चतुर्दशोऽध्याय

राजोवाच - 

रामानन्दमुनिः कोऽसौ कस्य शिष्यश्च सुव्रत ! । क्ववासस्तस्य चैतन्मे वक्तुमर्हसि तत्त्वतः ।।१

सुव्रत उवाच - 

शृणु ते भूप ! वक्ष्यामि चरित्रं तस्य सग्दुरोः । भुव्युद्धवावतारस्य बद्धसद्धर्मवर्त्मनः ।। २ 

अयोध्यानगरे रम्ये द्विजः काश्यपगोत्रजः । आश्वलायनशाखेन ऋग्वेदी चाभवन्नृप ! ।। ३ 

अजयाख्यः पुण्यमतिः पूर्वमाराधितेश्वरः । विद्याविनयसम्पन्नः सत्यवादी जितेन्द्रियः ।। ४ 

सुमतौ तस्य भार्यायां शप्तो दुर्वाससोद्धवः । श्रीकृष्णभक्तिकुमुदशशाङ्कः प्रादुरास सः ।। ५ 

विक्रमार्कशकस्याब्दे बाणाङ्कनगभूमिते । अष्टम्यां श्रावणे मासि कृष्णायां सोऽजनि प्रगे ।। ६ 

गौराङ्गः स्मितसुन्दरास्यरुचिरः प्रौढाकृतिर्दीर्घदोर्दण्डः ।
कोमलपादपल्लवयुगो गम्भीरनाभिः स च ।
शोणापाङ्गरुचिर्विशालहृदयश्चारक्तबिम्बाधरो ।
वक्रश्यामशिरोरुहः सुनयनो विस्तीर्णगोधिर्बभौ ।। ७ 

अथाजयो द्विजश्रेष्ठः पुत्रजन्ममहोत्सवः । स्नत्वा विप्रान्समाहूय जातकर्म समाचरत् ।। ८ 

रमणाद्राम इत्याख्यां द्वादशेऽह्नि च तस्य सः । चकार सप्रहृष्टात्मा स्वस्तिवाचनपूर्वकम् ।। ९ 

विवृधे सोऽल्पकालेन पितृभ्यामुपलालितः । जनयन्नयनानन्दं बालचन्द्र इवोदितः ।। १० 

कृतोपनयनश्चासावष्टमेऽब्दे यथाविधि । पालयामास धर्मात्मा ब्रह्मचर्यव्रतं दृढम् ।। ११ 

गृहाश्रममनिच्छन्वै नैष्ठिकव्रतवल्लभः । सङ्गं निवृत्तधर्माणां चकार प्रायशः सताम् ।। १२ 

निजपित्रा वाच्यमानं श्रीमद्बागवतं नृप ! । शुश्रावानुदिनं प्रीत्या स पौगण्डवया अपि ।। १३ 

दृढं भक्तिस्ततो विष्णौ बभूवास्य च मानसे । प्रतिमापूजनं तस्य नियमेन चकार सः ।। १४ 

विष्णुं दिदृक्षुः प्रत्यक्षमनासक्तो गृहादिषु । निर्जगाम गृहात्तूर्णं वेदाध्ययनकैतवात् ।। १५ 

तीर्थयात्रां चरन्नानादेशेषु विगतस्पृहः । श्रीहरिं हृदये ध्यायन्प्राप रैवतकं गिरिम् ।। १६ 

गोपनाथालयस्थातुर्गोपालानन्दयोगिनः । शिष्यमात्मानन्दसंज्ञां मुनिं तत्र समैक्षत ।। १७ 

अष्टाङ्गयोगकलनानैपुण्ये योगिसम्मतम् । समाधिनिष्ठं सम्प्राप्तमेकत्वं ब्रह्मणात्मनः ।। १८ 

चिरकालं स्वदेहस्य रक्षणे सद्य एव वा । त्यागे स्वातन्त्र्यमापन्नं प्रसादादेव सग्दुरोः ।। १९ 

कृपया स्वोपदेशेन योगसिद्धिमुपागतैः । वृतं शिष्यैः स बहुभिः प्रणनाम तमादरात् ।। २० 

