सप्तदशोऽध्यायः

सुव्रत उवाच -

देवा इव व्यराजन्त येऽत्र धर्मेण दीक्षिताः । त्यक्तासुरक्रिया भूप ! वर्षापायेन्दुसन्निभाः ।। १ 

वासोन्नधनयानाद्यैः सन्मानं तस्य ते भृशम् । चक्रुर्मुहुस्तेन धर्मः समृद्धोऽभून्नृपेन्द्रवत् ।। २ 

संस्कारान् निजपुत्रस्य मौञ्जीबन्धावधि स्वयम् । चकार तेषु दानादि जनविस्मयकृच्च सः ।। ३ 

आसुर्या सम्पदा मत्तास्तद्दृष्ट्वा मनुजासुराः । सुरारिनृपसाहाय्यास्तं तदीयांस्तथाऽऽर्दयन् ।। ४ 

धर्मस्य जीविकावृत्तिं धनानि शतशश्च गाः । जहुर्यानादि चक्रुश्च बहुधा तेऽपमाननाम् ।। ५ 

दारिद्रयदुःखमतुलं प्राप्तः शत्रुकृतं महत् । धर्म इत्यपचक्रुस्तं ज्ञातयोऽपि समत्सराः ।। ६ 

प्राघूर्णिकाश्च बहुशो गृहे तस्य नराधिप ! । आगच्छन्ति स्म गच्छन्ति याचकाश्चान्नकाङ्क्षिणः ।। ७ 

प्रक्षीणधनधान्यादिर्हतवृत्तिपरिच्छदः । यथाकथञ्चित्तत्सेवां चक्रे स गृहिसम्मताम् ।। ८ 

सहमानं द्विषद्दुःखं धैर्येण महता पतिम् । एकदा प्रेमवत्याह विनीता तमुदारधीः ।। ९ 

अहो ! ! दैवगतिः स्वामिंस्तवापीदृग्दशा यतः । अपकारिण्यपि क्व ापि ह्यपकारं न कुर्वतः ।। १० 

उपद्रवो महान् जातः शात्रवो निर्निमित्तकः । जीविकापि हता यत्र सह सर्वैः परिच्छदैः ।। ११ 

आयान्त्यन्नार्थिनो भूयो वर्ततेऽन्नं त्वशेषकम् । वयं क्षुधं विसोढारो वदिष्यामोऽतिथींस्तु किम् ।। १२

द्वितीये वा तृतीयेह्नि मिलत्यावामिहाशनम् । अन्नं क्वचित्फलं क्वापि शाकपत्रं तु कुत्रचित् ।। १३ 

त्वया धैर्येण तत्सर्वं सह्यते पुरुषेण हि । अधीरायाः स्त्रिया मे तु भृशमुद्विजतेऽन्तरम् ।। १४ 

बिभेमि नाथ ! दारिद्रयात्सतीधर्मविरोधिनः । यत्सत्त्वेऽन्नादिकामा स्त्री धर्मभ्रष्टा विनश्यति ।। १५ 

अनेकशास्त्रनिष्णातः सर्वज्ञो वर्तते भवान् । अत एतत्कष्टमुक्तयै साधनं किञ्चिदूह्यताम् ।। १६ 

विपत्कालेऽतिमहति प्राप्तेऽप्यस्मिन्यथा पुरा । स्थितिः स्वस्थतया स्वामिंस्तवाश्चर्यावहास्ति नः ।। १७

इति पत्न्या मृदु प्रोक्तः स धर्मः सर्ववित्प्रभुः । प्रीणयंस्तामुवाचेदं क्लिश्यन्तीं बहुधाऽऽपदा ।। १८ 

कल्याणि ! श्रृणु मद्वाक्यं यद्ब्रुवे शास्त्रसम्मतम् । धैर्येण तीर्यते नूनमापदब्धिर्मनीषिभिः ।। १९ 

प्रारब्धकर्माधीनोऽस्ति देहो वै सर्वदेहिनः । प्राप्यते यत्सुखं दुःखं तद्धि तस्यानुसारतः ।। २० 

