विंशोऽध्यायः

सुव्रत उवाच -

जपात्मकं विष्णुयागं यथाशक्ति समाप्य ते । विदधुः पारणां भूप ! कृष्णेक्षणमहामुदः ।। १ 

ततस्ते संविदं चक्रुः स्थित्वैकत्र परस्परम् । कस्याप्यग्रे कदाप्येतद्वृत्तं वाच्यं न नस्त्विति ।। २ 

प्रादुर्भूते तु कृष्णेऽत्र गोप्तुं शक्येत केन तत् । तदा तु कापि नैवास्ति चिन्ता यत्सोऽस्त्यधीश्वरः ।।३

विधायेत्थं संविदं ते मिलित्वा च परस्परम् । नमस्कृत्य च सर्वेऽपि स्वं स्वं स्थानं ततो ययुः ।।४

महर्षीणां च धर्मस्य पूर्वजन्मस्मृतिस्त्विह । आसीत्क्वचित्क्वचिद्राजन्न तु नित्यं हरीच्छया ।। ५ 

धर्मः सभार्यः सम्प्रीतः सम्पूर्णस्वमनोरथः । गच्छन्स्वग्राममापेदे पुनस्तन्नैमिषं वनम् ।। ६ 

तत्रारण्ये चरन्तौ तौ वृक्षजालसमाकुले । आगच्छतोऽसुरान् कांश्चिद्दृष्ट्वा तां जहतुः सृतिम् ।। ७ 

महामार्गस्मृतिर्नष्टा प्रान्तरे भ्रमतोस्तयोः । इयाय भानुमानस्तं ग्रामः प्राप्तो न कश्चन ।। ८ 

निषेदतुस्तौ तत्रैव क्वयावो ध्वान्त इत्युभौ । युक्तौ धैर्येण महता क्षुधितौ तृषितौ नृप ! ।। ९ 

तौ तत्र दैवादुपयातमेकमपश्यतां कञ्चन मेघनीलम् ।
तपस्विनं नक्तविवृत्तनेत्रं जटाधरं रौद्रवपुःकरालम् ।। १० 

खल्वाटशीर्षं धृतवर्णिवेषं तं सिद्ध एवायमिति प्रणम्य ।
बद्धाञ्जलिस्तत्पुरतः स तस्थौ धर्मस्तमूचे वचनं तपस्वी ।। ११ 

कस्त्वं सभार्यो भ्रमसि प्रदोषे दुर्गेऽपि कान्तार इहासि धीरः ।
यथावदेतत्कथयाऽऽशु सर्वमितीरितस्तेन जगाद धर्मः ।। १२ 

विप्रोऽस्म्यहं कोसलदेशजन्मा देवाभिधो वैरिभयातिखिन्नः ।
भृशं दरिद्रश्च विहातगेहो वृन्दावनं क्षेत्रमगां हि वर्णिन् ! ।। १३ 

आराध्य कृष्णं जपविष्णुयागविधानतः प्राप्य वरं च तस्मात् ।
व्रजन् गृहं दैववशाच्च्युताध्वा भ्रमन् भवन्तं मुदितोऽस्मि दृष्ट्वा ।। १४

कृष्णाभिधानश्रवणोत्थमन्युर्भूयः स वर्णी तमुवाच धर्मम् ।
कृष्णाद्वरः को भवताऽऽप्त एतद्ब्रूहीत्यथोवाच तपस्विनं सः ।। १५

कृष्णं प्रसन्नं प्रति सर्वमुक्तं मयाऽऽत्मदुःखं विहितं सपत्नैः ।
तदा स मामाह तवारयस्तु सन्ति क्षमायामसुरा हि सर्वे ।। १६ 

तिष्यावतारस्य सुयोधनस्य साहाय्यकर्तार इमे पुराऽऽसन् ।
भीमार्जुनाद्यैर्युधि तेषु केचिद्धता मया केऽपि बलेन चान्ये ।। १७ 

तत्रापि ये वैरधिया मदीयं सम्बन्धमापुर्भुवि वीक्षणादिम् ।
प्रपेदिरे ते तु निजेष्टमुक्तिं दैत्यास्तथा दानवराक्षसाश्च ।। १८ 

