पञ्चदशोऽध्याय

सुव्रत उवाच - 

प्रतिष्ठां महतीं तस्य वीक्ष्यान्ये वैष्णवा जनाः । न सेहिरे मत्सरिणो दाम्भिका विषयैषिणः ।। १ 

यथा यथापमानः स्याल्लोके तस्य तथा तथा । मिथ्याभिशंसनादीनि विदधुश्च व्यधापयन् ।। २ 

प्रतापातिशयं तस्य तथाप्यक्षीणमेव ते । दृष्ट्वा चक्रुः शास्त्रवादांस्तत्र प्रापुः पराजयम् ।। ३ 

ततोऽतिक्रोधमापन्नास्ताडनं भर्त्सनादि च । चक्रुस्ते स तु तत्सेहे बुद्धयाऽऽवन्त्यकदर्यवत् ।। ४ 

केचिन्नग्नाश्च जटिला अयश्चिपिटपाणयः । तस्योर्ध्वपुण्ड्राण्यामृज्यात्रोटयंस्तुलसीस्रजम् ।। ५ 

बभञ्जुर्वासुदेवस्य सिंहासनमपि क्रुधा । अहरन्प्रतिमां केचिन्नित्यार्च्यां तस्य चोद्धताः ।। ६ 

इत्थं स दुर्जनकृतमुपद्रवमकारणम् । प्रारब्धभोगं मन्वानोऽलक्ष्यलिङ्गिोऽचरद्बुवि ।। ७ 

त्यक्त्वा रामानुजाचार्यवर्त्म सोपद्रवं बहिः । भजन्नारायणं चित्ते वृन्दावनमुपाययौ ।। ८ 

प्रत्यहं यमुनायां स स्नत्वा कृत्वा च नैत्यकम् । मन्दिरेषु समग्रेषु चक्रे श्रीकृष्णदर्शनम् ।। ९ 

अपराह्ने च शुश्राव श्रीमद्बागवतं नृप ! । वाच्यमानं तत्र तत्र पुराणं वैष्णवैर्द्विजैः ।। १० 

एवं निवसतस्तस्यालक्ष्यलिङ्गस्य सन्मतेः । भक्तिः कृष्णे विवृद्धाऽभूद्दध्यौ तं चानुवासरम् ।। ११ 

तस्मै प्रसन्नो भगवान्समाधौ निजदर्शनम् । ददौ रासेश्वरीकान्तो वृन्दावनविहारकृत् ।। १२ 

एकाग्रेणैव मनसा श्रीकृष्णेति जपन् हृदि । स्फुरितं सहसाऽपश्यद्ब्रह्मज्योतिरनन्तकम् ।। १३ 

श्रीराधासहितं कृष्णं तत्राद्राक्षीन्मनोहरम् । मुरलीं वादयन्तं च द्विभुजं श्यामसुन्दरम् ।। १४ 

नटवर्यसमाकल्पं नानाभूषणभूषितम् । किरीटिनं वैजयन्तीं बिभ्रतं मालिकां गले ।। १५ 

तं दृष्ट्वा परमानन्दं प्राप मन्त्रद्वयं ततः । पुरुषोत्तमसम्प्राप्त्या स्वं च पूर्णममन्यत ।। १६ 

एवं यदा यदाऽध्यायत्तं ददर्श तदा तदा । अर्चायां स्फुरितं तं च पूजाकालेऽप्यवैक्षत ।। १७ 

पूजोपहारान्प्रत्यक्षं स ददावनुवासरम् । प्रीत्या भगवते तस्मै तत आप स निर्वृतिम् ।। १८ 

साक्षात्कृष्णोक्षणानन्दो निराधिश्च स वर्णिराट् । तदिच्छयैव स्वमवैत्तदेकान्तिकमुद्धवम् ।। १९ 

दुर्जनोपद्रवं तं च दुर्वासःशापसम्भवम् । विवेदाथ मुदा भेजे श्रीकृष्णं स्वेष्टदेवताम् ।। २० 

ततो हिताय जीवानां कृष्णेन स्थापनं भुवि । कृतं स्वस्येति संस्मृत्य तदेव स समाचरत् ।। २१ 

सच्छास्त्रभगवद्वाक्यसारमादाय तत्त्वतः । नवीनं सम्प्रदायं स्वं बबन्ध नृप ! निर्भयम् ।। २२ 

जीवेशमायारूपाणां निर्णयं प्रायशः स तु । रामानुजाचार्यकृतग्रन्थोक्तं प्रत्यपादयत् ।। २३ 

स्ववर्णाश्रमधर्मेण युक्ता श्रीराधिकापतेः । भक्तिः कार्या दृढेत्येतल्लक्षणं ह्युद्धवाध्वनः ।। २४ 

मुमुक्षूञ्छरणापन्नांस्तदेवोपदिशन्स्वयम् । प्राक् स्वानुभूते तत्स्थाने प्रीत्यैकं मासमावसत् ।। २५ 

स तैर्थिको वर्णिवरो मुमुक्षून् श्रीकृष्णभक्तिं गमयन्सधर्माम् ।
प्राप्तोऽभवत्तन्नृप ! तीर्थराजं धर्मः सिषेवे तमिति ह्यवेहि ।। २६

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
उद्धवसम्प्रदायप्रवृत्तिनिरूपणनामा पञ्चदशोऽध्यायः ।। १५ ।।