एकोनविंशोऽध्याय

धर्म उवाच -

भगवंस्तव दर्शनं नृणामखिलाघौघविनाशनक्षमम् ।
प्रतिलब्धमिहाद्य चापदामखिलानामपि वारणं लघु ।। १ 

त्वमसि प्रभविष्णुरीशिता जगतामादिरनादिबन्धहृत् ।
क्षरतोऽक्षरतस्तथा परो ननु कर्ता पुरुषोत्तमः प्रभो ! ।। २ 

तव धाम मतं परात्परं बृहदेवाक्षरमव्ययं सदा ।
अतितेजसि तत्र राजसे सकलैश्वर्यपुरोगशक्तिभिः ।। ३ 

समकारण ! वासुदेवमुख्यप्रथितव्यूहमवपुर्धरस्त्वमेव ।
सकलैरपि सात्त्वतैरभिज्ञौर्विधिना तन्त्रमयेन पूज्यसे वै ।। ४ 

जगतो जननं च पालनं हरणं चापि करोषि हीश्वरः ।
विधिविष्णुहराकृतीर्दधन्निगमादिप्रतिपादितश्रवाः ।। ५ 

तनुतां भुवि धर्मवर्त्मनि पृथुलाधर्मपथैरुपागते ।
अवितुं तदिह प्रजायसे बहुधा साधुसुरांश्च भूतले ।। ६ 

तिमिरूपधृता समाहृता निगमाः प्राग्भवतादिदैत्यतः ।
कमठाकृतिना तथा दधे निजपृष्ठे ननु मन्दराचलः ।। ७ 

क्षितिरुन्निदधेऽग्रदंष्ट्रया भवता सूकररूपिणाम्बुधेः ।
नरसिंहवपुर्धृता तथा निहतो दैत्यपतिर्जितान्तकः ।। ८ 

छलितश्च बलिस्त्वया हरे ! वपुषा वामनकेन कौतुकात् ।
धरणीं व्यधितानृपान्वयां जमदग्नेस्तनयो भवान् भवन् ।। ९ 

हतवानसि राघवः पुरा बलिनं कौणपयूथपाधिपम् ।
जनरावणमीश ! रावणं विहिताम्भोनिधिसेतुबन्धनः ।। १० 

मधोः पुरि प्राग्वसुदेवदेवकीसुतत्वमेत्य व्रजमागतोऽस्यथ ।
गोगोपगोपीव्रजभूरिदुर्व्यथां हरन्व्यहार्षीर्यमुनातटेऽत्र च ।। ११ 

निहत्य कंसप्रहिताननेकान् दैत्यांश्च गोपीजनवल्लभस्त्वम् ।
गत्वा पुनर्जन्मभुवं जघन्थ साधुद्रुहं मातुलमौग्रसेनिम् ।। १२ 

द्वारावतीमेत्य रमामुखाः स्त्रीरुदूह्य चाविष्कृतभूरिरूपः ।
भूभारभूतानसुरान् वृषद्रुहो हत्वाऽऽद्यधर्मं प्रथयाश्चकर्थ ।। १३ 

नरेण साकं च गजाह्वयादौ क्रीडन् निजप्रेष्ठतमेन भूमन् ! ।
पाण्डोः सुतानामपि सप्रियाणां चकर्थ नाथ! प्रियमीश्वरस्त्वम् ।। १४

कृतवानसि दैत्यमोहनं ननु बुद्धोऽथ विधास्यते त्वया ।
हननं च दुरात्मनां कलेरवसाने भुवि कल्किना प्रभो ! ।। १५ 

त्वया हियन्ते निजसेवकानामापग्दणा ! नाथ ! मुहुर्धरायाम् ।
ब्रह्मण्यदेवोऽसि सदा स्वतन्त्रः कारुण्यमस्मासु विधेह्यतोऽद्य ।। १६


सुव्रत उवाच -

इति संस्तूय मुनिभिः सह श्रीपुरुषोत्तमम् । देवशर्माऽभवत्तूष्णीमानन्दाश्रुप्लुतेक्षणः ।। १७ 

अथ कृष्णं तमालोक्य प्रत्यक्षं दिव्यविग्रहम् । बद्धाञ्जलिपुटा भक्तिः प्रणनाम मुदा प्रभुम् ।। १८ 

स्मरन्ती भक्तवश्यत्वं तस्य वृन्दावने प्रभोः । गिरा गग्ददयाऽस्तौषीद्धृष्टरोमाऽश्रुपूर्णदृक् ।। १९ 


भक्तिरुवाच -

आनन्दमानन्दकरं दयालुं वन्दारुमन्दारपदारविन्दम् ।
तं नन्दगोपस्य च नन्दनं त्वां वन्दे सदानन्दितभक्तवृन्दम् ।। २० 

मुकुन्दमानन्दनिधिं वदन्तं नन्दालये काकलिकाममन्दम् ।
हैयङ्गवीनं गमयाम्ब ! मेति वन्दे यशोदाङ्कगतं बृहत्त्वाम् ।। २१ 

उलूखलेयो नवनीतचौर्ये यशोदया कोपितया बबन्धे ।
दरत्रपानम्रमुखोऽश्रुनेत्रस्तं त्वां भजे भीतदृगीक्षिताम्बम् ।। २२ 

