षष्ठोऽध्यायः

सुव्रत उवाच - 

एवं ब्रुवत्सु मुनिषु नरे स्मितमुखे प्रभुः । समाप्तदैवपित्र्योऽसावायात्तत्र निजोटजात् ।। १ 

योगसिद्धतनुभिः पथिमुक्तैः सानुगामरगणैश्च खसंस्थैः ।
वन्द्यमान उरुधाऽतिविनीतैः स्वानुगोद्धवसमीक्षितपादः ।। २ 

देहिदुष्करतपोद्विरुक्तया नैकभास्करमहःसमानया ।
शोभनाखिलनिजाङ्गजन्यया भ्राजमान उरुपाण्डुरत्विषा ।। ३ 

दीर्घबाहुयुगलोऽसितवर्णो नूत्नपङ्कजदलायतनेत्रः ।
पूर्णचन्द्रवदनः स्मितराजद्दन्तराजिरुचिरो मृदुपादः ।। ४ 

सूक्ष्मरम्यकपिलानृजुकेशो बद्धसुन्दरजटः पृथुवक्षाः ।
कुञ्चाराशनदलोदरराजत्सद्वलिश्च नतसभ्रमनाभिः ।। ५

पाण्डुरोर्ध्वतिलकस्तुलसीस्रग्ब्रह्मसूत्रधर ईक्ष्यशिराङ्गः ।
मृत्कमण्डलुपलाशजदण्डौ वर्णिराडिति दधच्च कराभ्याम् ।। ६ 

अंशुकं परिदधच्छुचिशुक्कंस्कन्धलम्बितसितोत्तरवासाः ।
सर्वदैव तरुणोऽमृतवृष्टया प्रीणयन्निजदृशा मुनिवृन्दम् ।। ७ 

स्वातिवल्लभमुनीक्षणजातं भूरिहर्षमुदरे न निधातुम् ।
शक्नुवन्विकसदास्यदृगब्जात्स्रावयन्निव मनोहरमूर्तिः ।। ८ 

तं विलोक्य मुनयो भगवन्तं भूरिहर्षविवशा नमनादौ ।
प्रेमसम्भवजलावृतनेत्राः प्रोत्थिता भुवि निपत्य च नेमुः ।। ९ 

दर्शनक्षण इमे नरबन्धोर्भूरिवासरवियोगजतापम् ।
सद्य एव विजुहुर्हृदि हृष्टाः कैरविण्य इव पूर्णहिमांशोः ।। १० 

तं पिबन्त इव लोचनैर्मुखैस्ते लिहन्त इव बाहुभिः प्रभुम् ।
सम्मिलन्त इव सादरं तदा सर्वशो ददृशिरे नरमुख्यैः ।। ११ 

तान् यथावदुरुधाऽथ मानयन्मानदः स्वपरिरम्भणादिभिः ।
आससाद बदरीतरोरधो वेदिकां स्तृतकुशासनां हरिः ।। १२ 

पीठे तत्र मनोहरे मुनिपतिर्भक्तप्रियः सोऽच्युतः । सम्प्रीत्यै निषसाद वेदविदुषां तेषामथोदङ्मुखः ।
तस्मै ते च निषेदुषे चपलया दृष्टयाऽभितः पश्यते । विप्रा नैष्ठकवर्णिने भगवते प्रीत्या नमश्चक्रिरे ।। १३ 

ततः पुपूजुर्निजमिष्टदेवं नारायणं तं विधिना नरं च ।
पूजोपहारैर्विविधैर्मुनीन्द्राः सस्न्ेहमव्यग्रधियो विशुद्धैः ।। १४ 

कस्तूरिकाकुंकुमकेसराद्यैर्युक्तेन सत्सौरभचन्दनेन ।
सन्मल्लिकाचम्पककेतकाद्यैः पुष्पैरनेकैस्तुलसीदलैश्च ।। १५ 

विचित्रपुष्पोत्तमचारुहारै रम्यावंतसैः शुभशेखरैश्च ।
सुगन्धिधूपैर्बहुभिश्च दीपैः सद्बिर्निवेद्यैश्च फलैरनेकैः ।। १६ 

नीराजनेनातिमनोहरेण सन्मन्त्रपुष्पाञ्जलिभिः प्रणामैः।
आनर्चुरीशं मुनयो विधिज्ञा वेदोक्तमन्त्रैः पठितैस्तमुच्चैः।। १७ 

इत्यर्चितं निजजनागमभूरिहर्षं व्यालम्बिचित्रकुसुमोत्तमशेखरालिम् ।
कण्ठात्पदावधिलसत्सुमहारराजिं ध्यानास्पदं तमचलैर्नयनैर्निदध्युः ।। १८ 

तं तादृशं स्वहृदयेष्वतिभासुराङ्गं धाम्न्यक्षरेऽपि ददृशुः कृपयैव तस्य ।
आनन्दपूर्णसकलावयवाः पुनस्ते दृष्ट्वा बहिश्च मुदिता अथ तष्टुवुस्तम् ।। १९ 

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
भगवद्दर्शनपूजनमहोत्सवनामा षष्ठोऽध्यायः ।। ६ ।।