षोडशोऽध्याय

सुव्रत उवाच - 

पादसंवाहनं कुर्वंस्तस्यासावेकदा निशि । स्वप्ने ददर्श श्रीकृष्णं तेजोमण्डलमध्यगम् ।। १ 

तं दृष्ट्वा परमाश्चर्यं प्रसादं तस्य तं विदन् । मुनेस्ततस्तमेवैकं सग्दुरुं निश्चिकाय सः ।। २ 

सर्वभावेन शरणं तमेव प्रतिपद्य च । तस्माद्बागवतीं दीक्षां सभार्यः सोऽग्रहीन्नृप ! ।। ३ 

अष्टाक्षरौ कृष्णमन्त्रौ तस्मै सोऽपि मुमुक्षवे । उपादिशन्मुनिर्दत्त्वा तुलसीकाष्ठजे स्रजौ ।। ४ 

श्रीकृष्णेति त्वमादिश्च गतिर्मद्वयमन्ततः । मनुराद्य इतिप्रोक्तो वैष्णवत्वविधापकः ।। ५ 

ब्रह्माहमादि च पदं दान्तं कृष्णेति तत्परम् । सोऽस्मीत्युक्तो द्वितीयोऽपि मनुरिष्टफलप्रदः ।। ६ 

आद्यः शरणमन्त्रोऽत्र सामान्य इति कीर्तितः । द्वितीयस्तु महामन्त्रो विशेष इति विद्धि भोः ।। ७ 

ततस्तस्मै च सद्धर्मान् पालनीयान्मुमुक्षुभिः । उपादिदेश यैर्युक्तः पूज्योऽत्र स्यात् परत्र च ।। ८ 

सम्प्रदायेऽस्मदीयेऽस्मिन्संस्थिता ये तु पूरुषाः । भवेयुश्च स्त्रियस्तेषां नियमाच्छृणु वच्मि ते ।। ९ 

देवतापितृयागार्थमपि कस्यापि देहिनः । क्व ापि हिंसा न कर्तव्या दीक्षां कार्ष्णीमुपाश्रितैः ।। १०

एकादशविधं मद्यं सुरा च त्रिविधा द्विज ! । आपद्यपि न वै पेया नाद्यं तत्स्पृष्टमौषधम् ।। ११ 

भक्षणीयं न वै मांसं यज्ञाशिष्टमपि क्वचित् । धर्मार्थमपि विप्रेन्द्र ! न कार्यं स्तेनकर्म च ।। १२ 

परस्त्रीगमनं पुंसा स्त्रिया दानं च न क्वचित् । जारसङ्गस्तथा नार्या न कार्योऽपि महापदि ।। १३ 

गृहीतरा आश्रमिणो ये स्युस्तैस्त्वष्टधा द्विज ! । सङ्गः स्त्रिया न कर्तव्यो मर्यादैषा सनातनी ।। १४ 

पुंसाऽथ विधवास्पर्शः पुंसः स्पर्शस्तथा तया । बुद्धया न कार्यः स्पर्शश्च त्यागिनः सधवस्त्रिया ।। १५ 

आत्मघातस्तु तीर्थेऽपि बुद्धया कार्यो न कर्हिचित् । भिन्नसन्मार्गमर्यादाच्छ्रव्या कृष्णकथा न च ।। १६ 

कृष्णप्रासादिकान्नादेर्माहात्म्येनापि कर्हिचित् । स्वजातिभ्रंशकरणं कर्तव्यं कर्म नैव च ।। १७ 

मिथ्यापवादो नारोप्योऽन्यस्मिन्स्वस्यापि वृत्तये । पापात्मनां न कर्तव्यः सङ्गो व्यसनिनां तथा ।। १८ 

तपस्वी क्रोधयुक्तो यः कृष्णभक्तश्च कामवान् । स्वधर्मस्थोऽप्यभक्तो यस्त्यागी लोभयुतश्च यः ।। १९ 