प्रारब्धोपस्थितं दुःखमस्माभिः प्राप्तमस्ति हि । निमित्तमात्रता तत्र सपत्नादेस्तु कीर्त्यते ।। २१ 

भोगं विना न प्रारब्धं कर्मोपायैः स्वनुष्ठितैः । कस्यापि क्षीयते नूनमिति भद्रेऽस्ति निश्चयः ।। २२ 

दुष्टप्रारब्धजनितं कृच्छ्रं भूरितरं सति ! । देवैर्नृपादिभिः पूर्वैः समर्थैरप्यभुज्यत ।। २३ 

त्रैलोक्यस्याप्यधिपतिः शच्या सह पुरन्दरः । प्राप कष्टं महद्बद्रे ! वृत्राद्यरिकृतं पुरा ।। २४ 

पुण्यश्लोकस्तथा राजा निषधानामधीश्वरः । दमयन्त्या स्त्रिया साकं प्राप भूर्यरिपीडनम् ।। २५ 

वसिष्ठर्षिररुन्धत्या सह ब्रह्मविदां वरः । शात्रवं बहुधा दुःखं विधितुल्योऽपि लब्धवान् ।। २६ 

एवं समर्थैर्बहुभिरपि प्रारब्धलम्भितम् । कष्टं धैर्येणैव सोढमस्माभिः सह्यते तथा ।। २७ 

पत्युरित्थं वचो भक्तिः श्रुत्वा खिन्नान्तरा नृप ! । अपश्यन्ती स्वदुःखान्तं गतधैर्या रुरोद सा ।। २८ 

तां सान्त्वयन् पुनर्धर्मः प्रोवाच मधुरं वचः । खेदं मा कुरु भद्रे ! त्वं कस्याप्यापन्न सर्वदा ।। २९ 

कर्मणो दुर्निवार्यत्वात्प्रारब्धस्य पुनःपुनः । हतोद्यमा अपि प्रायो धीरा नोद्योगमुज्जहुः ।। ३० 

अहं तथैव त्वत्प्रीत्यै साधनं कष्टनाशनम् । यत्किञ्चिदपि कर्तास्मि चिन्तां मनसि मा कृथाः ।। ३१ 

इत्याश्वास्य सतीं पत्नीं धर्मोऽरिभयनाशनम् । कमुपायं करोमीति चेतसाऽचिन्तयत्ततः ।। ३२ 

शीघ्रसिद्धिप्रदं नणां हृदि चिन्तयतोऽस्य तम् । स्वतातेनोपदिष्टस्य स्मृतिरासीद्धनूमतः ।। ३३ 

हनूमान्कुलदेवोऽस्ति सर्वसङ्कष्टभञ्जनः । स एवाद्याऽऽराध्य इति निश्चिकाय वृषो नृप ! ।। ३४ 

क्षेत्रं पुण्यमयोध्याख्यं जपसिद्धिप्रदं द्रुतम् । एत्य तत्र कृतावासस्तदाराधनमाचरत् ।। ३५ 

अज्ञातेहोऽसुरगणैर्हनुमन्मन्दिरेऽन्वहम् । गत्वा सम्पूज्य तन्मन्त्रात्मकं स्तोत्रं पपाठ सः ।। ३६ 

नमस्त आञ्जनेयाय वायुपुत्राय धीमते । रामदूताय महते सुग्रीवसचिवाय च ।। ३७ 

नमोऽस्तु ते महावीर ! महाबलपराक्रम ! । वैरिभीषणरूपाय रावणत्रासदायिने ।। ३८ 

नमो हरावताराय शिलावृक्षायुधाय च । रक्षःसैन्यविमर्दाय नमस्तुभ्यं यशस्विने ।। ३९ 

नमो हनुमते तुभ्यं लङ्कानगरदाहिने । दशग्रीवसुतघ्नाय सीताशोकविनाशिने ।। ४० 

नमोऽस्तु ते महयोगिन्सदा शुद्धान्तरात्मने । सीतारामातिहृद्याय नमस्ते चिरजीविने ।। ४१ 