मृताश्च ये वैषयिके सुखेऽत्र निबद्धतर्षा दृढवासनाश्च ।
मद्वैरभाजः खलु तेऽद्यजाताः सन्ति क्षमायामसुराः पुनश्च ।। १९ 

त्वां धर्मनिष्ठं ननु धर्ममेव विदन्त एते च मदीयरूपम् ।
मद्वैरनिर्यातनभूरिकामा रुजन्ति चान्यानपि मामकीनान् ।। २० 

तवैव पुत्रत्वमुपेत्य तस्मात्तान्नाशयिष्यामि किलामरारीन् ।
वरं प्रदायेत्थमभूत्तिरोऽसावहं व्रजन् स्वालयमागतोऽत्र ।। २१ 


सुव्रत उवाच -

कृष्णोत्कर्षमयीमित्थं स्वापकर्षोपलक्षणाम् । श्रुत्वा धर्मगिरं सोऽभूदतिकोपाकुलो नृप ! ।। २२ 

दहन्निव दृशा धर्ममधरं च रदैर्दशन् । उवाच विप्र ! पुत्रस्ते स कृष्णो भविता ध्रुवम् ।। २३ 

तस्य सर्वान् गुणान्दोषानद्याहं वेद्मि नापरः । अस्मत्प्रियस्याप्रियकृत्स दुर्योधनभूभुजः ।। २४ 

मह्यं तेन महद्दुःखं पार्थसारथिना ददे । दुर्योधनसखं मां तु विद्धयश्वत्थामसंज्ञिातम् ।। २५ 

मत्प्रियासुरसङ्घस्य प्रीतयेऽतो मया द्विज ! । शाप उत्सृज्यते पूर्ववैरनिर्यातनाय वै ।। २६ 

स ते पुत्रो न शक्नोतु शस्त्रं धारयितुं क्वचित् । विना येन भवेन्नैव निजवैरिविनाशनम् ।। २७ 

शूरो महानपि पुमान्नीतिशास्त्रार्थवेद्यपि । विना शस्त्रं शत्रुवधे क्षमते न कदाचन ।। २८ 

उल्लङ्घय स तु मद्वाक्यं धारयिष्यति कर्हिचित् । शस्त्रं चेत् प्राप्स्यति तदा स्ववैरिभ्यः पराभवम् । २९

शप्त्वेत्थमभवद्द्रौणिरदृश्योऽथ द्विजौ वने । तच्छापचिन्तया खेदं प्राप्नुतः स्म भृशं नृप ! ।। ३० 

अपारविपदम्भोधौ मग्नयोरसहाययोः । कृष्णेच्छालब्धमेकं हि धैर्यं तरणितां ययौ ।। ३१ 

स्त्रीस्वभावात्खिद्यमानां धर्मः प्रेमवतीं तदा । उवाच भद्रे ! सिद्धं नः कार्यं दैवेन विघ्नितम् ।। ३२ 

सर्वविघ्ननिवृत्त्यर्थं व्रतं गणपतेः सति ! । प्रोक्तमस्ति पुराणेषु स्वमनोरथसिद्धिदम् ।। ३३ 

वैवाहिकोत्सवान्ते चाप्यावयोः स्वपुरं व्रजन् । एतद्व्रतं कार्यमिति मत्पिताप्यादिदेश माम् ।। ३४ 

श्रीकृष्णस्यावतारो हि प्रोक्तोऽस्ति गणनायकः । अतस्तस्य व्रतं नणां सर्वसङ्कष्टनाशनम् ।। ३५ 

भाद्रशुक्लचतुर्थ्यां तत्करिष्यावोऽनुवत्सरम् । तेन तुष्टः सः विघ्नेभ्यो रक्षणं नौ करिष्यति ।। ३६ 

एवं तौ नियमं विप्रौ मनसा चक्रतुर्नृप ! । भक्तिमूचे पुनर्धर्मो दुःखशोकहरं वचः ।। ३७ 

दुःखमेतादृशं भूमावावाभ्यामेव सुन्दरि ! । प्राप्तमित्येव मा मंस्था यतो दुःखमयं जगत् ।। ३८ 

