द्वादशोऽध्याय

सुव्रत उवाच - 

संस्कारान्विदधे तस्याः कृष्णशर्मा यथाविधि । बालेति नाम कन्यायाश्चकारातिमुदा नृप ! ।। १ 

तज्जन्मदिनतस्तस्य विप्रस्य गृहमन्वहम् । विवृद्धधनधान्यादिसम्पदासीन्निरामयम् ।। २ 

नन्दयन्ती स्वपितरौ बाला शैशवलीलया । विवृधे चन्द्रलेखेव प्राक्पक्षे प्रतिवासरम् ।। ३ 

देवहूतीसमैवासीत्सा रूपगुणलक्षणैः । कृष्णभक्तिस्वभावा च बाल्यादासीच्च सत्यवाक् ।। ४ 

सर्वदा कुर्वतीं भक्तिं मुदा कृष्णस्य वीक्ष्य ताम् । जनः सर्वोऽप्याजुहाव भक्तिनाम्नैव भूपते ! ।। ५ 

कन्यां तां कृष्णशर्माऽदाद्योग्याय गुणशालिने । तस्मै देवाय विप्राय स्वगृहे विधिपूर्वकम् ।। ६ 

तत्रागतो बालशर्मा जन्यैः स्वैर्बन्धुभिः सह । पुत्रमुद्वाहयामास मानितः कृष्णशर्मणा ।। ७ 

परस्परोचितौ दृष्ट्वा तावुभौ दम्पती जनाः । प्रशशंसुर्मुहुः प्रेम्णा पार्वतीशङ्कराविव ।। ८ 

जामातरं सुशीलं तं कृष्णशर्मा गुणान्वितम् । प्रेम्णा निवासयामास सम्प्रार्थ्य स्वस्य वेश्मनि ।। ९ 

न्युवास तत्र तत्प्रीत्यै पण्डितः स द्विजोत्तमः । आज्ञायैव पितुः स्वस्य पत्न्या अनुमतेन च ।। १० 

दिनानि कचित्तत्र स्थित्वा निजपुरं व्रजन् । विप्रवर्यो बालशर्मा ह्यशिषत्स स्नुषां निजाम् ।। ११

श्रीबालशर्मोवाच - 

शृणु कल्याणि ! भद्रं ते वचनं हितकृन्मम । सुशीला पापभीरुस्त्वं भव नित्यं पतिव्रता ।। १२ 

यावत्स्वलोमसङ्खयाऽस्ति तावत्कोटययुतानि च । भर्त्रा स्वर्गसुखं भुङ्क्ते रममाणा पतिव्रता ।। १३ 

धन्या सा जननी लोके धन्योऽसौ जनकः पुनः । धन्यः स च पतिः श्रीमान् यस्य गेहे पतिव्रता ।। १४

पुण्यं यस्य भवेत्पुंसः शतजन्मसमर्जितम् । गृहे तस्य भवेन्नारी धर्मनिष्ठा पतिव्रता ।। १५ 

पितृवंश्या मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः । पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते ।। १६ 

बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि । सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ।। १७ 

पृथिव्यां यानि तीर्थानि तानि सन्ति सतीपदे । तेजश्च सर्वदेवानां तनौ तस्यास्तपस्विनाम् ।। १८ 

साध्वीपादरजोभिर्भूः पूता सद्यो हि जायते । नमस्कृत्य च तां पापी पापेभ्यो मुच्यते किल ।। १९ 

पतिव्रता त्वरुन्धत्या सावित्र्या चानसूयया । शाण्डिल्याऽहल्यया सत्या द्रौपद्या शतरूपया ।। २० 

मेनया च सुनीत्या च संज्ञाया स्वाहया तथा । तुल्या लोपामुद्रयाऽस्ति ततस्त्वं तादृशी भव ।। २१

सुव्रत उवाच -

तस्यै पतिव्रताधर्मान् सोऽनुशास्याखिलानथ । नाम्ना प्रेमवतीत्याह दृष्ट्वा तत्प्रेम भर्तरि ।। २२ 

ततः स्ववंशद्युमणिं बाल्यादेव सुशिक्षितम् । पुत्रं सर्वगुणोपेतमुवाच वदतां वरः ।। २३

बालशर्मोवाच - 

पुत्र ! त्वं ननु सुज्ञोऽसि वेदशास्त्रार्थपारगः । तथापि शास्मि भद्रं ते वृद्धत्वात्पितृभावतः ।। २४ 

स्ननं सन्ध्यां जपं होमं स्वाध्यायं पितृतर्पणम् । देवार्चनं वैश्वदेवं चातिथ्यं नित्यमाचरेः ।। २५ 

यस्य स्त्री स्याग्दुणवती गृहिधर्मान्स आचरेत् । पत्नी तवैषा बालापि स्वाध्वीति प्रतिभाति मे ।। २६ 

तस्मादस्याः प्रियं कार्यं त्वया गार्हस्थ्यमिच्छता । नावमान्या गुणवती भार्येयं धर्मवल्लभा ।। २७ 

