अष्टादशोऽध्यायः

सुव्रत उवाच -


पुष्पदोलोत्सवं द्रष्टुं जनास्तत्र सहस्रशः । देशान्तरेभ्य आयाता आसन्भूप ! सयोषितः ।। १ 

शापाद्दुर्वाससो भूमौ ये जाता मुनयो नृषु । भ्रमन्तस्तेऽपि तत्रायन्नसुरैर्बहुधार्दिताः ।। २ 

प्राप्ता जातिस्मृतिं कृष्णेच्छया ज्ञातपरस्पराः । जनैरज्ञाततत्त्वाश्च दैवादेकत्र सङ्गताः ।। ३ 

गिरेः प्रदक्षिणां कुर्वंस्तान् परिक्रामतः पथि । लक्षणैर्बुबुधे धर्मस्ते च तं मानुषाकृतिम् ।। ४ 

परस्परं मिलित्वा ते स्वस्ववृत्तान्तमादितः । कथयामासुरखिलं कष्टं चासुरयूथजम् ।। ५ 

मुनिकृच्छ्रेक्षया धर्मो धर्मकृच्छ्रेक्षया द्विजाः । अव्यथन्ताथ मुनयो धर्मं प्राहुरिदं वचः ।। ६ 

रौद्रं रौद्रस्य शापेन कृच्छ्रमाप्तमिहासुरम् । अस्माभिरथ तस्यान्तस्तदुक्तो द्रक्ष्यते कदा ।। ७ 

धर्मस्तानाह तद्वाक्यं नान्यथा भविता द्विजाः ! । अतो धैर्येण सोढव्यं कृच्छ्रं कृष्णेक्षणावधि ।। ८ 

कार्योऽस्माभिरुपायोऽत्र कृष्णाराधनलक्षणः । येन तुष्टः स्वयं कृष्णः साक्षाद्दद्यात्स्वदर्शनम् ।। ९ 

अहं कृष्णाष्टाक्षरस्य पुरश्चर्यां विधानतः । करिष्यामि तदङ्गानि यूयमप्यनुतिष्ठत ।। १० 

निशम्येत्थं धर्मवचो मुनयस्ते प्रहर्षिताः । एतदेवं हि कर्तव्यमिति व्यवसिता नृप ! ।। ११ 

तपस्यस्य द्वितीयायां कृष्णायामथ ते व्यधुः । प्रारम्भं विष्णुयागस्य गुरोर्वारे च हस्तभे ।। १२ 

यजमानस्तत्र पूर्वं समारेभे स्वयं वृषः । कृष्णमन्त्रपुरश्चर्यां यथाशक्ति यथाविधि ।। १३ 

श्रीमद्बागवतं केचित्पुराणं पेठुरादरात् । पुरश्चर्याविधानेन वासरैः सप्तसप्तभिः ।। १४ 

भारते भगवग्दीता याऽस्ति तां केचनापठन् । श्रीवासुदेवमाहात्म्यं पठन्ति स्म च केचन ।। १५ 

विष्णोर्नामसहस्राख्यं स्तोत्रं पेठुश्च केचन । कतिचिद्विष्णुगायत्रीं जपन्ति स्म यथाविधि ।। १६ 

श्रीनारायणवर्मैके पेठुर्विप्रा उदङ्मुखाः । नामस्मरणमात्रं च केचित्कृष्णस्य चक्रिरे ।। १७ 

श्रीमद्बागवतस्थां च रासलीलोपवर्णनाम् । पञ्चाध्यायीं दृढमतिर्नित्यं भक्तिः पपाठ च ।। १८ 

निशि सुप्तेऽखिलजने गीतगोविन्दगायनम् । वीणामृदङ्गादियुतं सर्वे संहत्य चक्रिरे ।। १९ 

एवं समाराधयतां कृष्णं तेषां यतात्मनाम् । वैशाखस्य सिता प्राप्ता मोहिन्येकादशी नृप ! ।। २० 

तपःकृशतराङ्गेषु तेष्वापन्नेष्वथ प्रभुः । प्रीतः करुणया कृष्णो ददौ साक्षात्स्वदर्शनम् ।। २१ 

अखण्डरासलीलायां गोलोके यादृशः स्वयम् । तादृशोऽदृश्यत तदा स वृन्दावनचन्द्रमाः ।। २२ 

श्रीकृष्णस्य महापूजां कृत्वा तन्निशि जाग्रतः । ब्राह्मे मुहूर्ते ददृशुः सहसा ते सितं महः ।। २३ 

कोटिकोटीन्दुसूर्याभे सच्चिदानन्दलक्षणे । तस्मिंस्ते ददृशुः कृष्णं सर्वे महसि भूयसि ।। २४ 

नूतनाम्बुधरसुन्दरमूर्ति तेजसाऽतिमहता सितभासम् ।
कोटिमन्मथविमोहनरूपं वह्निधौतकनकप्रभवस्त्रम् ।। २५ 

पाणिपद्मयुगलेन च वेणुं सन्निधाय रुचिराधरबिम्बे ।
वादयन्तमुरुधा स्वरभेदैः शोभनं नटवरोचितवेषम् ।। २६ 

नैकरत्नततिचित्रकिरीटं मीनराजसमकुण्डलशोभम् ।
स्थूलवृत्तसममौक्तिकमालं चारुगन्धकुसुमोत्तमहारम् ।। २७ 

भालकैसरविशेषककान्तं लम्बमानसुमशेखरराजिम् ।
हेमरत्नमयभूरिविभूषं पूर्णशारदसुधांशुसमास्यम् ।। २८

शारदाभिनवजन्मविनिद्राम्भोरुहच्छदसमायतनेत्रम् ।
सूक्ष्मवक्त्रमृदुमेचककेशं दर्शनीयनिखिलावयवाभम् ।। २९ 

भैष्मीराधालक्ष्मणासत्यभामा सत्याभद्राजाम्बवत्यादिभिश्च ।
स्त्रीभिः प्रेम्णा पूज्यमानांघ्रिपद्मं दृष्टया तासामाददानं मनांसि ।। ३०

नन्देन रामेण यशोदया च पत्या समं देवककन्ययाऽपि ।
नन्दासुभद्रासुरभीमुखाभिर्गोभिश्च सस्न्ेहमुदीक्ष्यमाणम् ।। ३१ 

श्रृङ्गारिकद्रव्यकरैरनेकैर्गोपाङ्गनानामभितश्च यूथैः ।
प्रीत्येक्ष्यमाणाननपद्मराजन्मितस्मितानन्दितभक्तलोकम् ।। ३२ 

तं दृष्ट्वा परमानन्दं प्राप्तास्ते तु सविस्मयम् । प्रणम्य दण्डवद्बूमौ बद्धाञ्जलिपुटाः स्थिताः ।। ३३ 

मूर्तौ भगवतस्तेषामिन्द्रियाणां तु वृत्तयः । कृष्टास्तस्थुस्ततो जातास्ते काष्ठप्रतिमा इव ।। ३४ 

कृष्णेच्छयेत्थं तु मुहूर्तमेव ते तस्थुस्तयैवाथ पुनर्वपुःस्मृतिम् ।
प्रापुस्ततस्तस्य पुरःस्थितो वृषस्तुष्टाव साकं मुनिभिस्तमीश्वरम् ।। ३५

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे विष्णुयागाराधितश्रीकृष्णदर्शनानन्दनिरूपणनामाऽष्टादशोऽध्यायः ।।१८।।