द्वाविंशोऽध्यायः

सुव्रत उवाच - 

अथ प्रेमवती गर्भं बिभ्रती साऽभवत् क्षितौ । देवमातेव सर्वासां माननीया हि योषिताम् ।। १ 

सा च तं जगदाधारं नारायणमधीश्वरम् । गर्भे दधाना सहसा बभूवेन्दुसमद्युतिः ।। २ 

अङ्गणे संस्थितां तां च ददृशुः सङ्घशो जनाः । इतस्ततः समागत्य सविस्मयमतद्विदः ।। ३ 

अन्तर्वत्नी सलज्जा च स्वकान्त्या तिमिरं घ्नती । स्वदिदृक्षुजनौघार्ता निर्ययौ न गृहाद्बहिः ।। ४ 

स च द्विजो वेदगर्भां सावित्रीमिव तां स्त्रियम् । विलोक्य विस्मयं प्राप महान्तं हर्षमेव च ।। ५ 

तां च तेजस्विनीं दृष्ट्वा स्त्रियोऽन्याः सस्मिताननाम् । क्वाप्यदृष्टचरीं तन्वीमन्योन्यं प्रोचुरादृताः ।। ६

अहो !! बह्वयः स्त्रियो दृष्टा अन्तर्वर्त्न्योऽत्र भूतले । एतादृशी तु न क्वापि दृष्टाऽस्माभिः श्रुतापि वा ।। ७

ईदृग्रूपा सुरैर्वन्द्या सा मासि दशमे ततः । अरिष्टगेहे न्यवसन्मुहूर्ते ब्राह्मणोदिते ।। ८ 

सोष्यन्तीकर्मसामग्रीं देवोऽपि समसाधयत् । साविकाद्या योषितश्च सुज्ञास्तत्रावसन्नृप ! ।। ९ 

अथातिशोभनः कालः सर्वमङ्गलकारणम् । अभवत्सहसा येन सर्व आसन्सुविस्मिताः ।। १० 

आविर्भावस्य समये हरेः साक्षात्सुखाम्बुधेः । आनन्द एव त्रैलोक्ये प्रावर्तत ह सर्वतः ।। ११ 

धर्मालयं विष्णुविरिञ्चरुद्रा इन्द्रादयो दिक्पतयश्च सर्वे ।
विज्ञाय सर्वज्ञातयैव भाव्यं प्राकटयमानन्दनिधेः समीयुः ।। १२ 

देवाश्च ते स्वस्वविमानसंस्थाः प्राकटयमात्माधिपतेः सयोषाः ।
प्रतीक्षमाणा गगने हि तस्थुस्तद्वेश्ममात्रार्पितदीर्घनेत्राः ।। १३ 

भक्तेरङ्गात्तदानीं सकलतनुभृतामान्तराणां घनानां ।
बाह्यानां चाप्यकस्मात्क्षयपटु तमसां तेज आविर्बभूव ।।
गेहं तद्व्याप्य सर्वं सिततरममलं गाढमानन्दरूपं ।
व्यापच्चाऽऽब्रह्मलोकात्सकलसुरनरान् भूरि विस्मापयत्तत् ।। १४ 

तत्कोटिकोटयग्निरवीन्दुसङ्घतेजोधिकं तेज उरुप्रकाशम् ।
ततोऽण्डगोलावरणानि चाष्टौ व्यापत्समन्तादपि वर्धमानम् ।। १५

तत्सच्चिदानन्दमयं हि तेजः सर्वैः समन्ताद्ददृशे न चान्यत् ।
नोर्ध्वं न चाधो न तथान्तरालं स्वर्गो न भूमिर्न दिशश्च दृष्टाः ।। १६

तत्रागता ये निजशक्तियुक्ताः पुरैव तद्ध्यानबलेन बुद्ध्वा ।
प्राकटयमीशस्य विधीश्वराद्या देवास्तदालोक्य विसिस्मिरे ते ।। १७

उत्पत्तिनाशस्थितिहेतवोऽपि ब्रह्मादयस्ते च समस्तदेव्यः ।
सर्वेऽपि तेजःप्रतिरुद्धनेत्रा ज्ञात्वाऽऽगतं तं प्रभुमीडते स्म ।। १८


देवा ऊचुः -

नमस्तेजस्तेजः ! परममहसेऽस्पृष्टतमसे । नमो मायामायापरपुरुषसञ्चिन्त्यवपुषे ।
नमो भूते भूते नियमनविधौ च स्थितवते । नमो भूयो भूयः परमपुरुषानन्तगुण ! ते ।। १९ 

यथैकस्याप्यस्ति प्रकटमिह कुर्या यदि तथा । स्वरोम्णस्तेजस्त्वं तदपि पुरपुम्भिस्तदपरम् ।
न किञ्चिद्वीक्ष्येत प्रभव इह किं तर्हि विबुधास् ततो जाताज्जातास्त्रिगुणमतयस्त्वामवसितुम् ।। २० 

वयं त्वेतत्तेजोमयजलधिमग्नाण्डपतिता । न पश्यामः किञ्चित्परमपरमन्यं न च निजम् ।
स्वकीयं देहं वा कुत इह तदन्यच्च भुवनं परं । तेजस्त्वेकं दृशि गतमिदं भात्यतिघनम् ।। २१ 

न तद्द्रष्टुं शक्ता वयमिदमपारं तव महः । पिधाने च स्वेषां नयनयुगलानामपि कृते ।।
तदन्तः पश्यामः प्रचुरतरतेजः खलु हरे ! । ततः सम्भ्रान्तानां त्वमसि गतिरेका दिविषदाम् ।।२२

