वेष्टबृहद्व्रतोचितमवाप्याऽऽशूपनायं पितुः ।
हित्वा तीव्रविरक्तितः सह निजैः सम्बन्धिभिस्तद्गृृहं कर्तुं तीव्रतपांस्यरण्यमगमद्योगेश्वरात्मप्रियः ।। २ 

स्वाभाविक्यभवच्च यस्य सततं ब्रह्मस्वरूपस्थिति र्धर्मो भक्तिरपि स्वकैः सह च यद्धृत्पद्ममध्यूषतुः ।।
शब्दाद्या नृपदुर्लभाश्च विषयाः पञ्चापि यन्मानसं । नाक्रष्टुं क्व चनापि शेकुरमलं येभ्योऽस्ति भीस्त्यागिनाम् ।। ३ 

भक्तान्स्वान्नरनाटनेन बहुधा यः प्रीणयन्भूतले । रामानन्दगुरोरवाप महतीं दीक्षामुदारश्रवाः ।।
विख्यातश्च ततो बभूव सहजानन्दाह्वया सद्गुरुः । शुष्कज्ञानिकुलार्यनास्तिकमतध्वान्तैकचण्डांशुमान् । ४

यश्चाधर्मकुलान्निजाश्रितजनांस्तूर्णं विमोच्याखिलां- ल्लोभेर्ष्या मदमानमत्सरकलिक्रोधात्मभूसैन्यतः ।।
स्वीयं धाम तमःपरं नयति तान्देहावसानेऽक्षरं ।  ब्रह्माधिक्षिति स प्रभुर्विजयते भूरिप्रतापो हरिः ।। ५ 

क्वचन निजमुखारविन्ददृष्टयै निजमुटजं परिवेष्टय मण्डलेन ।
स्थितमृषिगणमाकलय्य तूर्णं बहिरुपगच्छति मे मनोऽस्तु तस्मिन् ।। ६ 

क्वचन मुनिगणागमं निशम्य द्रुतमभिसञ्चलनास्मृतोत्तरीये ।
नवनलिनदृशाऽभितो निजांस्तान्सुखयति मेऽत्र मनोऽस्तु चैकचैले ।। ७ 

क्वच सदसि महासनोपविष्टे करविलसत्तुलसीन्धनस्रजीशम् ।
स्मरति भगणमध्यगेन्दुशोभे मुनिनयनैकपदे मनोऽस्तु तस्मिन् ।। ८ 

क्वच मुनिजनमाननात्तशुक्लाम्बरतिलकाक्षतचित्रपुष्पमाले ।
स्थितवति धृतपादुकेऽस्तु चेतो भगवति मे कटिदत्त पाणिपद्मे ।। ९ 

अजनजनिमुखोत्सवेषु नानाजनपदसङ्गतभूरिभक्तसङ्घैः ।
विविधवसनभूषणैः सुगन्धैरपचित एष मुदेऽस्तु पुष्पहारैः ।। १० 

क्वचन मुनिजनातिथिक्रियायां दृढकटिबन्धपिनद्धपीतवासाः ।
स्वयमपि परिवेषयन्मुहुस्तानतिसुहितान् विदधत्स मेऽस्तु सिद्धयै ।। ११ 

ध्वजयवकमलांकुशोर्ध्वरेखारुचिरपदक्रमणैरिमां धरित्रीम् ।
विदधदतिदिवं स धर्मसूनुर्निजसखिनर्मकरो ददातु बुद्धिम् ।। १२ 

क्वचन निजसुतद्वयाय देशान् सदसि समं हि विभज्य दत्तवन्तम् ।
भुवि वृषपरिरक्षणैकभावं वृषतनयं तमहं धियै स्मरामि ।। १३ 

इह जडमतयश्च पापिजीवा अपि यदुदारसदाश्रयेण नैके ।
द्रुततरपरिहातदुःखभावाः सुकृतिवराः स्युरसौ स मेऽस्तु तुष्टः ।। १४ 

