सप्तमोऽध्याय

ऋषय ऊचुः - जय जयाज ! कृपारसनिर्गतैर्विततमोहमहान्धतमोपहैः ।

त्वमचलैर्वचनैर्बहुजन्मजभ्रमहरो भवसीह जगग्दुरुः ।। १
नयसि नाथ ! निजांघ्रिनिषेविणो धृतिमता तपसा क्षपितैनसः । 

निजपदं परमं ह्यमृताभिधं बहुलभास्करभास्वरमक्षरम् ।। २
विशदधर्मपथं परिरक्षितुं भुवि युगान्तहतान्सुकृतप्रिय ! । 

सकलशास्त्रपुराणसदागमांस्त्वमुरुधैव समीरयसे प्रभुः ।। ३ 

नहि विदन्ति भवन्तमिहेश्वरं निखिलजीवभवभ्रममोचनम् ।
भुवि सतां वचनैरपि ये नरास्त ऋषयोऽपि हतास्तव मायया ।। ४ 

नहि सुखं भवदाश्रयमन्तरा तनुभृतां दिवि वा भुवि वाम्बरे ।
तदधुनाऽब्दशतान्त उताश्रितास्तव यदा स्युरिमे सुखिनस्तदा ।। ५ 

अनधिगम्य समक्षमनुग्रहं प्रथमजा अपि नो महदादयः ।
निजकृता वशकन् हि कुतः पुनर्विषयिणो विमुखाः सुखमाप्नुयुः ।। ६ 

वयमभूम हरे ! कृतिनोऽद्य वै परतरं क्षरतोऽक्षरतोऽपि यत् ।
ऋषितनुं दधतं पुरुषोत्तमं हृदि विदाम भवन्तमहो भगम् ।। ७ 

निगमशास्त्रपुराणसुदेशिकैरचलभावभरेण निषेवितैः ।
यदि भवेन्न मनस्त्वयि निश्चलं वितथावादफलं खलु तत्तदा ।। ८ 

सांख्ययोग निगमागमवाचां पाश्चरात्रवृषशास्त्रमतानाम् ।
अर्णवोऽत्र पयसामिव साक्षात्त्वं क्रमेण च भवस्यपि निष्ठा ।। ९ 

अधिगम्य वाङ्मयमिदं त्वपीह ये न भजन्ति तग्दतिभवत्पदाम्बुजम् ।
त्रिगुणात्मकात्ममतिकल्पिताशयैरनवेत्य हार्दमिति ते व्रजन्त्यधः ।। १० 

तपस्विदृष्टयाऽवगणय्य ये त्वामज्ञाततत्त्वा न भजन्ति मूढाः ।
क्लिश्यन्ति ते वै बहुधाऽऽसुरीषु योनिष्वभीक्ष्णं परितो भ्रमन्तः ।। ११ 

ये त्वां विहाय स्वयमात्मतत्त्वं द्रष्टुं यतन्तेऽन्यमुपास्य वापि ।
भ्रष्टास्ततस्तेऽप्यनवाप्तकामाः स्वान्वञ्चयन्तो निरयं व्रजन्ति ।। १२ 

बलिमर्पयन्ति सभयाश्च ननु बलिभुजोऽप्यजादयः ।
तुभ्यमखिलपतये शरणं भवदंघ्रिमेव तत आश्रिता वयम् ।। १३ 

अद्य धन्या वयं स्वामिंस्त्वत्पादाम्बुजदर्शनात् । बहुभिर्दिवसैः प्राप्तं मनोरथफलं त्विदम् ।। १४ 

त्वद्बक्तिमन्तरा जीवाः कामलोभदवाग्निना । दन्दह्यमाना नश्यन्ति तत्त्वां वयमुपागताः ।। १५ 

गोलोकाधिपतिस्त्वमेव भगवान् श्रीवासुदेवः स्वयं ।
मूर्तौ धर्मत आविरास जनतानिःश्रेयसाय ध्रुवम् ।।
भक्तिज्ञानविरागधर्मसहितं कर्वंस्तपो दुष्करं ।
सिद्धां प्रापयसे दशामिह मुनीन्नैष्कर्म्यकर्मादरः ।। १६ 

तव गुणगणं शेषोऽहीशः सहस्रमुखैरपि प्रभवति । यतः साकल्येनोदितुं न कदाप्यहो ।।
कथमिह तदा शक्ता अन्ये भवेयुरजादयः । स्ववचनफलप्राप्त्यै तत्त्वां यथामति चैङ्महि ।। १७ 

सुव्रत उवाच - इति विधाय हरेः स्तवनं द्विजाः सकलकल्मषनाशनसंस्मृतेः ।
त उपविश्य तदग्रत एव तद्वदननीरजनिं विलुलोकिरे ।। १८ ।।

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
श्रीनारायणस्तुतिनामा सप्तमोऽध्यायः ।। ७ ।।