दशमोऽध्याय

सुव्रत उवाच - 

राजन्नत्रान्तरे जाता नरेष्वासन्सहस्रशः । अदेवा दानवा दैत्या यक्षा रक्षांसि च क्षितौ ।। १ 

पुरा देवासुरमृधे सहायेन हरेः सुरैः । ये हता असुरास्ते हि बबन्धुर्वैरमच्युते ।। २ 

अतिप्रियं भगवतो बुद्ध्वा धर्मं सनातनम् । तन्नाशेनैव तन्नाशं निश्चिक्युस्ते त्वधार्मिकाः ।। ३ 

कलिद्वापरयोः सन्धौ भुव्यजायन्त ते ततः । नृषु केचिच्च पशुषु पक्ष्यादिष्वपि केचन ।। ४ 

वेददेवर्षिविप्राणां चक्रुर्द्रोहं च ते सताम् । तेषां भगवदीयत्वं जानन्तश्चोन्मदा भृशम् ।। ५ 

भूभारभूतांस्तान्हन्तुं ततः श्रीबदरीपतिः । नारायणः स्वयं जज्ञो कृष्णाख्यो यदुषु क्षितौ ।। ६ 

स्वयं जघान कतिचित्सोऽसुरानद्बुतेहितः । कतिचिद्धातयामास बलदेवार्जुनादिभिः ।। ७ 

तत्र स्वयं हतास्तेन ये ये चान्यहता अपि । तच्चित्ता मरणं प्रापुर्ये चान्ते तेन वीक्षिताः ।। ८ 

असुरास्ते तु भूपाल ! लेभिरे मुक्तिमीप्सिताम् । वैरधीरपि यन्मेने भक्तिस्तेन कृपालुना ।। ९ 

तथाभूता न वै ये तु मृतास्तस्मिंश्च वैरिणः । मनःस्थपञ्चविषयभोगतीक्ष्णतृषश्च ये ।। १० 

हता युधीदृग्मलिनवासनास्ते कलाविह । जाता विदित्वा दुर्वासःशप्तधर्माज्जनिं प्रभोः ।। ११ 

सपत्नीकस्य धर्मस्य मुनीनां पीडनेन च । इच्छन्तो भुवि ते कृष्णवैरनिर्यातनं पुनः ।। १२ 

धर्मादेर्जन्मतः सर्वे ते प्रागेवासुरव्रजाः । जाता नृप ! नरेष्वेव शतशश्च सहस्रशः ।। १३ 

तत्र दैत्या दानवा ये जाता राजकुलेषु ते । यक्षरक्षांसि च ब्रह्मगुह्यजा ब्राह्मणादिषु ।। १४ 

एते तु स्वीयासुरतां गोप्तुं विष्णोः शिवस्य च । काल्याश्च दीक्षामादाय गुरुतां भेजिरे नृणाम् ।। १५ 

सर्वेऽपि कृष्णवैरेण तदात्माधिकवल्लभम् । वर्णाश्रमात्मकं धर्मं तद्बक्तिं चार्दयन्मुहुः ।। १६ 

देशिकास्तत्रवैन्यस्य यज्ञाभङ्गाय वज्रिणा । धृतहातानौपधर्म्यानाकल्पान्बहुधाऽऽश्रयन् ।। १७ 

तथा बलासुरास्योत्थत्रिविधस्त्रीगणेश्वराः । देवार्पितान्नमांसेरामाहात्म्यं बहुधोचिरे ।। १८ 

प्रलोभयित्वा दम्भेन ह्येतैर्वेषादिभिस्त्रिभिः । दैवानभ्रंशयञ्जीवान्स्वधर्महरिभक्तितः ।। १९ 

मद्यमांसपरस्त्रीषु सक्तास्ते च रसे धने । मन्त्रयन्त्रादिभिर्लोकान्वशीचक्रुः कलेर्बलात् ।। २० 

आत्मानं धार्मिकं मत्वा विश्वस्य च यथा जनाः । दद्युः स्त्रीधनभक्तादि कुर्वन्ति स्म तथा क्रियाः ।। २१ 

ब्रह्मज्ञानस्य भक्तेश्च स्वधर्मस्यापि बोधनम् । स्वार्थसिद्धयनुकूलं ते चक्रुः शास्त्रार्थनिर्णयैः ।। २२ 

जगदुश्चाखिलं वेदं हिंस्रयज्ञापरं च ते । यज्ञोद्देशेन च बहून्निजघ्नुः पशुपक्षिणः ।। २३ 

शब्दभेदैः श्रुतीनां च स्मृतीनामप्यकुर्वत । विपरीतानेव चार्थान्स्वस्वरुच्यनुसारतः ।। २४ 

ब्रह्मात्मनः स्वरूपस्य साक्षात्कारे च साधनम् । मुख्यं प्राहुः सुरापानं वैराग्याद्यधिकं तथा ।। २५ 

प्रसादने च प्रत्यक्षदर्शने मुख्यसाधनम् । विदुर्विष्ण्वीशकालीनां मद्यं मांसं च मैथुनम् ।। २६ 

दैवे पित्र्ये च देवादिप्रीत्यै मांसबलिं विदुः । सात्त्विकानपि मांसाद्यैर्यजन्तिस्म सुरान्मुहुः ।। २७ 

चक्रुः सङ्गं परस्त्रीणां स्वेष्टदेवालयेष्वपि । महापापान्यपि प्रायः स्वार्थसिद्धय आचरन् ।। २८ 

प्रायोऽवात्सुः पुण्यतीर्थदेवालयपुरेषु ते । केचित्तपस्विवेषाश्च केचिच्छस्त्राण्यधारयन् ।। २९ 

यत्र स्वशिष्यशाखाया बलं स्यात्तत्र ते त्विमम् । आविश्चक्रुर्दुराचारं गुप्तमन्यत्र चाचरन् ।। ३० 

ईदृक्स्वमतपुष्टयै च ग्रन्थान् नूत्नानचीक्लृपन् । अर्थं तदनुसारेण वेदादेरपि चक्रिरे ।। ३१ 

एतानेवाश्रयन्भूपा गुरुत्वेनासुरांशजाः । वर्तमानैस्तदाज्ञायां तैरभिद्यन्त सेतवः ।। ३२ 

तदा त्वधर्माचरणे तत्तद्बूपप्रजा नृप ! । अभवन्निर्भया भूमौ यथा राजा तथा प्रजाः ।। ३३ 

यज्ञामार्गः समुच्छिन्नः सर्वतोऽभूच्च वैदिकः । तेन कार्श्यं परं प्रापुर्देवा ब्रह्मादयोऽखिलाः ।। ३४ 

दुष्टैः प्रवर्त्यमाने तैः कलि राजबलैधितैः । असुरांशैरधर्मेऽत्र मुहुर्भूमिरकम्पत ।। ३५ 

न भारं चक्षमे तेषां क्षमा सोढुमसद्धियाम् । सद्धर्मतीर्थदेवाश्च सज्जना ययुरार्तताम् ।। ३६ 

मुहुर्दुर्भिक्षमभवद्विद्युत्पाताश्च भूतले । वातेन महता पेतुर्बहुशश्च महाद्रुमाः ।। ३७ 

इत्थं भुवि क्षोणिपते ! प्रवृत्ते जनेष्वधर्मे सहदुर्निमित्ते ।
जग्राह धर्मः स्वजनुर्नुजातौ सह स्त्रियाऽथर्षय उद्धवश्च ।। ३८

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे असुरदुराचारप्रवृत्तिनिरूपणनामा दशमोऽध्यायः ।। १० ।।