यः स्तोभितोऽगायत गोपिकाभिर्ननर्त भूयो बिभराम्बभूव ।
उन्मानकं पीठकपादुके तं वन्दे क्षिपन्तं च भुजौ तदग्रे ।। २३ 

गोपालबालैः कृतखेलनाय गोवत्ससञ्चारणतत्पराय ।
वंशीरवानन्दितगोकुलाय नमोऽस्तु ते नर्तितमर्कटाय ।। २४ 

वृन्दावने गोधनचारणाय गोवर्धनेनावितगोकुलाय ।
कृष्णाय गोपीजनवल्लभाय नमोऽस्तु राधारमणाय तुभ्यम् ।। २५ 

स्वेक्षोद्धृतानेकचराचराय जिघांसुदैतेयविमुक्तिदाय ।
अघौघसद्यःक्षयकारिनाम्ने तुभ्यं नमः स्कन्धविलम्बिदाम्ने ।। २६ 

वृन्दावने पूर्णशशाङ्करम्ये निशासु सर्वास्वपि शारदीषु ।
योऽरीरमग्दोपवधूरनेकास्तावद्वपुस्तं प्रणमाम्यहं त्वाम् ।। २७ 

ब्रह्मेशेन्द्रशशाङ्कगीष्पतिमुखब्रह्मर्षिजेतृत्वतः ।
कामं वाममखर्वगर्वनिभृतं रासोत्सवे सङ्गतम् ।।
क्रीडां वल्लववल्लभाभिरभितः शृङ्गारशास्त्रोदितां ।
कुर्वन्नेव जिगेथ नाथ ! शरणं प्राप्ताऽस्मि तं त्वामहम् ।। २८

सुव्रत उवाच -

इति स्तुत्वा च तं नत्वा व्यरमत्प्रेमवत्यपि । तानाह भगवान् भक्तास्तुष्टान्मद्वृणुतेप्सितम् ।। २९ 

धर्मस्तमूचे भगवन्नसुरैर्मनुजच्छलैः । उपद्रुता भृशं सर्वे वयं त्वां शरणं गताः ।। ३० 

तेभ्यस्तत्कृतदारिद्रयाद्बीतानस्मांस्त्वमेव हि । पातुमेकः समर्थोऽसि ततः पालय केशव ! ।। ३१ 

इति ब्रुवन्तं श्रीकृष्णो बद्धाञ्जलिपुटं वृषम् । उवाच धर्म ! मा भैष्ट यूयं दुष्टासुरौघतः ।। ३२ 

असुराः सर्व एवैते सन्ति युष्मत्प्रपीडकाः । मयि पूर्वं बद्धवैरा मत्परा भवकामुकाः ।। ३३ 

युष्मान्मदीयान्विज्ञाय पीडयन्ति विशेषतः । उपद्रवन्ति देवांश्च सुरामांसनिवेदनैः ।। ३४ 

भारभूता भुवो ह्येते मदन्येन तु केनचित् । न विनाशयितुं शक्या दम्भच्छादितदुष्क्रियाः ।। ३५ 

अतोऽहमेव पुत्रत्वं दम्पत्योर्युवयोर्वृष ! । प्राप्य तन्निग्रहं सम्यक्करिष्यामि न संशयः ।। ३६ 

साकं भवद्बिर्मुनिना शप्तोऽस्मि बदरीवने । दुर्वास साहमपि तद्बविष्यामि नराकृतिः ।। ३७ 

सपत्नीकस्य ते तेभ्यो मुनीनां चामृतान्धसाम् । कर्तास्मि रक्षणं भद्र ! हरिनाम्नाऽत्रविश्रुतः ।। ३८ 

एतैः साकं यथा भक्तैर्विहराम्यत्र सर्वदा । तथैव सह युष्माभी रंस्ये सोऽहं चरन् भुवि ।। ३९ 

नाशमेष्यति दारिद्रयमद्यारभ्य तवानघ ! । धनधान्यादिसम्पच्च भाव्या ते पूर्वतोऽधिका ।। ४० 

शापाद्दुर्वाससो युष्मान्मोचयिष्यामि च द्रुतम् । धर्ममेकान्तिकं क्षीणं प्रथयिष्यामि सर्वथा ।। ४१ 

मन्मन्त्रस्य जपं येऽत्र करिष्यन्ति भवानिव । पाठं च श्रीभागवतपुराणादेर्विधानतः ।। ४२ 

तेषां मनोरथः सर्वः सिद्धिं प्राप्स्यति निश्चितः । देहान्ते धाम परमं मम प्राप्स्यन्ति ते ध्रुवम् ।। ४३

श्वेतद्वीपे च वैकुण्ठे गोलोके धाम्नि ये मम । ऐश्वर्यभोगास्तान्सर्वान्प्राप्स्यन्त्येव हि ते ध्रुवान् ।। ४४

इति वृषमभिधाय सर्षिवृन्दं कृतकरुणोऽत्र तिरोदधे स कृष्णः ।
प्रमुदित ऋषिभिः सहाथ धर्मो व्रतविधिमाशु समापयांबभूव ।। ४५

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मादिकृतश्रीकृष्णस्तुतिवरप्रदाननिरूपणनामैकोनविंशोऽध्यायः ।।१९।।