एकादशोऽध्याय

सुव्रत उवाच - 

अस्ति कोसलदेशेषु पुरमिट्टारसंज्ञाकम् । सरय्वा उत्तरे तीरे चातुर्वर्ण्यजनावृतम् ।। १ 

तत्र सावर्णिगोत्रोऽभूद्विप्रो यत्प्रवरास्त्रयः । भार्गवो वैतहव्यश्च सावेतस इति श्रुताः ।। २ 

वेदः सामाभिधः शाखा कौथुमी यस्य च श्रुता । नाम्ना लक्ष्मणशर्मेति विख्यातोऽभूत्स भूतले ।।३

वंशीधरोऽभूत्तत्पुत्रो वेदमानश्च तत्सुतः । पुत्रस्तस्याभवद्धीमान्कनीयानिति विश्रुतः ।। ४ 

कदाचिदवत्सकञ्चिन्मेहदावे पुरेऽथ सः । सुरनेतृनराधीशकुलपूज्यश्च पण्डितः ।। ५ 

तत्सुतो बालशर्माऽभूद्वेदशास्त्रविशारदः । धर्मप्रियो विशुद्धात्मा सत्यवादी जितेन्द्रियः ।। ६ 

ब्रह्मांशः शुद्धकुलजो याज्ञिाकश्च महामतिः । विद्याशान्तिदयालज्जासौशील्यादिगुणान्वितः ।। ७ 

तस्य भार्या भाग्यवतीसंज्ञाऽभूग्दुणमण्डिता । तया सह ब्राह्मणोऽसौ धर्ममेव सदाऽऽचरत् ।। ८ 

विधातुं स्वस्य पितरौ धर्मस्तावेव दम्पती । निश्चयं चेतसा चक्रे शुद्धान्तःकरणौ नृप ! ।। ९ 

आविर्भूय ततस्तस्मिन्धर्मः कालेन वाडवे । भाग्यवत्युदरे गर्भो भूत्वा मर्त्यवदावसत् ।। १० 

दशमे मासि सम्प्राप्ते मानुष्यं नाटयन्वृषः । प्रादुरासीत्स्वतन्त्रोऽसौ सुखयिष्यन्सतो जनान् ।। ११ 

सोत्कण्ठं विबुधेषु नन्दनवनादानीय पुष्पाणि खे ।
ह्युत्प्रेक्षां निजजन्मनः सविनयं कुर्वत्सु बद्धाञ्चलीन् ।।
साकं तत्करपुष्पवर्षणजयध्वानैस्तथात्मद्रुहा- ।
मन्तस्त्रासभरैः स्वनाशपिशुनैर्जज्ञो जगद्धारकः ।। १२ 

विक्रमार्कशकस्याब्दे रसांकागेन्दुसम्मिते । प्रमोदाख्ये वत्सरे च दक्षिणायनगे रवौ ।। १३ 

शरदृतौ कार्तिकस्य शुक्लैकादशिकातिथौ । सौम्येऽहिर्बुध्न्यभे वज्रे कल्याणीकरणे तथा ।। १४ 

कुम्भलग्ने च भौमादिचतुष्के केन्द्रसंस्थिते । भाग्यवत्या सूयते स्म धर्मो मनुजरूपधृत् ।। १५ 

साक्षाद्धर्मे क्षितौ जाते किरन्तः सुमनांसि खे । वाद्यान्यवादयन्देवा दुन्दुभिप्रमुखानि च ।। १६ 

देवैस्तैर्वाद्यमानानां हर्षेण महता भृशम् । वाद्यानां सुमहान्नादस्त्रिलोकीं व्यानशे तदा ।। १७ 

गीतप्रबन्धैर्गन्धर्वाः सुस्वरं च जगुस्तदा । नृत्यमप्सरसश्चक्रुः संहतास्त्रिदशालये ।। १८ 

उत्सवोऽभून्महांस्तेषां त्रिदशानां महात्मनाम् । कुर्वतां पुष्पवर्षाणि धर्माविर्भाववेश्मनि ।। १९ 

भूमौ च मङ्गलान्यासन् पुरग्रामव्रजादिषु । वह्नयो याज्ञिाकानां च निर्धूमा हि दिदीपिरे ।। २० 

सद्यो बभूवुश्चेतांसि निर्मलानि सतां तदा । प्रफुल्लाम्भोरुहाण्यासन्निर्मलानि सरांसि च ।। २१ 

ववुः सुखकरा वाता निर्मलं चाभवन्नभः । सिद्धा जयध्वनिं चक्रुऋर्षयश्चाशिषो ददुः ।। २२ 