क्वचन निजजनान् यथाधिकारं ननु निगमस्मृतिसम्मतं स्वधर्मम् ।
यदुपतिभजनाढयमादिशंस्तं विदधदथ स्वयमीश एष तुष्यात् ।। १५ 

क्वचन विदधदिष्टकर्म शुद्धं क्वच विदधद्बुवि पूर्तकर्म चेशः ।
अगणितमुखजान् यथेष्टभोज्यैरति सुहितान् विदधे स मेऽस्तु तुष्टः ।। १६ 

क्वच निशि मुनिवृन्दमध्यसंस्थः स्वयमुरुसंशयपृच्छयमुद्विभाव्य ।
प्रतिपदमुरुधोत्तरप्रदाता हरिरिह साधु तनोतु मङ्गलं मे ।। १७ 

अकृतविविधयोगसाधनोऽपि ध्रुवमणुवीक्षणमात्रतोऽपि यस्य ।
इह सकलसमाधिसिद्धिमेति प्रभुरखिलं मम मङ्गलं क्रियात्सः ।। १८ 

भवतीह भुवस्तले महान्नगराजो हिमवानुदग्दिशि ।
विततोच्चगृहाभकन्दरः पृथुरूप्योच्चयशुभ्रकान्तिमान् ।। १९ 

क्वचिदञ्जनपुञ्जसन्निभः क्वचिदष्टापदसानुशोभनः ।
क्वचिदेष च रौप्यशृङ्गभृद्बहुधा वर्णविचित्रदर्शनः ।। २० 

विमलाः पुरुनिर्झरोद्बवाः परितः सारसहंसमण्डिताः ।
सरितः प्रसरन्ति वा यतः शतशो लोलतरङ्गशब्दिताः ।। २१ 

धवकेतककुम्भपाटलाभिः ककुभैः कुन्दकदम्बनालिकेरैः ।
वटबिल्वकपित्थदाडिमैर्यो रुचिरस्तालतमालसालजालैः ।। २२ 

सरलैर्वरणैरशोकवृन्दैर्बकुलाम्रातकचम्पकै रसालैः ।
कदलीप्रमुखैः फलद्रुमैर्यो रमणीयः कुसुमद्रुमैः समन्तात् ।। २३ 

विकचैः कुसुमैरिवेक्षमाणश्चालशाखद्रुभिराह्वयन्निवार्घ्यान् ।
मधुरैः पिककूजितैश्च दर्भैः फलमूलादिभिरप्यथातिथेयः ।। २४ 

रुरुभिर्महिषैर्बलीमुखैः किटिशल्यैः श्रित ऋक्षगण्डकैः ।
कृकवाकुमयूरचातकैरितरैः पक्षिगणैश्च सेवितः ।। २५ 

गजबृंहितनिर्झरस्वनैरुपदेवाद्युपवीणनैस्तथा ।
निगमध्वनिभिर्धुनीरवैर्निनदैः पक्षिगणस्य लक्षितः ।। २६ 

विदधे विधिनैव योऽधिपः सकलानामपि भूभृतां पुरा ।
निखिलोत्तमरत्नसम्भवः श्रित एवास्ति शिवादिभिश्च यः ।। २७ 

यत्र दिव्या त्रिपथगा प्रथमं सुप्रतिष्टिता । ब्रह्मलोकादपाक्रान्ता वर्तते सप्तधा किल ।। २८
वस्वौकसारा नलिनी पावनी च सरस्वती । जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ।। २९ 

तत्र क्षोणिधराधिपे भगवतो नारायणस्याश्रमः । साक्षाच्छ्रीपुरुषोत्तमस्य कृपया ऋष्याकृतिं बिभ्रतः ।
स्वप्रेष्टप्रभुसेवनात्तबदरीदावाकृतिच्छादितस्वानन्ताक्षरधामतोऽस्त्यतिसुखं यो दत्त एवेक्षणात् ।।३०

बदरीतरुमण्डलोल्लसद्रसवत्कोलगुलुञ्छकाश्च यत् ।
दधते हि कमण्डलुभ्रमं प्रभुवीक्षागतमुक्तहृत्स्वपि । ३१ 

