अष्टमोऽध्याय

सुव्रत उवाच - 

सुखोपविष्टानथ तान् भगवान्भक्तवत्सलः । प्रसन्नो मधुरं वाक्यमुवाच प्राञ्चलीन्मुनीन् ।। १ 


श्रीभगवानुवाच - 

स्वागतं वो मुनिश्रेष्ठा ! यूयमत्र समागताः । तत्प्रसन्नोऽस्मि नितरां दर्शनं वो ममेप्सितम् ।। २ 

गोलोकादीनि धामानि तथा योगसमृद्धयः । ब्रह्मादयो बलिहरा यथा यूयं न ते प्रियाः ।। ३ 

यूयमात्मप्रिया मे स्थ यन्मां चिन्तयथानिशम् । बोधयन्तोऽज्ञाजीवांश्च कृपयामुक्तिसाधनम् ।। ४ 

महादानानि सर्वाणि तपोयज्ञाव्रतानि च । जीवाभयप्रदानस्य कलयापि समानि नो ।। ५ 

परोपकारिणो युष्मांस्ततोऽयं हृदये सदा । चिन्तयामि महाभागा ! मन्निष्ठाञ्छुद्धचेतसः ।। ६ 

निःश्रेयसाय जीवानां भुवनेष्वखिलेष्वपि । अस्तिसञ्चरणं नूनं युष्माकमिति वेद्म्यहम् ।। ७ 

साम्प्रतं देवलोकात्किं भवद्बिर्वा रसातलात् । आगम्यते वा भूलोकात्तन्मे वदत सत्तमाः ! ।। ८

ऋषय ऊचुः - 

खण्डेऽस्मिन् भारते स्वामिंस्तीर्थयात्रामशेषतः । विधाय दर्शनं कर्तुं तवात्र वयमागताः ।। ९ 


श्रीभगवानुवाच - 

पालयन्ति प्रजाः कच्चिद्धर्मसेतून्मया कृतान् । खण्डेऽस्मिन् भारते विप्रा ! नृतां प्राप्ताः सुदुर्लभाम् । १० 


ऋषय ऊचुः - 

भगवन्साम्प्रतं भूमौ साहाय्यं प्राप्य वै कलेः । अधर्मः सान्वयः सर्वप्रजास्वभिविवर्धते ।। ११ 

ये धर्मरक्षका भूपा गुरवस्तेष्वपि प्रभो ! । स प्रवृत्तोऽस्त्यतः सर्वैर्भिन्नास्त्वत्कृतसेवतः ।। १२ 

महापापोपपापेषु प्रसक्ताः सन्ति मानवाः । विषयेऽष्वतिलुब्धाश्च सदाचारविवर्जिताः ।। १३ 

अतः संयमिनीवर्त्म जातं तैरतिसङ्कुलम् । कोऽपि कस्यापि न त्राता दृश्यते जगतीतले ।। १४ 

त्वं हि भारतलोकानां भजनीयोऽसि यत्कृते । चरस्युग्रं तपोऽतस्तानधर्मात् पातुमर्हसि ।। १५

सुव्रत उवाच -

इत्यृषीणां वचः श्रुत्वा स जातकरुणः प्रभुः । पातुमैच्छदधर्मात्स्वाः प्रादुर्भूय भुवि प्रजाः ।। १६ 

एतस्मिन् समये तत्र धर्मो मूर्त्या सहाययौ । आगमं मुनिवृन्दानामवधार्य नराधिप ! ।। १७ 

गौरस्तपः कृशतरश्च जटोत्तमाङ्गः पूर्णेन्दुरम्यवदनः सदयाक्षिपद्मः । 

यज्ञोपवीतरुचिरः शुचिशुक्लवासा नारायणं स तमवैक्षत दर्भपाणिः ।। १८ 

चारुप्रसन्नमुखपङ्कजशान्तमूर्तिं कारुण्यपूर्णनयनेक्षितभक्तवृन्दम् ।
भूरिक्षमानिलयमीश्वरमार्तबन्धुं स्वाङ्गश्रियाखिलमनोनयनाभिरामम् ।। १९ 

मुनिमण्डलमध्यस्थं तं विलोक्यैव सत्वरम् । उपागमत् स तेजस्वी भूरिहर्षभृतान्तरः ।। २० 

धर्मं विलोक्य भगवानायान्तं पितरं द्रुतम् । उत्थाय पीठादभ्येत्यपरिरभ्यानमत् पदोः ।। २१ 

हर्षाश्रुनयनः सोऽपि तं नरं च तथाविधम् । मुदा सदाशीर्वचनैरभ्यनन्दत भूपते ! ।। २२ 

प्रणेमतुस्ततो मूर्तिं नरनारायणौ निजाम् । जननीं सा च तावाशीर्वादैः पुत्रावयूयुजत् ।। २३ 

'तदोत्थायर्षयः सर्वे तावभ्येत्यादरेण ते । सम्भ्रान्ता इव हर्षेण प्रणेमुर्दम्पती नृप ! ।। २४ 

मानयामासतुस्तौ च तान् यथोचितमादरात् । निषीदतुस्ततो वृष्यां दत्तायां तौ नरेण च ।। २५ 

साकं भगवता सर्वे निषेदुस्ते यथोचितम् । पप्रच्छ स्वागतं प्रीतो धर्मं नारायणः प्रभुः ।। २६ 

ततः स मुनिभिः प्रोक्तमधर्मोपद्रवं भुवि । यथावत्कथयामास तेषां प्रीत्योपशृण्वताम् ।। २७ 

नारायणस्याननपद्मनिः सृतां वार्तां तदानीमुपशृण्वतां सताम् ।
तेषां मनोवृत्तय एकसंश्रया आसन्समाधाविव भूप ! सर्वशः ।। २८

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
अधर्मोपद्रवनिवेदननामाष्टमोऽध्यायः ।। ८ ।।