यो गुरुः शिष्यवर्गं स्वं यथाशास्त्रं न वर्तयेत् । यश्च ज्ञानी स्वयं भूत्वा भिन्द्याद्युक्तयाऽऽकृतिं हरेः ।। २० 

एतेषामपि षण्णां वै सङ्गः सन्मतिखण्डनः । असत्सङ्ग इव त्याज्यः स्वक्षेमाय मुमुक्षुभिः ।। २१ 

देवतानां च तीर्थानां वेदानां च गवामपि । ब्राह्मणानां च साधूनां निन्दा कार्या न धर्मिणाम् ।। २२ 

यत्र श्रीकृष्णदेवस्य स्यात्साकारत्वखण्डनम् । तच्छास्त्रं नैव मन्तव्यं न श्रोतव्यं च कर्हिचित् ।। २३ 

आयुधं च विषं जालं पक्षिमत्स्यादिबन्धकृत् । कस्मैचिदपि नो देयं हिंसामूलं यतोऽस्ति तत् ।। २४ 

ब्राह्मणेनाश्रमवता धार्यं नैवायुधं क्वचित् । जीवहिंसाकरं यत्तु तच्च क्व ापि न किञ्चन ।। २५ 

प्रातः स्नत्वा चोर्ध्वंपुण्ड्रं कर्तव्यं प्रतिवासरम् । कृष्णप्रसादिगन्धेन तग्दोपीचन्दनेन वा ।। २६ 

पुण्ड्रद्रव्येण तन्मध्ये पुंसा वर्तुलचन्द्रकः । राधालक्ष्मीप्रसादेन कर्तव्यः कुङ्कुमेन वा ।। २७ 

कृष्णपूजावशिष्टेन चन्दनेन सुवासिनी । नारी तु कुर्याद्धृदये चन्द्रकं प्रतिवासरम् ।। २८ 

राधापूजनशिष्टेन काश्मीरेण च सान्वहम् । मध्यदेशे ललाटस्य कुर्याद्वर्तुलचन्द्रकम् ।। २९ 

राधाकृष्णार्चावशिष्टं कुङ्कुमं चन्दनं तथा । मिश्रीकृत्याल्पकं कुर्याद्विधवा चन्द्रकं गले ।। ३० 

यथाधिकारं सन्ध्यादि ततः कृत्वैव नैत्यकम् । राधिकाकृष्णयोरर्चा सर्वैः कार्या यथाविधि ।। ३१ 

पञ्चाध्यायी रासलीला श्रीमद्बगवतोदिता । पठनीया प्रतिदिनं राधाकृष्णं समर्च्य च ।। ३२ 

समग्राया अशक्तस्तु पाठे तस्याः स एककम् । पठेत्तदन्तिमाध्यायं तावता तस्य तत्फलम् ।। ३३ 

स्वस्वशक्तयनुसारेण तन्मन्त्रस्य जपोऽन्वहम् । नियमेनैव कर्तव्यो दिवा निशि च भक्तितः ।। ३४ 

श्रीकृष्णनाममन्त्रश्च त्र्यक्षरः सकलैरपि । कीर्त्यः स्मर्यः सर्वकालं दीक्षामेतां समाश्रितैः ।। ३५ 

स्वकण्ठपरिवर्तिन्यौ तुलसीकाष्ठजे स्रजौ । यज्ञोपवीतवन्नित्यं धार्ये सूक्ष्ममणी शुभे ।। ३६ 

तुलस्यलाभे द्वे माले द्विजैश्चन्दनकाष्ठजे । धारणीयेऽथ शूद्रैस्तु नित्यं चन्दनकाष्ठजे ।। ३७ 

कृष्णांघ्रिस्पर्शनं पूर्वं कारयित्वैव मालिका । सर्वापि कण्ठे सन्धार्या पुम्भिः स्त्रीभिश्च सर्वदा ।। ३८ 

धर्मानेतान् पालयद्बिः पुम्भिः स्त्रीभिश्च नित्यदा । भक्तया नवाङ्गया कृष्णो भजनीय इति स्थितिः ।।३९

