एकविशोऽध्याय

सुव्रत उवाच -

एतस्मिन्नन्तरे राजंश्चातुर्वर्ण्यभवासुराः । संहत्य शतशो देवीमानर्चुर्विन्ध्यवासिनीम् ।। १ 

नवम्यामिषमासस्य शुक्लपक्षे महोत्सवः । तेषामभून्मन्दिरेऽपि देव्या दुष्कर्म कुर्वताम् ।। २ 

अजान्सहस्रशोऽवींश्च महिषादीन्नरांस्तथा । हत्वा निवेदयामासुर्देव्यै ते च सुराघटान् ।। ३ 

अत्त्वा मांसं सुरां पीत्वा देव्यागारे मदोद्धताः । स्वैरिणीः कामिनीश्च स्त्रीरुपजग्मुश्च पुंश्चलीः ।। ४ 

अधर्ममित्थं चान्यायं दृष्ट्वा तेभ्यश्चुकोप सा । कालीदत्ताय तु भृशं तेषामाचार्यताधृते ।। ५ 

निशि स्वप्नमुपेत्यामुं देव्युवाच भयङ्करा । त्रिशूलं करवालं च बिभ्रत्यारक्तलोचना ।। ६ 

सर्वेऽपि स्थासुरा यूयं निर्मर्यादा मदोद्धताः । मदुद्देशेन कुरुथ सुरामांसाशनं द्विज ! ।। ७ 

पशुहिंसां नृहिंसां च पारदार्यं मदालये । कुर्वतो निर्दयान् युष्माञ्छपाम्यसुरवञ्चक ! ।। ८ 

वंशोच्छेदो हि सर्वेषां युष्माकं तु भविष्यति । धनवृत्तिविनाशश्च नाशमेष्यथ च द्रुतम् ।। ९ 

अद्यारभ्य च मत्पूजां यथा यूयं सुरादिभिः । पृथिव्यां ये करिष्यन्ति ब्राह्मणक्षत्रियादयः ।। १० 

युष्माकमिव तेषां च वंशोच्छेदो भविष्यति । धनधान्यादिहीनास्ते यास्यन्ति नरकान्मृताः ।। ११ 

युष्मत्पूर्वरिपुः कृष्णो धर्माद्बक्तौ स कौसलात् । भूत्वा हरिर्बुद्धिशस्त्रो युष्मानुन्मूलयिष्यति ।। १२ 

पर्यटन्पृथिवीं सर्वां लीनान्युष्मानितस्ततः । एकैकशोऽपि सोऽन्विष्य कर्ता निर्मूलनं हि वः ।। १३ 

युष्मत्साहाय्यकर्तारो ये च भूपतयः क्षितौ । सन्ति तेऽपि यथा यूयं विनंक्ष्यन्ति न संशयः ।। १४ 

राजा ताम्रमुखः कश्चित्पावन्या दिश आगतः । तान्वशीकृत्य सहसा भोक्ष्यत्यखिलमेदिनीम् ।। १५ 

एवं शप्त्वा तु सा देवी रुष्टा तेभ्यस्तिरोदधे । कालीदत्तोऽतिसन्त्रस्तस्तच्छ्रुत्वाऽजागरीन्नृप ! ।। १६ 

सर्वेभ्यः कथयामास सोऽसुरेभ्योऽम्बिकावचः । श्रुत्वा तद्वेपमानास्ते जाताश्चिन्ताव्यथाकुलाः ।। १७

स्वकर्मोपस्थितं शापमनिवार्यं हि साधनैः । मत्वा क्षमापयामासुस्तां भूघ्राणघृषादिभिः ।। १८ 

ततः शापप्रतीकारं स्वस्वशक्तया चिकीर्षवः । सर्वे विचारयाञ्चक्रुरन्तिकोपस्थितापदः ।। १९ 

उत्पाद्य कृत्यास्ताभिश्च शस्त्रैरस्त्रैश्च साधितैः । वीरैर्मन्त्रैश्च यन्त्रैर्वा हरिर्घात्यः स शैशवे ।। २० 

विवृद्धबलमित्रादिः प्रतिकर्तुं न शक्यते । रिपुस्ततो बालमेव तं हनिष्याम उद्यताः ।। २१ 

इति निश्चित्य जग्मुस्ते स्वं स्वं स्थानं वृषद्विषः । प्रतीक्षमाणास्तज्जन्म कृत्योत्पादादिमानसाः ।। २२

निजारिजन्मस्ववधप्रतिज्ञाश्रुतिस्रवद्धैर्यभरा धरायाम् ।
चिन्ताज्वरार्ताः सभयं कथञ्चित्तेऽहानि निन्युर्युगसाम्यभाञ्जि ।। २३

तद्बीतिहीनः स हरिप्रसादो व्रतं गणेशस्य नभस्यमासे ।
पूजोत्सवं चाश्विनमासि चक्रे मरुत्सुतस्यापि यथाविधानम् ।। २४

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे-
ऽसुराणां विन्ध्यवासिनीशापो नामैकविंशोऽध्यायः ।। २१ ।।