पुरा श्रीरामचन्द्रेण सह पत्न्या च बन्धुना । भुक्तमीशेनापि दुःखं वनवासवता भृशम् ।। ३९ 

इत्युक्त्वाऽकथयत्तस्यै श्रीरामचरितं वृषः । हनुमन्महिमोपेतं निशो यामास्त्रयो गताः ।। ४० 

श्रृण्वती सा तत्र तत्र साहाय्यं जानकीपतेः । मुहुः कृतं हनुमता चिन्तयामास चेतसि ।। ४१ 

अहो नः कुलदेवोऽस्ति हनुमान् रामवल्लभः । उपेक्षते सोऽपि कथं समर्थोऽस्मान्महापदि ।। ४२ 

हनूमन् ! रक्ष रक्षेति यावद्वदति सा गिरम् । तावत्प्रत्यक्षतां प्राप मारुतिर्विप्ररूपधृत् ।। ४३ 

स हि रामकथां रात्रौ कीर्त्यमानां स्त्रियं प्रति । धर्मेण श्रोतुमायातस्तत्रादृश्यो जनैः स्थितः ।। ४४ 

प्रत्यक्षीभूय तौ प्राह भक्ते ! धर्म ! व्यथां त्यज । कुलदेवोऽस्मि हनुमान् युष्माकं रक्षिताऽस्मि वः ।। ४५

द्रौणेः शापेन वां पुत्रो धारयिष्यति नायुधम् । तथापि जेतुं त्रैलोक्यं शक्तो भाव्यः स वै धिया ।। ४६ 

भविता सत्वशस्त्रोऽपि सदा वैरिभयोज्झितः । दारिद्रयदुःखमपि ते नाशयिष्यति निश्चितम् ।। ४७ 

इत्युक्त्वा तौ महामार्गं प्रापय्याश्चर्यमानसौ । तिरोबभूव हनुमांस्तौ ततो गन्तुमैच्छताम् ।। ४८ 

तत आरभ्य तावास्तां गतसर्वव्यथौ नृप ! । प्राप्यमाणान्नवस्त्राद्यौ निश्चिन्तौ स्वस्थमानसौ ।। ४९ 

महामार्गेण चलितौ पूर्वदृष्टेन निर्भयौ । चिन्तयन्तौ च हृदये श्रीकृष्णं भक्तवत्सलम् ।। ५० 

प्रीणयन्ती पतिं वाक्यैः प्रेम्णा प्रेमवती पथि । वृत्तं हनूमतोऽप्राक्षीच्चिरजीवित्वलेक्षणम् ।। ५१ 

निशम्य च निशाम्यापि प्रभावं श्रीहनूमतः । आनन्दः परमो नाथ ! जायते मम चेतसि ।। ५२ 

चिरन्जीवी कथं जातः स्वामिन् ! पवननन्दनः । दिवं विहाय भूलोके स्थितो नित्यं करोति किम् । ५३

इति प्रीत्या प्रेमवत्याऽऽपृष्टो धर्म उवाच ताम् । हनूमांश्चिरजीव्यस्ति सीतारामप्रसादतः ।। ५४ 

निहत्य रावणं युद्धे स्वसैन्यपरिवारितः । एत्यायोध्यां नृपपदमध्यतिष्ठत् स राघवः ।। ५५ 

वानरा राक्षसा ऋक्षादिव्यरूपधराः सति ! । तद्वियोगासहास्तत्र न्यवसन्नेकहायनम् ।। ५६ 

तं छत्रचामराद्यैस्ते सेवमाना दिने दिने । प्रेमवृद्धिं परां प्रापुर्विस्मृताखिललौकिकाः ।। ५७ 

स्वस्वगृहान्प्रेषयिष्यन्नयातः स्वाग्रतोऽपि तान् । तत्सन्मानं प्रभुश्चक्रे वस्त्रभूषाधनादिभिः ।। ५८ 

यथोचितं मानयित्वा सुग्रीवादीन्स वानरान् । किष्किन्धां प्रेषयामास साश्रुनेत्रान्बलाद्विभुः ।। ५९ 