परितस्तरुमूलसंश्रिता निगमार्थं भगवन्मुखाच्छ्रुतम् ।
हृदये विजने पुनः पुनर्मुनयो यत्र विभावयन्ति च ।। ३२ 

शशकाः खनकाः खगा मृगाः सदयं मुक्तजनैरुदीक्षिताः ।
अचलाः खलु चिन्तयन्ति यन्मुनिबाला इव शिक्षिता हरिम् ।। ३३ 

जनतापरिपीडनोद्यता हरिभीता मदनाद्यरिद्विपाः ।
प्रभवन्ति न मुक्तधाम यं हृदये नाप्यभिगन्तुमञ्जसा ।। ३४

निजमानसतापशान्तये परितो मुक्तजना यदागताः ।
हरिवागमृतेन निर्वृता बृहदानन्दसुखाश्चरन्ति च ।। ३५ 

मृगराजमुखाश्च यत्र वै गतनैसर्गिकदुष्टवृत्तयः ।
पशवोऽपि यथा वनिद्विजा ऋषिवृत्तिं दधते हि निस्स्मराः ।। ३६ 

उरगा नकुलैर्द्विपाश्च सिंहैर्वृषदंशैः खनका वृकैः शृृगालाः ।
हरिणाश्च तरक्षुभिश्चरन्ति सह यत्रापि दिवाशया अरिष्टैः ।। ३७ 

विलसत्यतिनिर्मलोदका निखिलाघौघविशोधनेक्षणा ।
हिमरश्मिरुचिस्तरङ्गिता वितता विष्णुपदी च यत्र वै ।। ३८ 

कौपीनकन्थांशुकवल्कलानि धृतानि शाखासु च यत्तरूणाम् ।
साशङ्कमेव स्पृशति द्विजानां वातोऽपि गङ्गोदकशोधितानि ।। ३९ 

सूर्यवह्निसदृशप्रभैश्च यो ब्रह्मभूतयतिभिर्जितेन्द्रियैः ।
तापसै रुरुमृगाजिनाम्बरैः सर्वविद्बिरभिसेव्यतेऽनिशम् ।। ४० 

भूरिपुण्यचयहीनदुर्गमो ब्राह्मलक्ष्म्यनुगतश्च कामदः ।
शिक्यलम्बिकठिनैः पयोघटैर्मण्डितः श्रमहरश्च पश्यताम् । ४१ 

दिव्यपुष्पनिवहा इतस्ततः सन्ति यत्र हरिपूजकैः कृताः ।
भूरितेजसि न यत्र बाधते रात्रिजं च तिमिरं महात्मनः ।। ४२ 

भूरिभस्मनिचयानि शुचीनां यत्र चाग्निशरणानि मुनीनाम् ।
साङ्गवेदविदुषां जटिलानां सन्ति संयमकृशाङ्गलतानाम् ।। ४३ 

यत्र केचन सकृन्मरुद्बुजो नीरपाः कतिचनोष्मपास्तथा ।
फेनपा विधुमरीचिपास्तपो धूमपाश्च वनिनः प्रकुर्वते ।। ४४ 

चीरचर्मदलवल्कलवस्त्राः केचनापि तृणतन्तुजवस्त्राः ।
अश्मकुट्टमथवा रदकुट्टं यत्र केचिदृषयोऽद्यमदन्ति ।। ४५ 

भक्षयन्ति चलपत्रफलानि केचिदम्बुनिलया जपनिष्ठाः ।
त्यक्तसर्वविषया व्रतमेकेऽभ्रावकाशमपि यत्र चरन्ति ।। ४६ 

प्रेमवृद्धिमधिकां नरबन्धौ लब्धुमुज्झितरसाः कृशदेहाः ।
नैष्ठिकव्रतधराः सकला यच्चिन्तयन्ति हृदि तं विलसन्तम् ।। ४७ 