सादरं मानितस्तेन प्रतापप्रथितेन सः । तत्रावसन्मासमेकं वर्णिधर्मदृढस्थितिः ।। २१ 

समाधौ विष्णुवीक्षाऽस्य भवेदित्यवधार्य तम् । सम्प्रार्थयद्रामशर्मा प्रणम्य प्राञ्जलिर्नृप ! ।। २२ 

स्वामिन्साक्षाद्धरिमहं दिदृक्षामि ततो भवान् । तत्सिद्धिकृत्साधनं मे कृपया वक्तुमर्हति ।। २३ 

इत्युक्तः स मुनीन्द्रस्तं प्राह योगं सुसाधय । तेन सेत्स्यत्यभीष्टं त इत्युक्तः सोऽहृषन्नृप ! ।। २४ 

ततः स सिद्धयोगं तं ज्ञात्वा योगोपलब्धये । शिष्यतां तस्य सम्प्राप मानयन्विनयेन तम् ।। २५ 

नाम रामानन्द इति तस्य स प्रीतमानसः । मुनिश्चकाराथ योगं सहाङ्गैस्तमशिक्षयत् ।। २६ 

सिद्धयोगोऽभवत्सोऽपि कालेनाल्पेन वर्णिराट् । ब्रह्मणैक्यं च सम्प्राप गुरुवत्स्वात्मनस्तथा ।। २७ 

समाधौ ब्रह्मतेजश्च व्याप्नुवत्ककुभो दश । सोऽपश्यन्नित्यदा वर्णी तत्र नारायणं न तु ।। २८ 

असन्तुष्टो व्याकुलश्च तदाऽसौ गुरुमाह तम् । समाधिसिद्धिं प्राप्तोऽहं स्वामिन्करुणया तव ।। २९ 

ब्रह्मतेजो निराकारं तत्र पश्यामि केवलम् । साकारं ब्रह्म कृष्णं तु नैव पश्याम्यभीप्सितम् ।। ३० 

अत्युद्विग्नमना अस्मि विनेक्षां कमलापतेः । अपूर्णकामं स्वं मन्ये तेन चात्मानमञ्जसा ।। ३१ 

तदा गुरुः प्राह विष्णुस्तेजोरूपो निराकृतिः । एष एवास्ति वै वर्णिन्नाकारस्त्वस्ति मायिकः ।। ३२ 

आकारस्य विनाशोऽस्ति निराकारस्य नास्ति सः । इत्युक्त उद्धवस्तेन सद्योऽमूर्छन्नराधिप ! ।। ३३ 

प्रापोच्छ्वासं मुहूर्तान्ते रुरोद स ततो भृशम् । हर्याकृत्यसदुक्तिं तं हित्वा द्राग्निर्ययौ ततः ।। ३४ 

गुरुणा वार्यमाणोऽपि नास्थात्तत्र स सन्मतिः । साकारब्रह्मसिद्धान्तस्थापकं मृगयन् गुरुम् ।। ३५ 

रामानुजाचार्यपदे स स्यादित्यवधार्य सः । हरेरतिप्रियं स्थानं श्रीरङ्गाख्यं ययौ ततः ।। ३६ 

तत्र श्रीरङ्गदेवस्य मन्दिरान्तिक एव सः । स्वावासमकरोद्वर्णी भगवन्तं स्मरन् हृदि ।। ३७ 

कावेर्यां प्रत्यहं स्नत्वा नित्यकर्म विधाय च । चकार नियमेन श्रीरङ्गनाथस्य दर्शनम् ।। ३८ 

साकारतास्थापकानि परस्य ब्रह्मणो हरेः । सच्छास्त्राणि श्रोतुमनाः स आसीन्नेतराणि तु ।। ३९ 

प्रत्यक्षभगवद्वीक्षासाधनस्य च देशिकम् । गवेषमाणो व्यदधाद्वैष्णवानां समागमम् ।। ४० 

अथ रामानुजाचार्यचरित्रेणोपबृंहितम् । प्रपन्नामृतनामानं ग्रन्थं तत्राश्रृणोन्नृप ! ।। ४१ 

ततः श्रीवैष्णवाचार्यं श्रीरामानुजमेव सः । इयेष देशिकं कर्तुं सिद्धदेहस्थितं सदा ।। ४२ 

ग्रन्थांश्च तत्कृतान्प्रीत्या साकारब्रह्मनिश्चयान् । शुश्रावानुदिनं वर्णी श्रीभाष्यादीन्स्ववल्लभान् ।। ४३ 

