पञ्चमोऽध्यायः

सुव्रत उवाच -

तत्रैकदा भगवतो नरनारायणस्य हि । दर्शनार्थमुपाजग्मुर्मुनयस्तत्स्मृता नृप ! ।। १ 

तीर्थयात्रां बहुविधां विधाय जगतीतले । इच्छन्तस्तत्फलं प्राप्तुं दर्शनेन जगद्गुरोः ।। २ 

मरीचश्च वसिष्ठोऽत्रिरेकतश्च द्वितस्त्रिीतः । कश्यपश्च भरद्वाजः शाकल्यो भृगुरङ्गिराः ।। ३ 

हारीतो गौतमः कण्वो याज्ञावल्क्यपराशरौ । शिंशपायन और्वश्च विश्वामित्रस्तथाऽऽसुरिः ।। ४ 

संवर्तो बभ्रुमैत्रेयौ बृहदश्वोऽथ लोमशः । उतथ्य इन्द्रप्रमितिर्वैशंपायनदेवलौ ।। ५ 

पुलस्त्यः पुलहो गर्गः शक त्रिर्वोदुर्बृहस्पतिः । वामदेवः पञ्चशिखः प्रचेताः कर्दमः क्रतुः ।। ६ 

जैगीषव्यः सुमन्तुश्च वाल्मीकिश्च्यवनोऽरुणिः । कात्यायनो जरत्कारुरास्तीकश्च विभाण्डकः । ७ 

ऋष्यशृङ्गः शरद्वांश्च शमीको जैमिनिर्यतिः । अष्टावक्रः पाणिनिश्च माण्डव्यः शाकटायनः ।। ८ 

कृष्णात्रेयः स्थूलशिराः शुनको गार्ग्यतित्तरी । कालवृक्षीय उत्तंकोे नाचिकेतश्च माठरः ।। ९ 

मौञ्जायनश्च पर्णादो बृहदग्निश्च पर्वतः । जातूकर्ण्य ऋचीकश्च हरिश्मश्रुस्तथांशुमान् ।। १० 

वैतण्डी क्षारपाणिश्च कठस्ताण्डयश्च गालवः । अग्निवेश्यश्च कौण्डिन्यः शाण्डिल्यो भालुकिस्तथा । ११ 

श्वेतकेतुश्च विपुलो मङ्किर्गौरशिरास्तथा । भाण्डायनिर्जयन्तश्च माण्डूकेयश्च शार्करः ।। १२ 

कणादः कवषः पैलः पिप्पलायनभागुरी । कक्षीवानिध्मवाहश्च वत्सो गौरमुखस्तथा ।। १३ 

जाबालिरुपमन्युश्च शुक्रो वेदशिरा मुनिः । मेधातिथिश्चार्ष्टिषेणोऽथर्वेन्द्रप्रमदस्तथा ।। १४ 

कुशिको नरदः शङ्खो लिखितः सुतपाः शुकः । प्राणो दाल्भ्यो वीतहव्यः सावर्ण्योद्दालकौ तथा । १५

सावेतसो वैतहव्यः सावर्णिर्भार्गवस्तथा । गोभिलो जाजलिर्यास्कः काश्यपो वात्स्यनैध्रुवौ ।। १६ 

सौभरिः शौनकोऽगस्त्यो मुग्दलः सैन्धवायनः । सारस्वतो भूरिषेणो देवरातोऽकृतव्रणः ।। १७ 

एते सशिष्याश्चन्येऽपि पिप्पलादादयो नृप ! । नारायणाश्रमं प्रापुः कैलासाचलसन्निधौ ।। १८ 

गङ्गामचक्षत च तत्र सितोदकां ते प्रातस्तनार्करतेजितलोलभङ्गीम् ।
उत्तुङ्गदीर्घतरलध्वनिनादिताशां भस्मावशेषसगरात्मजमुक्तिदात्रीम् ।। १९ 

या नित्यदा भगवदाप्लवनातिपूता दृष्टा स्मृताऽपि निखिलाघचयापहन्त्री ।
स्पर्शेन पातकहरेति तु किंनु वाच्यं नाम्नैव दूरगनृणामपि पातकघ्नी ।। २० 

यत्सङ्गतो जनपदा अपि कीकटाद्याः सत्सेव्यपुण्यपदतामुपयान्ति सद्यः ।
यामन्तरा ननु महर्द्धिभृतोऽपि देशा निस्तोयनद्य इव यान्ति विगीततां वै ।। २१ 

यत्सेवनाग्दतिमिहाशु च यां लभन्ते लोका न तां तु तपसा न मखैर्व्रतैर्वा ।
चान्द्रायणव्रतपुरश्चरणादिभिर्या स्यात्कायशुद्धिरिह साम्बुकणेन चास्याः ।। २२ 

नानामखादिकरणश्रममन्तराऽपि पापात्मनामपि नृणां सकृदम्बुसङ्गात् ।
अर्कप्रभोज्ज्वलविमानवरेण सद्यः स्वर्गप्रदाननिपुणा न पराऽस्ति यस्याः ।। २३ 

या श्रीमहेश्वरजटामुकुटैकभूषासेन्द्रैः सुरैः सुरगणैश्च निषेव्यमाणा ।
मुक्तैर्मुमुक्षुभिरथाखिलसिद्धिकामैः सर्वार्थदेति सततं भुवि सेवनीया ।। २४ 

यत्र क्व वाऽपि पुरुषस्य मृतस्य चास्थि यस्याः पतेत् पललभक्षकपक्षिचञ्च्वाः ।
यद्यम्भसि ध्रुवमसावपि देवलोकं सद्यो लभेत किमु तर्हि तदम्बुसेवी ।। २५ 