यत्रत्या ऋषयो व्रजन्त्यनुदिनं श्रीवासुदेवं स्थितं । श्वेतद्वीप ऋतेऽमृतेऽतिमहसि द्रष्टुं निजे धामनि ।।
चापोन्मुक्तशरातिगाः सहनरं नारायणं चोच्चकैर्गायन्तो ।  गगनाध्वनोत्सुकहृदः क्रौञ्चा यथा यूथशः ।। ४८ 

श्वेतद्वीपपदान्नरेण सहितं नारायणं वीक्षितुं ।  यत्रायान्त्यनुवासरं च मुनयः श्रीवासुदेवेति खे ।।
कुर्वन्तो ध्वनिमुच्चकैः सितरुचः क्रुङ्यूथवच्चाध्वनि ।  प्राप्तांश्चानमतो नमन्त उरुधा नारायणीयान्मुनीन् ।। ४९ 

स्नतुं यास्यत ईशितुस्त्रिपथगां सन्दर्शनाय द्रुतं ।  यत्र प्रातरुपेत्य चाध्वनि सदा तिष्ठन्ति वै पङ्क्तिशः ।।
अद्यास्मद्धरिरेष्यतीत्यतितरामुत्कण्ठिताश्चोन्मुखा ।  आरण्याः पशुपक्षिनागमनुजास्त्यक्तान्यसर्वक्रियाः ।। ५० 

यत्र शाद्वलमये समीकृते हीनदंशमशके मृदुस्थले ।  उग्दताऽस्ति बदरी सुशोभिता स्न्ग्धिकोमलदलैः फलव्रजैः ।। ५१
नित्यपुष्पफलशालिभिश्च या दिव्यपादपवरैः परिश्रिता ।  क्षुत्तृडुष्णहिमदोषवर्जिता पूजिता च बलिहोमकर्मभिः ।। ५२ 

विस्तृतातिविमलद्युतिशाखा कण्टकैः परिहृता च मनोज्ञा ।
निःसरन्मधुरसा ननु दिव्या वीक्षणादखिलपापनिहन्त्री ।। ५३ 

नादिता मधुरवैश्च विहङ्गैः सेविता सुरगणैरनुवेलम् ।
छायया निबिडया श्रयणीया यां वदन्ति मुनयश्च विशालाम् ।। ५४ 

ज्ञानविज्ञानसम्पन्नः श्रीकृष्णस्य निदेशतः । निवसत्युद्धवो यत्र सिद्धो भागवताग्रणीः ।। ५५ 

वैहायसो हृदो यत्र सन्ति राजर्षयश्च यत् । यत्र चाश्वशिरा नित्यं वेदान् पठति शाश्वतान् ।। ५६ 

यत्र शक्रः पुरा हत्वा वृत्रं वेदार्थपारगम् । ब्रह्महत्यापनोदार्थं चक्रे वर्षायुतं तपः ।। ५७ 

सावर्णिः सूर्यतनयो नारदेन सुशिक्षितः । सद्धर्मानभ्यसन् यत्र तपस्यति हरिं भजन् ।। ५८ 

श्रेयसे भुवि भक्तानां यत्रैव भगवान्स्वयम् । नरनारायणो नित्यं तपश्चरति दुष्करम् ।। ५९ 

प्रवर्तते नैव कलिः कर्हिचिद्यत्र चाश्रमे । श्रेयोमूर्तेर्भगवतः साक्षाद्वासाज्जगत्पतेः ।। ६० 

अखण्डभगवद्धयानानन्दनिर्वृतमानसः । नित्यं सेवापरो यत्र नारदो वर्तते मुनिः ।। ६१ 

यत्रत्यसुखलेशेन पारमेष्ठयादिधामजम् । सुखं समं नैव बुधैर्मीयते रसवेदिभिः ।। ६२ 

मुक्तैरनेकैश्च मुमुक्षुवृन्दैः समाश्रितो यो विबुधै रसज्ञौः ।
स आश्रमो दर्शनमात्रतोऽपि हरन्नघं शोभयतीह भूमिम् ।। ६३ 

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
बदरिकाश्रमवर्णननामा चतुर्थोऽध्यायः ।।४।।