सुव्रत उवाच - 

एवं धर्मानहिंसादींस्तस्मै सर्वान्सयोषिते । उपादिश्य पुरश्चर्याविधिं चाह स मन्त्रयोः ।। ४० 

स्वधर्मज्ञानवैराग्योपेतां श्रीराधिकापतेः । अनन्यभक्तिं साङ्गां स उपादिश्येदमूचिवान् ।। ४१ 

धन्योऽसि द्विजवर्य ! त्वं श्रेयसे यतसे यतः । त्वयि सन्ति गुणा ये ते देहिनामतिदुर्लभाः ।। ४२ 

मच्छिष्याणां हि सर्वेषां मान्यो मुख्यश्च सन्मते ! । भविता त्वं यतो ज्यैष्ठयं गुणैरेवास्ति नोऽध्वनि ।।४३

गृहं गत्वा सभार्यस्त्वं महामन्त्रं जपेः सदा । उपादिशेश्चाश्रितेभ्यो यथायोग्यं मनुद्वयम् ।। ४४ 

त्रैवर्णिकेभ्यः पुम्भ्यश्च सच्छूद्रेभ्यस्तथानघ ! । सम्यगुपादिशेस्त्वं हि मनुमाद्यं यथाविधि ।। ४५ 

उत्तमेभ्योऽधिकारिभ्यो जपद्भ्यो मनुमादिमम् । पुरुषेभ्यो द्वितीयं तु विधिनोपादिशेर्मनुम् ।। ४६ 

पुरश्चर्याऽस्य कर्तव्या संकष्टादौ यथाविधि । यतोऽस्य देवता कृष्णः स प्रभुः स्वेष्टसिद्धिदः ।। ४७ 

जीवमायापरेशानां स्वरूपं बोद्धुमञ्जसा । रामानुजाचार्यकृता ग्रन्थाः पाठयास्त्वयादरात् ।। ४८ 

नैपुण्यं लक्ष्मणार्यस्य यतो ज्ञानांशनिर्णये । यथाऽस्ति न तथाऽन्येषामित्येते सम्मता मम ।। ४९ 

इत्युक्त्वा सम्प्रदायस्य रहस्यमपि सोऽखिलम् । तस्मै स्वं कथयामास स्न्ग्धिशिष्याय तत्त्वतः ।। ५०

ततस्तं स्वगृहं गन्तमादिश्य स्वयमुद्धवः । द्वारावतीमनुययौ धर्मश्चापि निजालयम् ।। ५१ 

सग्दुरुप्राप्तिपरमानन्दः सस्त्रीसुतो निजम् । ग्राममेत्याऽऽचरद्बक्तिं श्रीकृष्णस्य स भूपते ! ।। ५२ 

स्थूलादिदेहत्रितयात्पृथक्चैतन्यमाततम् । अखण्डमात्मनो रूपं मेने कृष्णस्य सेवकम् ।। ५३ 

जीवेशकालमायानां नियन्ता पुरुषस्य च । कृष्ण इत्येव निश्चित्य नश्वरं जगदित्यवैत् ।। ५४ 

ग्रन्थान् रामानुजाचार्यकृतान् गुर्वाज्ञाया स च । पपाठ गीताभाष्यादीन् पाठयामास चादरात् ।। ५५ 

श्रीकृष्णं भजतस्तस्य धर्मनिष्ठादिभिर्गुणैः । साक्षाद्धर्मोऽयमिति तं दैवा जीवा विदुर्नृप ! ।। ५६ 

ततस्तस्याश्रयं चक्रुस्ते स्वनिःश्रेयसाय हि । गुरुलक्षणहीनान्स्वान् हित्वैवासुरदेशिकान् ।। ५७ 

हित्वा गुरून्स्वान् वृषमाश्रितानामपि प्रणष्टा गुरुधीर्न तेषु ।
यद्दम्भलब्धाधिरसोच्चितेषु साऽऽप्तास्पदाऽस्थात्किल तद्वपुष्षु ।। ५८

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मकृतरामानन्दस्वामिसमाश्रयनिरूपणनामा षोडशोऽध्यायः ।। १६ ।।