आसन्नसम्बन्धवतीं विना क्वापि परस्त्रियाम् । विधवां तु विशेषेण न स्पृशेस्त्वममङ्गलाम् ।। २८ 

जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् । भर्तृहीना तथा योषित्सुस्नताऽप्यशुचिः सदा ।। २९ 

अमङ्गलेभ्यः सर्वेभ्यो विधवा ह्यत्यमङ्गला । विधवादर्शनात्सिद्धिः क्वापि पुंसो न जायते ।। ३० 

अज्ञानाद्विधवास्पर्शे कर्तव्यं स्ननमात्रकम् । ज्ञात्वा कृते तु तत्स्पर्शे दिनमेकमुपोषणम् ।। ३१ 

तस्मान्न विधवां नारीं श्रेयस्कामः स्पृशेत्पुमान् । आशिषोऽपि न वै ग्राह्यास्तस्या आशीविषोपमाः ।३२ 

विहायैकां निजां भार्यामेकान्ते त्वन्यया सह । मात्रा स्वस्रा दुहित्राऽपि नोपवेश्यं कदाचन ।। ३३ 

मद्यं मांसं पारदार्यं स्तैन्यं स्वपरहिंसनम् । जातिभ्रंशकरं कर्म सर्वथा दूरतस्त्यजेः ।। ३४ 

परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् । इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् ।। ३५ 

यादृशं पुरुषस्येह परदारोपसेवनम् । न तादृशमनायुष्यं लोके किञ्चन विद्यते ।। ३६ 

मनसा च प्रदुष्टे ये पश्यन्ति परस्त्रिीयम् । ते जन्मरोगिणो भूमौ जायन्ते पुरुषाः सुत ! ।। ३७ 

परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते । तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति हि ।। ३८ 

ये च मूढा दुराचारा वियोनौ मैथुने रताः । पुरुषेषु च दुष्प्रज्ञा जायन्ते तेऽत्र पण्डकाः ।। ३९ 

स्त्रैणसङ्गात्पारदार्ये प्रवृत्तिर्जायते नृणाम् । न कार्यः कर्हिचित्सङ्गः शिश्नोदरतृपां ततः ।। ४० 

सतामेव सदा सङ्गः कार्यो नारायणात्मनाम् । धर्माधर्मौ विनिश्चित्य धर्मः सेव्यो मनीषिणा ।। ४१ 

धर्म एव सहायी स्यात्परलोके न चापरः । अतः सर्वप्रकारेण धर्मनिष्ठः सदा भवेः ।। ४२ 

एकादशीव्रतं यच्च पक्षयोः शुल्लकृष्णयोः । प्रतिमासं भवति तद्युवाभ्यां कार्यमादरात् ।। ४३ 

सर्वव्रतेभ्यो ह्यधिकं ज्ञोयमेकादशीव्रतम् । यत्कृत्वा स्त्री च पुरुषो भुक्तिं मुक्तिं च विन्दति ।। ४४ 

विष्णोर्व्रतानि चान्यानि तथा जन्ममहोत्सवाः । निजशक्तयनुसारेण कर्तव्याः प्रतिवत्सरम् ।। ४५ 

भाद्रशुक्लचतुर्थ्यां च कुर्या गणपतिव्रतम् । शिवरात्रिव्रतं माघे कुर्याः श्रीकृष्णतुष्टये ।। ४६ 

अस्माकं कुलदेवोऽस्ति हनूमान् रामभक्तराट् । इषकृष्णचतुर्दश्यां कर्तव्यं तस्य पूजनम् ।। ४७ 

स्ननं तैलेनाङ्गरागः सिन्दूरेण च पूजनम् । करवीरार्ककुसुमैः कार्यं तस्योर्ध्वरेतसः ।। ४८ 

नैवेद्यं माषवटकैर्लड्डुकैश्चणकैरपि । कर्तव्यं गुडधानाभिस्तस्य पुत्र ! स्वशक्तितः ।। ४९ 

यथाशक्तयर्चितो भक्तया मारुतिः स्मृत एव हि । नाशयिष्यति सङ्कष्टं सर्वमत्र न संशयः ।। ५०

सुव्रत उवाच - 

इत्थं सुशिक्षितौ तेन दम्पती बालशर्मणा । एवमेवाचरिष्याव इत्युक्त्वा तं प्रणेमतुः ।। ५१ 

कृतप्रणामं तनयं वधूं च शुभाशिषा योजयति स्म तुष्टः ।
तद्धर्मनिष्ठादरदर्शनेन धर्मोपदेष्टा स ततोऽग्रजन्मा ।। ५२ 

ततः पुरं प्राप्य निजं सजन्यः सत्पुत्रलब्धात्मसमस्तकामः ।
कालेन हित्वा वपुराप विष्णोः परं पदं धर्मकृतप्रसादात् ।। ५३

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
भक्तिधर्मानुशासननामा द्वादशोऽध्यायः ।। १२ ।।