त्रयोदशोऽध्याय

सुव्रत उवाच - 

गते पितरि विप्रेन्द्रस्तदुक्तानाचचार सः । गृहस्थधर्मान्विधिना श्वशुरावनुरञ्जयन् ।। १ 

मानयन्तीश्वरमिव प्रेमवत्यात्मनः पतिम् । विनयेनानुवृत्त्या च सिषेवे दम्भवर्जिता ।। २ 

एकादशीव्रतं तूभौ दम्पती नियमेन वै । प्रतिपक्षं निराहारौ चक्रतुः परमादरात् ।। ३ 

श्रौतान्स्मार्तांश्च विधिना धर्मानाचरतोस्तयोः । दिने दिनेऽधिकैवासीद्विशुद्धिश्चेतसो नृप ! ।। ४ 

सङ्कष्टेऽप्यात्मनो धर्मं देवस्तत्याज न क्वचित् । सङ्गं च धर्मिणां चक्रे नेतरेषां स कर्हिचित् ।। ५ 

धर्मनिष्ठां परां तस्य पश्यन्तः सकला जनाः । धर्मेत्येवाह्वयंस्तेन धर्मनामा स विश्रुतः ।। ६ 

तस्य श्रद्धादयः पत्न्यो द्वादशाथ सहात्मजाः । प्राकृतादृश्यदिव्याङ्गास्तमसेवन्त नित्यदा ।। ७ 

नित्यं त्रिषवणस्ननं त्रिः सन्ध्यावन्दनं तथा । सायं प्रातर्होमकर्म जपं स्वाध्यायकर्म च ।। ८ 

पितणां तर्पणं विष्णोः पूजनं वैश्वदेविकम् । आतिथ्यं चान्वहं चक्रे स धर्मो नियमेन वै ।। ९ 

स्वधर्मज्ञानवैराग्यभक्तिदाढर्याय चाकरोत् । वेदशास्त्रपुराणेतिहासानां परिशीलनम् ।। १० 

स्वस्वधर्मं पालयन्तौ दम्पती तावुभावपि । प्रेम्णा भजन्तौ श्रीविष्णुं तद्व्रतानि च चक्रतुः ।। ११ 

स्वधर्मे विष्णुभक्तौ च तयोरत्याग्रहस्थितिः । इत्थमासीत्तथर्षीणां जातानां भुवि सर्वशः । १२ 

कालेन तनयो जज्ञो तयोरेकः स धर्मधीः । रामप्रतापसंज्ञोऽभूत्सङ्कर्षणसमो गुणैः ।। १३ 

असुरा भुवि ये जाताः पूर्वं तेऽथ सहस्रशः । धार्मिकान्भगवद्बक्तान् रुरुजुर्बहुधा जनान् ।। १४ 

तानृषींस्तु विशेषेण जानन्तो निजवैरिणः । प्रार्दयंस्ते च धर्मं तु तेभ्योऽप्यधिकमुन्मदाः ।।१५ 

अतिशत्रुं तमेवैकं निश्चित्य च सयोषितम् । यथा यथा स दुःखी स्यात्कुर्वन्तिस्म तथा तथा ।। १६ 

गुणेष्वारोपयन्तस्ते दोषांस्तस्याखिलेष्वपि । निनिन्दुश्च तिरश्चक्रुरपवादान्मुहुर्ददुः ।। १७ 

गृहे स्थातुमुदासीनो दुर्जनोपद्रुतस्ततः । अयोध्यामेत्य न्यवसद्धर्मो भार्यासुतान्वितः ।। १८ 

सरय्वामन्वहं स्नत्वा नित्यनैमित्तिकीः क्रियाः । कुर्वंस्तत्रापि तै राजन्मुहुः स उपदुद्रुवे ।। १९ 

पतिव्रतां सुशीलां च सर्वदोषविवर्जिताम् । अपि प्रेमवतीं दुष्टाः प्रार्दयंस्ते मुहुर्नृप ! ।। २० 

यथा पुरा धर्मराजः सबन्धुः शात्रवं महत् । प्रापकृच्छ्रं तथा धर्मो भक्तिश्च द्रौपदी यथा ।। २१ 

ततो दुःखप्रतीकारं चिकीर्षन् स यथामति । काशीं शिवपुरीमेत्य मासः कतिचनावसत् ।। २२ 

तत्रापि धार्मिके तस्मिंस्तत्रत्यैश्चापरैरपि । महानुपद्रवश्चक्रे तदतिद्वेषणासुरैः ।। २३ 

अनिष्टलब्धिसन्त्रस्तस्ततः सस्त्रीसुतो वृषः । अविज्ञातोऽसुरैर्धीरः प्रयागक्षेत्रमाययौ ।। २४ 

विधाय तत्रत्यविधिं नियमान् पालयन्स च । उवास कतिचित्तत्र दिनानि व्रतकर्शितः ।। २५ 

अपश्यद्वैष्णवाचार्यं तत्रायातं तपोनिधिम् । रामानन्दमुनिं नाम्ना तीर्थयात्राविधित्सया ।। २६ 

स्वशिष्यबोधनपटुं शिष्यैः कतिपयैर्वृतम् । बोधयन्तं मुमुक्षूंश्च वर्णिवेषं दयाकरम् ।। २७ 

ऊर्ध्वपुण्ड्रं ललाटे च बिभ्रतं कैसरं शुभम् । काश्मीरचन्द्रकोपेतं कण्ठे च तुलसीस्रजौ ।। २८ 

शब्दब्रह्मपरब्रह्मनिष्णातं साधुलक्षणम् । ज्ञात्वा तं सिद्धयोगीन्द्रं सिषेवे परमादरात् ।। २९ 

निषेवमाणः स तमात्मनिष्ठं भक्तं वरिष्ठं च जनार्दनस्य ।
विचक्षणं लौकिकवैदिकेषु कार्येषु बुद्धयोद्धवतुल्यमूहे ।। ३० ।।

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
असुरोपद्रुतधर्मस्य श्रीरामानन्दस्वामिदर्शननामा त्रयोदशोऽध्यायः ।। १३ ।।