नमः कपीन्द्र ! ते नित्यं सर्वरोगविनाशिने । भूतप्रेतपिशाचादिभयविद्रावणाभिध ! ।। ४२ 

नमस्तुभ्यं रामभद्रपुरुप्रेष्ठाय भूयसे । नमोऽतिस्थूलरूपाय सूक्ष्मरूपधराय च ।। ४३ 

नमोऽखिलभयघ्नाय निर्भयाय महात्मने । बालार्कद्युतिदेहाय मुष्टिप्रहरणाय च ।। ४४ 

नमो लङ्केश्वरोद्यानभङ्गवित्रासितास्रप ! । रामनामानुरक्ताय लक्ष्मणप्राणदाय ते ।। ४५ 

नमस्ते विश्ववन्द्याय विजयाय वरीयसे । भक्तसङ्कष्टसंहर्त्रे धर्मनिष्ठाय जिष्णवे ।। ४६ 

नमो नैष्ठिकवर्याय विजनारण्यवासिने । भक्ताभीष्टप्रदात्रे च पाण्डवप्रियकारिणे ।। ४७ 

नमो धर्मारिनाशाय विमलाय च भास्वते । नित्यं रामायणकथाश्रवणोत्सुकचेतसे ।। ४८ 

नमो धार्मिकसेव्याय ब्रह्मण्याय सुरार्चित ! । तुभ्यं बृहद्व्रतप्रेष्ठ ! सर्वपापापहारिणे ।। ४९ 

नमो दारिद्रदुःखघ्न ! मारुते ! बन्धखण्डन ! । सुखदाय शरण्याय नमस्ते ऋषिवृत्तये ।। ५० 

नमो वरद ! ते नित्यं रामध्यानाद्यनाकुल ! । सुखाराध्य ! दुराराध्य ! नमस्ते दिव्यरूपिणे ।। ५१

नमोऽर्कसूनहाराय तुभ्यं मामभयं कुरु । दर्शनं देहि साक्षात्ते नमस्ते सर्वदर्शिने ।। ५२ 

इति श्रीहनुमत्स्तोत्रप्रतिश्लोकैकवर्णकम् । स्वाहाफडन्तमजपन्मन्त्रं स तु यथाविधि ।। ५३ 

जपान्ते प्रत्यहं स्तोत्रं बद्धाञ्जलिरिदं नृप ! । एककेन पदा तिष्ठन्पुरतस्तस्य सोऽपठत् ।। ५४ 

नीतिप्रवीण ! निगमागमशास्त्रबुद्धे ! राजाधिराजरघुनायकमन्त्रिवर्य ! ।
सिन्दूरचर्चितकलेवर ! नैष्ठिकेन्द्र ! श्रीरामदूत ! हनुमन् ! हर सङ्कटं मे ।। ५५

सीतापहारजरघूत्तमभूरिकष्टप्रोत्सारणैककसहाय ! हतास्रपौघ ! ।
निर्दग्धयातुपतिहाटकराजधाने! श्रीरामदूत! हनुमन्! हर सङ्कटं मे ।। ५६ 

दुर्वार्यरावणविसर्जितशक्तिघातकण्ठा सुलक्ष्मणसुखाहृतजीववल्लेे ! ।
द्रोणाचलानयननन्दितरामपक्ष! श्रीरामदूत! हनुमन्! हर सङ्कटं मे ।। ५७ 

रामागमोक्तितरितारितबन्ध्वयोग दुःखाब्धिमग्नभरतार्पितपारिबर्ह ! ।
रामाङ्घ्रिपद्ममधुपीभवदन्तरात्मन्! श्रीरामदूत! हनुमन्! हर सङ्कटं मे ।। ५८

दान्तात्मकेसरिमहाकपिराट्तदीय भार्याञ्जनीपुरुतपःफलपुत्रभाव ! ।
तार्क्ष्योपमोचितवपुर्बलतीव्रवेग ! श्रीरामदूत ! हनुमन् ! हर सङ्कटं मे ।। ५९ 