श्रीमद्रामानुजस्यासौ नाम्नामष्टोत्तरं शतम् । पपाठानुदिनं भक्तया दध्यौ तं च यथाश्रुतम् ।। ४४ 

इत्थं विदधतस्तस्य मासत्रयमगान्नृप ! । पञ्चम्यां मधुमासेऽथ तस्य स्वप्नोऽभवत्प्रगे ।। ४५ 

साक्षाद्रामानुजाचार्यं तत्रापश्यत्त्रिदण्डिनम् । कान्त्या सूर्यप्रतीकाशं दिव्यदेहं सुलोचनम् ।। ४६ 

पुण्ड्राणि द्वादशोर्ध्वानि बिभ्रतं सस्मिताननम् । प्राणमत्तमवेत्याशु श्रीमन्नाथं च लक्षणैः ।। ४७ 

ततोऽवदद्यतीन्द्रस्तं बद्धाञ्जलिपुटं स्थितम् । वरं वरय मद्वर्णिन् ! रामानुजमवेहि माम् ।। ४८ 

इत्युक्तः सोऽतिहृष्टात्मा तमुवाच यतीश्वर ! । मनोरथोऽद्य मे पूर्णस्त्वद्दृष्टया बहुकालजः ।। ४९ 

श्रीमन्नारायणस्याहं साक्षादिच्छामि दर्शनम् । तन्मे यथा भवेच्छीघ्रं तमुपायं वद प्रभो ! ।। ५० 

ततः प्रसन्नः प्रददौ तस्मै दीक्षां स वैष्णवीम् । मनू द्वौ च प्रपन्नाय ततश्चेदमुवाच ह ।। ५१ 

श्रीमन्नारायणं भक्तया भजेस्त्वं वर्णिसत्तम ! । ग्रन्थांश्च मत्कृतान्नित्यमभ्यसेस्तन्द्रिवर्जितः ।। ५२ 

स्वधर्मं विष्णुभक्तिं च वैष्णवानां समागमम् । प्रत्याहारं चेन्द्रियाणां न त्यजेस्त्वं चतुष्टयम् ।। ५३ 

इत्थं हि वर्तमानस्य कालेनाल्पेन तेऽनघ ! । श्रीमन्नारायणस्येक्षा साक्षादेव भविष्यति ।। ५४ 

दीक्षां त्वं वैष्णवीं दद्याः प्रपन्नेभ्यो ममाज्ञाया । सिद्धिस्तवेव तेषां च भविष्यति न संशयः ।। ५५ 

विक्षेपो भगवद्बक्तौ पुण्यक्षेत्रेषु यत्र ते । न स्यात्तत्र वसेत्युक्त्वा लक्ष्मणार्यस्तिरोदधे ।। ५६ 

प्रबुद्धः स वपुः स्वीयमपश्यच्चक्रलाञ्छितम् । शोभमानं चोर्ध्वपुण्ड्रैर्हृष्टः सत्यमवैच्च तत् ।। ५७ 

स्वधर्मस्थो भजन्भक्तया सोऽल्पकालेन भूपते ! । ददर्श ब्रह्मतेजःस्थं लक्ष्मीनारायणं हृदि ।। ५८ 

पूर्णकामस्ततो भूमौ तीर्थानि विचचार सः । तत्र तत्र प्रपन्नेभ्यो दीक्षां प्रादाच्च वैष्णवीम् ।। ५९ 

दीक्षितास्तेन ये येऽत्र जनास्ते ते तु भूमिप ! । स्वधर्मस्थाश्च निर्दम्भा दृढभक्तियुजोऽभवन् ।। ६० 

साक्षाद्बगवद्दीक्षां च प्रापद्यन्ताचिरेण वै । ततस्ते तत्र तत्रास्य माहात्म्यं बहुधोचिरे ।। ६१ 

तुष्टस्य साक्षाद्यतिभूमिपस्य सोऽनुग्रहेणाथ हरेः प्रसादात् ।
आसीच्च निर्दम्भसधर्मभक्तेर्भूरिप्रतापप्रथितः पृथिव्याम् ।। ६२

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
श्रीरामानन्दस्वामिजन्मादिचरित्रनिरूपणनामा चतुर्दशोऽध्यायः ।। १४ ।।