युक्तो महामुनिगणैः पुरुषोत्तमः श्रीनारायणः प्रतिदिनं सलिले यदीये ।
स्नति स्वयं सकलपुण्यनिधिः सलीलं माहात्म्यवर्णनपटुर्भुवि को नु तस्याः ।। २६

तस्यां यथाविधिस्नत्वा प्रातः कृत्यं विधाय ते । भगवद्दर्शनं कर्तुं बदरीं तामुपाययुः ।। २७ 

अथ ते ददृशुर्विप्रा भगवन्तं नरं मुनिम् । अधःस्थितं विशालाया बदर्या गगनस्पृशः ।। २८ 

जटाकिरीटे स्वर्णाभे मुनिधारितशेखरम् । सितोर्ध्वपुण्ड्रं तुलसीमालिनं श्वेतवाससम् ।। २९ 

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ।। ३० 

इत्येतैर्नवभिर्मुख्यैर्महायोगेश्वरैस्तथा । वृतं तन्वादिभिर्विप्रैः कलापग्रामवासिभिः ।। ३१ 

द्विभुजं जलदश्यामं वर्णिवेषधरं कृशम् । सुप्रसन्नमुखाम्भोजं तं दृष्ट्वा जहृषुर्द्विजाः ।। ३२ 

मुनीन्विलोक्याथ स चात्मनः प्रियान् ब्रह्मण्यदेवोऽपि जगग्दुरुर्मुदा ।
अभ्येत्य सद्यः प्रणनाम मानितस्तैः सोऽपि गाढं परिरभ्य मुद्बरैः ।। ३३ 

ततो निषेदुर्मुनयो नरेण कुशेषुदत्तेषु वृषीषु चाथ ।
स पूजयामास यथोचितं तान् पाद्यादिभिः पूज्यतमान्सदर्च्यः ।। ३४ 

कृत्वातिथ्यमृषीणां स देशकालोचितं नरः । विनयेनोपसङ्गम्य वचनं चेदमब्रवीत् ।। ३५ 

नर उवाच -

अद्यानन्दो महाञ्जातो भवतां दर्शनान्मम । सर्वं सुलभमेवास्ति दुर्लभः सत्समागमः ।। ३६ 

तत्रापि सत्तमा यूयं येषां दृढतरा मतिः । ऋष्याकृतौ भगवति वर्ततेऽपि तपस्यति ।। ३७ 

येषां हृदि सदा श्रीमान्बदरीवनवल्लभः । हरिः स्फुरति साक्षात्तान्वयं विद्मो महत्तमान् ।। ३८ 

यूयं मुक्तजनाः सर्वे दृष्टयैव जनपावनाः । तेषां वः सङ्गमं मन्ये जीवानामतिदुर्लभम् ।। ३९ 

यस्यासन्ना भवान्मुक्तिस्तस्य वः सङ्गमो भवेत् । येनैव जायते प्रीतिः श्रीमन्नारायणे प्रभौ ।। ४० 

तयैव देहगेहादौ त्यक्तसङ्गः प्रशान्तधीः । परं पदमवाप्नोति पुमान् ब्रह्मादिदुर्लभम् ।। ४१ 

केनोपमा भवेत्तेषां सतां नारायणात्मनाम् । भूमौ परोपकाराय तीर्थव्याजविचारिणाम् ।। ४२ 

परोपकारशीला हि सन्ति सन्तो दयालवः । नितरामेव भगवद्बक्ता वै युष्मदादयः ।। ४३ 

यूयमुत्तमवेलायामागता भगवत्प्रियाः ! । अद्य नारायणः स्वामी दास्यते दर्शनं प्रभुः ।। ४४ 

स्वदर्शनायानुदिनं मुनीनां च दिवौकसाम् । आगच्छतां वर्ततेऽद्य तस्य स्वेक्षार्पणक्षणः ।। ४५ 

अस्यामेव हि वेलायां विधिं पौर्वाकिं प्रभुः । समाप्यात्र समायाति नैष्ठिकोचितमन्वहम् ।। ४६ 

सुव्रत उवाच -

इत्थं मधुरया वाचा कुर्वन्तं सत्क्रियां नरम् । मुनयस्तत्प्रभावज्ञास्त ऊचुर्हृष्टमानसाः । ४७ 

मुनय ऊचुः - 

जानीमस्त्वां वयं सर्वे ऋषयो जगदीश्वरम् । ब्रह्माण्डनामनेकानामीश्वरं हि नरोत्तम ! ।। ४८ 

तपश्चर्यां प्रकुर्वन्तं सेवमानं सदा प्रभुम् । अपि त्वामीश्वरं विद्मः साक्षान्नारायणं यथा ।। ४९ 

सर्वेषां माननीयोऽसि पूज्यो वन्द्यस्त्वमीश्वरः । एका मूर्तिर्द्विधा भाति नरनारायणाविति ।। ५० 

धन्या भारतभूरियं भगवतो नारायणस्याङ्किता । पद्बिर्मत्स्ययवाङ्कुशाशनिघटाम्भोजोर्ध्वरेखाङ्कितैः ।
धन्येयं तरुसन्ततिश्च हरिणा संवीक्षिता प्रत्यहं । धन्याश्चाश्रमदर्शनादपि वयं भक्तप्रियस्येशितुः ।५१ 

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे मुन्यागमननरदर्शननिरूपणनामा पञ्चमोऽध्यायः ।। ५ ।।