ततः सम्भ्रान्तो वा सुतजननहर्षेण महता द्विजः । स्ननं चक्रे सपदि स तु धर्मागमपटुः ।
द्विजान् सम्पूज्यादौ तदुदितविधं जातकमथो । द्विजातिभ्यो दानं निजविभवतुल्यं च विधिना ।। २३

सुकोमलाङ्गो मशकैश्च दंशैः स तुद्यमानोऽपि रुजं विषेहे ।
क्षान्तिं विलोक्येति च तस्य सुज्ञाः प्राग्योगिनं तं विविदुः स्त्रियोऽपि ।। २४ 

तं नूतनाम्बुधरसुन्दरभासुराङ्गमाजानुबाहुयुगलं रुचिरस्मितास्यम् ।
बालं नृनाटयमुरुधा विदधानमीशं मत्वात्मजं च पितरावतिहर्षमाप्तौ ।। २५ 

तस्याभिधानं जनकः सुतस्य स द्वादशाहे विधिना चकार ।
एषोऽङ्गकान्त्या रुचिरो यतोऽतः ख्यातोऽस्तु नाम्ना भुवि देवशर्मा ।। २६ 

एवं स पित्रा कृतनामधेयो जहार चित्तं च दिने दिनेऽस्य ।
ज्ञातेः स्वकीयस्य परस्य चासौ मुहुः सुतोऽभूदतिदर्शनीयः ।। २७ 

स श्रीमान्प्रतिदिनमाशुवर्धमानः श्यामाङ्गो हिमरुचिकान्त आप्तदन्तः ।
यामूचे प्रथमगिरं कलां तु बाल्ये जाताऽसीत्सकलमनःप्रहर्षणी सा ।। २८ 

संस्कारान्प्राप्य सर्वान्स निगमविधिनाऽन्नाशनादीन् क्रमेण ।
बध्वा मौञ्जीं व्रतस्थो गलविचलदसूज्जीवयन्ब्रह्मचर्यम् ।।
वेदानध्यैत साङ्गान् गुरुकुलवसतिर्द्वादशाब्दांस्ततस्तं ।
सन्तोष्याभीष्टदानैः क्रमगतमकरोत्तत्समावर्तनं च ।। २९ 

स्नतकव्रतनिष्ठोऽसौ भार्यामात्मसमां ततः । उद्वोढुमैच्छन्नृपते ! कुलीनां चोचितां गुणैः ।। ३० 

देशे तत्र भवत्येका नदी नाम्ना मनोरमा । तस्यां तीर्थं मखौढाख्यं वर्ततेऽघचयापहम् ।। ३१ 

तदुत्तरदिशि ग्रामश्छुप्पया इति विश्रुतः । चातुर्वर्ण्यजनाकीर्णो याज्ञिाकानामतिप्रियः ।। ३२ 

तडागेनातिमहता शोभितो निर्मलाम्भसा । परितो महतीभिश्च बह्वीभिर्द्रुमजातिभिः ।। ३३ 

तत्राभूद्ब्रह्मणो विद्वान् कृष्णशर्मा जितेन्द्रियः । यस्य भार्याऽभवत्साध्वी भवानीत्यभिविश्रुता ।। ३४

तावुभौ दम्पती नित्यं वासुदेवे परात्परे । चक्रतुः परमां भक्तिं निश्छद्महृदयौ शुची ।। ३५ 

तयोः पुत्र्यभवत्साक्षान्मूर्तिर्धर्मसधर्मिणी । शीललक्षणसम्पन्ना नानासग्दुणमण्डिता ।। ३६ 

शकाब्दे विक्रमार्कस्य गजाङ्काश्वेन्दुसम्मिते । ऊर्जे शुक्ले पौर्णमास्यां सौम्ये साऽजनि वह्निभे ।। ३७ 

पूर्णेन्दुनैन्द्रीवदने करकुंकुमलिम्पिते । प्रादुर्बभूव सहसा सा द्योतद्दिव्यविग्रहा ।। ३८ 

यदा मूर्तिर्भूमावजनि मुनिशापेन तु तदा । श्रुतौ कीर्त्यादौ चोत्सुकतरमभूदन्तरमपि ।।
नृणां श्रीकृष्णस्य प्रतिगृहमभूदुत्सवभरो । भरो भूमेश्चैवासुरनिकर आपोत्तरवयः ।। ३९

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मभक्तिजन्मोत्सवनामैकादशोऽध्यायः ।। ११ ।।