नवमोऽध्याय

सुव्रत उवाच - 

इत्थं मुनिषु धर्मे च शृण्वत्सु भगवद्वचः । तदाननाब्जैकपदस्थिरदृक्चित्तवृत्तिषु ।। १ 

नारायणे च तद्वार्ताकथनैकाग्रचेतसि । तेनान्तः प्रेरितस्तत्र दुर्वासा मुनिराययौ ।। २ 

कैलासादागतो गङ्गां तत्र पौर्वाकिंविधिम् । विधायादौ ततः प्राप्तो बदरीं तां तपोनिधिः ।। ३ 

नरनारायणं तत्र मुनिमण्डलमध्यगम् । ददर्श मूर्तिधर्मौ च सिद्धदेहं तथोद्धवम् ।। ४ 

नापश्यत्तत्र तं कोऽपि वार्तासक्तमनस्तया । आदरं नाकृत ततो मान्यस्याप्यस्य किञ्चन ।। ५ 

तिष्ठन्नासीत्स घटिकां पश्यन्नेव सभासदः । अवज्ञातमिवात्मानमात्रेयो हृद्यमन्यत ।। ६ 

चुकोप सद्यः सर्वेभ्यः क्रुधा रक्तविलोचनः । वेपमानाङ्ग उद्बाहुः शप्स्यंस्तानाह निर्भयः ।। ७ 

अहो ! कालविपर्यासो येन सन्मार्गवर्तनाः । प्रवृत्ताः कापथे सन्ति भग्नसेतव उन्मदाः ।। ८ 

विद्यादिमदमत्तत्वादवजानन्तु मां द्विजाः । किन्तु धर्मोऽप्यधर्मोऽभूदवजानाति मां यतः ।। ९ 

दर्पापनोदमे तेषां कुर्वे तदहमद्य वै । यथा नैवं पुनः कुर्युरित्युक्त्वोच्चैः शशाप तान् ।। १० 

सर्वेऽपि यूयं मानुष्यं लभन्तो भो वृषादयः ! । कल्यधर्माढयासुरेभ्यस्तत्र कष्टं च भूरिशः ।। ११ 

मदवज्ञाकृतो यूयमवज्ञां तेभ्य एव हि । ताडनं चाप्स्यथ ग्रामात् पुरान्निष्कासनादि च ।। १२

सुव्रत उवाच - 

सदःस्थानिति तान् सर्वान् शप्त्वा तूर्ष्णीं बभूव सः ।
धक्ष्यमाण इवाकस्माद्ब्रह्माण्डमखिलं स्थितः ।। १३ 

ततो नारायणो धर्मो मुनयश्चोद्धवो नृप ! । तदुच्चाक्रोशमाकर्ण्य तमैक्षन्ताग्निसन्निभम् ।। १४ 

अतिक्रोधानलज्वालादह्यमानाङ्गवेपथुम् । सशब्ददन्तनिष्पिष्टाधरं दुष्प्रेक्ष्यलोचनम् ।। १५ 

सर्वेऽप्युत्थाय सहसा तं प्रणम्यादरेण ते । विनीताः सान्त्वयामासुरुपवेश्यासने शुभे ।। १६ 

युक्तयाऽनुनीयमानोऽसौ हविषाग्निरिवर्षिभिः । भृशं दिदीपे भूयोऽपि नत्वशाम्यत भूमिप ! ।। १७ 

तं शप्तवन्तमखिलानथ धर्मदेवो निष्कारणं सविनयं धरणौ निपत्य ।
बद्धाञ्जलिद्वय उदारमतिः प्रणम्य प्रोवाच सान्त्वनपटुः प्रियभूमिदेवः ।। १८

धर्म उवाच - 

पुंसु कृतापराधेषु तद्धितायैव सर्वथा । शिक्षादण्डो युज्यते वै महर्षे ! त्वादृशां सताम् ।। १९ 

 बुद्धयाऽपराधो नास्माभिः कृतस्ते न च कैतवात् । हर्युक्तिसक्तचित्तत्वान्नबुद्धो युष्मादागमः ।। २० 

सद्यो जह्याम सर्वस्वं स्वप्राणानपि यत्कृते । ब्रह्मर्षिमागतं तं त्वां नार्चयेमान्यथा कथम् ।। २१ 

अन्यासक्तमनस्त्वेन सन्मानं ते न कुर्वताम् । क्षान्त्वाऽपराधमस्माकं सर्वान् शापाद्विमोचय ।। २२ 

नवनीतसमत्वेन परानुग्रहजन्मनाम् । हृदयं ब्राह्मणानां वै प्रोक्तं शिक्षारुषां क्षणम् ।। २३