नानाभिचारिकविसृष्टसवीरकृत्या विद्रावणारुणसमीक्षणदुःप्रधर्ष्य ! ।
रोगघ्नसत्सुतदवित्तदमन्त्रजाप ! श्रीरामदूत ! हनुमन् ! हर सङ्कटं मे ।। ६० 

यन्नामधेयपदकश्रुतिमात्रतोऽपि ये ब्रह्मराक्षसपिशाचगणाश्च भूताः ।
ते मारिकाश्च सभयं ह्यपयान्ति स त्वं! श्रीरामदूत! हनुमन्! हर सङ्कटं मे ६१

त्वं भक्तमानससमीप्सितपूर्तिशक्तो रङ्कस्य दुर्मदसपत्नभयार्तिभाजः ।
इष्टं ममापि परिपूरय पूर्णकाम ! श्रीरामदूत ! हनुमन् ! हर सङ्कटं मे ।। ६२ 

इत्यनेन स तुष्टाव सर्वसङ्कष्टहारिणा । स्तोत्रेण मारुतिं धर्मः प्रत्यहं नियतव्रतः ।। ६३ 

फलकन्ददलाहारः शाकमात्राशनः क्वचित् । जलाहारो निराहारः सोऽवर्तत सह स्त्रिया ।। ६४ 

तस्मै द्वितीयमासान्ते स्वप्नमागत्य मारुतिः । साक्षात्स्वदर्शनं प्रादात्प्रीतात्मेत्थमुवाच च ।। ६५ 

धर्म ! तुभ्यं प्रसन्नोऽस्मि कष्टात्त्वं मोक्ष्यसे द्रुतम् । याहि वृन्दावनं तत्र लब्धा प्राङ्मित्रसङ्गमम् ।। ६६ 

सखिभिः सह सङ्गत्य स्वसमानासुरार्दनैः । मरीचिप्रमुखैर्विप्र ! प्राप्स्यसे सुखमीप्सितम् ।। ६७ 

इत्युक्त्वान्तर्धिमापेदे मारुतिः सोऽथ हर्षितः । जजागार च तत्स्वाप्नं वृत्तं तथ्यममन्यत ।। ६८ 

समाप्य स्वव्रतं प्रातः पुत्रं मातुलवेश्मनि । विन्यस्य भार्यया साकं वनं वृन्दावनं ययौ ।। ६९ 

असुरानुगतेर्भीतौ प्रच्छन्नं निर्गतौ गृहात् । असहायावपाथेयौ चेलतुः सभयं पथि ।। ७० 

स्थूलस्यूतजरद्वस्त्रौ कृशाङ्गौ मधुभाषिणौ । पितरौ तौ च जगतां नैमिषारण्यमीयतुः ।। ७१ 

दशमेऽहनि सम्प्राप्तौ क्षेत्रं तत्तत्र तैर्थिकम् । विधिं विदधतुः शक्तया दम्पती धैर्यशालिनौ ।। ७२ 

स्मरन्तौ हृदये कृष्णं वृन्दावनविहारिणम् । अयाचितव्रतौ नित्यं ततो व्रजमुपेयतुः ।। ७३ 

पुष्पदोलोत्सवं द्रष्टुं व्रजतां सङ्घशो नृणाम् । पथि सङ्गं न चक्राते तग्दतासुरशङ्कया ।। ७४ 

मासेनैकेन शनकैर्व्रजन् धर्मः सहस्त्रिया । पुण्यं वृन्दावनं प्राप दोलोत्सवदिने नृपः ! ।। ७५ 

देशान्तरीयजनसङ्घसमर्च्यमानं गोवर्धने कुसुमदोलगतं स कृष्णम् ।
सम्पूज्य वीक्ष्य च तदीयविचित्रशोभां चक्रे प्रदक्षिणममुं विधिनैव धर्मः ।। ७६ 

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
भक्तिधर्मयोर्वृन्दावनागमननामा सप्तदशोऽध्यायः ।।१७।।