तदा गमिष्यन् हनुमान्स्रवत्प्रेमाश्रुलोचनः । परित्यक्तुमशक्तस्तं बद्धाञ्जलिपुटोऽब्रवीत् ।। ६० 

स्न्ेहो मे परमः स्वामिंस्त्वयि तिष्ठतु नित्यदा । भक्तिश्च नियता वीर ! भावो नान्यत्र गच्छतु ।। ६१ 

यावत्तव कथा राम ! प्रचरिष्यति भूतले । तावत्ताः सर्वदा श्रृण्वन् जीवाम्यत्रेति मे रुचिः ।। ६२ 

स्थितं किम्पुरुषे खण्डे गन्धर्वा अपि मां सदा । श्रावयेयुः कथा राम ! तवेति मम याचितम् ।। ६३ 

त्वत्कथामृतपानेच्छा यथा मे हृदि वर्तते । तथा न दिव्यलोकेच्छा नैश्वर्येच्छा च निश्चितम् ।। ६४ 

एवं ब्रुवाणं रामस्तु हनुमन्तं वरासनात् । उत्थाय सस्वजे स्न्ेहाद्वाक्यमेतदुवाच च ।। ६५ 

एवमेतत्कपिश्रेष्ठ ! भविष्यति न संशयः । वरदानेन मे सर्वं सेत्स्यत्येव त्वदीप्सितम् ।। ६६ 

इति लब्धवरो रामाद्धनूमानिह सुव्रते ! । रघुनाथकथाप्राणश्चिरजीवी हि वर्तते ।। ६७ 

यत्र यत्र कथा भूमौ रामचन्द्रस्य जायते । तत्र तत्राप्यसौ गत्वा श्रृणोति वरदानतः ।। ६८ 

त्वत्समीपे मया रात्रौ कथ्यमानां कथामसौ । श्रोतुं नूनमुपायातो यातो दत्त्वा स्वदर्शनम् ।। ६९ 

गणेशव्रतसङ्कल्पाद्विघ्ननाशे हनूमता । दत्तं स्वदर्शनं तेन कार्यसिद्धिरभूद्धि नः ।। ७० 

इति भर्तुर्वचः श्रुत्वा प्रीता भक्तिरभून्नृप ! । तया सह यथाशक्ति व्रजन् स्वग्राममाप सः ।। ७१ 

सार्धमासेन सम्प्राप्तं स्वग्रामं तं समेत्य च । स्वजना ज्ञातयः सर्वे भृशं मुमुदिरे नृप ! ।। ७२ 

श्रीकृष्णस्य प्रतापेन वैरिणः सकला अपि । मित्राणीवाभवंस्तस्य बिभ्यति स्म तदीक्षणात् ।। ७३ 

धान्ययानपशुद्रव्यसमृद्धिस्तस्य वेश्मनि । ततः पूर्वाधिकैवासीद्वर्धमानाऽनुवासरम् ।। ७४ 

इत्थं हरेः प्रसादस्य जातत्वात्स द्विजोत्तमः । हरिप्रसादनाम्नैव विश्रुतोऽभूत्पुनः क्षितौ ।। ७५ 

भगवानथ जीवानां श्रेयसे करुणानिधिः । नरनारायणोद्देशान्नृत्वं स्वीकर्तुमैहत ।। ७६ 

एकमूर्ति स्वेन कृत्वा द्विरूपं तं निजेच्छया । धर्मस्य हृदयाम्भोज आविरासीदसौ नृप ! ।। ७७ 

आविर्भावं भगवतः स्वस्मिञ्जातं विवेद सः । कान्त्यातिमर्त्यया राजन्नाकस्मिक्या च सम्पदा ।। ७८

गर्भं ततोऽसावृतुषोडशेऽह्नि गुरौ च पुष्ये निदधार भक्तौ ।
सा तेन भूमौ शुशुभे शुभाङ्गी श्रीदेवहूतीव विरोचमाना ।। ७९

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे धर्मस्याश्वत्थामशाप-स्वग्रामप्रत्यागमननिरूपणनामा विंशोऽध्यायः