सुव्रत उवाच - 

इत्थं नीतिविंदा तेन निश्छद्म प्रार्थितो मुनिः । शान्तक्रोधरयः किञ्चित्तमुवाच कृताञ्जलिम् ।। २४

दुर्वासा उवाच - 

नैवाहं क्षणरुट् धर्म ! न स्वशापाच्च कञ्चन । विमोचयामि त्रैलोक्ये क्व ापीति ख्यातिरस्ति मे ।। २५ 

तथाप्यनघ ! मच्चित्तं पुण्यमूर्तेस्तवान्तिके । अद्यैवेशेच्छया किञ्चिन्मृदु जातमिवेक्ष्यते ।। २६ 

मच्छापस्त्वन्यथा नैव भविष्यति कदाचन । तथाप्यनुग्रहं कुर्वे युष्माकं धर्म ! तच्छृणु ।। २७ 

मानुष्येऽपि तवैषैव मूर्तिः पत्नी भविष्यति । पुत्रश्च भगवानेष नारायण ऋषिः पुनः ।। २८ 

स युवां च मुनीन्सर्वान् धर्मासुरकष्टतः । रक्षिष्यत्यवनौ नूनं पोक्ष्यति त्वां च सर्वथा ।। २९ 

पुत्रीभूते भगवति स्न्ेहातिशयतो युवाम् । निरुद्धचित्तौ मच्छापान्मोक्ष्येथे अल्पकालतः ।। ३० 

ततो दिव्यगतिं धर्म ! प्राप्स्यथो वां स्ववाञ्छिताम् । भविष्यत्येतदेवं हि नान्यथा मद्वचः क्वचित् ।। ३१ 

मुनयः ! सोद्धवा यूयं द्विजातित्वं नृषु क्षितौ । प्राप्स्यथाथैष युष्मासु हरिः सख्यं करिष्यति ।। ३२ 

ततो मच्छापनिर्मुक्ता गतिं दिव्यां प्रयास्यथ । एवमुक्त्वा स तान्नत्वा कैलासं प्रययौ पुनः ।। ३३ 

मुनयस्ते तु तत्रोषुर्देहान्तरजिघृक्षवः । शप्तुं दुर्वाससं शक्ता अपि शेपुर्न सद्धियः ।। ३४ 

धर्मस्यात्र ऋषीणां च शापे हतुर्निरागसाम् । इच्छा भगवतो ज्ञोया धर्मदोग्धन् हरिष्यतः ।। ३५ 

अतो दुर्वाससं क्रोधाच्छपन्तं स्वानकारणम् । नोपालभत किञ्चिद्वै शापं चाकृत नान्यथा ।। ३६ 

अथोवाच हरिं धर्मो नारायण ! मम त्वया । ऋषीणां चावनं कार्यमधर्मासुरकृच्छ्रतः ।। ३७ 

तमाह भगवांस्तात ! चिन्तां मा कुरु चेतसि । मदिच्छयैव शापोऽयं जात इत्यवधार्यताम् ।। ३८ 

प्रवृत्तोऽस्त्यधुना भूयानधर्मो भुवि सर्वतः । कलेर्बलं समासाद्य पीडयन्ते तेन मानवाः ।। ३९ 

अतस्त्वत्पुत्रतां भूयो हरिनामाऽहमाप्य तम् । सर्वतो नाशयिष्यामि पालयन्साधुपूरुषान् ।। ४० 

धर्मज्ञानविरागाढयां भक्तिं भुवि यथा पुरा । प्रवर्तयिष्ये युष्माभिः सहैव विचरन्नहम् ।। ४१ 

त्यक्त्वा चिन्तां ततः सर्वेऽप्युत्पद्यध्वं नृषु क्षितौ । यस्येच्छा यत्र तत्रासौ जायतां वो द्विजातिषु ।। ४२ 

इत्युक्तास्ते तमानम्य जग्मुः सर्वे निजाश्रमान् । स्मरन्त एव हृदये नरनारायणं हितम् ।। ४३ 

कोसलेषु ततो धर्मः सह पत्न्या जनिं नृषु । जिघृक्षुः पितरौ स्वस्य व्यचिचिन्तत्तथोद्धवः ।। ४४ 

जिघृक्षवो जन्म मनुष्यजातौ देशाननेकांस्तु महर्षयस्ते ।
गतास्ततो भूमिपते ! द्विजेषु कालेन सर्वे जगृहुर्जनूंषि ।। ४५

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मादिशापानुग्रहनिरूपणनामा नवमोऽध्यायः ।। ९ ।।