न जानीमः स्तोतुं परममहसा भ्रान्तमनसस्त्वदीयेनातस्त्वां शरणमुपयाताः किल वयम् ।।
ततस्तेजः स्वीयं सकलमुपसंहृत्य कृपया । स्वकीयां मूर्ति नः पृथुकरुण ! सन्दर्शय विभो ! ।। २३ 


सुव्रत उवाच -

इत्थं स्तुतस्तैः स बभूव दृश्यः कृष्णः स्वयं धर्मवरप्रदाता ।
तत्रैव तेजस्यपि तेन दृष्टया प्रदत्तया भक्तहितावहेन ।। २४ 

तत्त्वात्मतेजः स्वयमात्मनीशः स संहरन् ब्रह्महरादिदेवैः ।
दृश्यः सुखेनास च सङ्गताभिस्तदङ्गनाभिर्मुनिभिश्च सर्वैः ।। २५ 

गोलोक एवाक्षरधाम्नि दिव्येऽनन्ते च यादृग्रमते स नित्यम् ।
तं तादृशं ते ददृशुर्द्विहस्तं निनादयन्तं मुरलीं मुकुन्दम् ।। २६ 

स देवशर्माऽपि सदा स्मरंस्तं भक्तिश्च तस्योपशमे विलोक्य ।
निजेष्टदेवं सुतभावभाजं सम्प्रापतुर्विस्मयमस्मयौ तौ ।। २७ 

वृन्दावने यादृश आत्मना प्रागाराध्य दृष्टः परिवारयुक्तः ।
तं तत्र तौ तादृशमेव दृष्ट्वा निश्चिक्यतुः कृष्ण इति स्वचित्ते ।। २८

अथ देवा विदित्वा तं साक्षाच्छ्रीपुरुषोत्तमम् । प्रादुर्भूतं सतः पातुं धर्मं चासुरसर्गतः ।। २९ 

प्रणम्य दण्डवद्बक्तया बद्धाञ्जलिपुटा नृप ! । विनयेनोपसङ्गम्य तुष्टुवुर्जगदीश्वरम् ।। ३० 


देवा ऊचुः -

स्वामिन् ! भक्तया भक्तजनातिप्रियमाद्यं । मायातीतं मङ्गलरूपं जगदीशम् ।
आविर्भूतं धर्मगृहे त्वां प्रणमामः । कृष्णं साक्षादासुरसर्गक्षयहेतुम् ।। ३१ 

सर्गस्यादौ शुद्धपुमांस्त्वं निजमायां । पश्यस्येकश्चागणिताण्डोद्बवदृष्टया ।
उत्पद्यन्ते ह्यण्डसमूहाश्च सहेशास्तस्याः । सर्वे नाथ ! ततस्त्वं जगदीशः ।। ३२ 

त्वत्तो जाताश्चागणिताण्डाश्रयभूता । नारासंज्ञामापुरिहापो ह्यत एव ।।
स त्वं विश्वाधार इदानीं नरनाटयं । धर्ता नाथ ! स्वाश्रितजीवावनहेतोः ।। ३३ 

नारास्वादौ तासु च शिष्ये पुरुषो यः । ख्यातो वेदे तेन हि नारायणनामा ।।
देवः सोऽङ्गं देव ! तवैवादिमपुंसो । दृष्ट्वा साक्षात्सम्प्रति तं त्वां मुदिताः स्मः ।। ३४ 

एकैकाण्डं त्वं खलु सङ्कर्षणसंज्ञाः । शेषो भूत्वा शीर्ष्णि दधास्येव यथाऽणुम् ।।
नानासिद्धैर्नागगणेन्द्रैश्च परीतः । पातालस्थो बोधयसीशात्मगतिं च ।। ३५ 

नित्यं भास्वन्मण्डलमध्येऽम्बुजसंस्थस् । तेजोमूर्तिः कर्मकृतां त्वं कृतिसाक्षी ।।
अर्चिर्मार्गाधिष्ठितदेवैश्च नियन्ता । मुक्तानां वै ब्रह्मगतिं प्रापयिताऽसि ।। ३६ 

भक्तया नित्यं संसृतिबन्धात्स्वविमुक्तयै । योगिध्यातं द्वादशपत्रे हृदयाब्जे ।।
तेषामन्तर्ध्वान्तहरं यन्नखकान्त्या । तत्पादाम्भोजं तव वन्दामह ईश ! ।। ३७ 


सुव्रत उवाच -

देवादय इति स्तुत्वा तं प्रणम्याथ दूरतः । स्थित्वा तद्दर्शनं चक्रुः प्रसन्नवदनेक्षणाः ।। ३८ 

सोऽथ विप्रः सभार्यस्तं वृन्दावनविहारिणम् । सत्यप्रतिज्ञां तुष्टाव बद्धाञ्जलिपुटः सुधीः ।। ३९ 


देवशर्मोवाच -

जयमुरलीधराच्युत ! मुकुन्द ! दयाम्बुनिधे ! । निजशरणागताखिलसमीप्सितदानपटो ! ।।
सकलगुणैकधाम सदयेक्षण ! विश्वपते ! । तव पदपङ्कजद्वयमहं प्रणमामि हरे ! ।। ४० 

भवभयमुक्तये हृदि विचिन्त्यमशेषजनैर्निजजनकष्टसंछिदमतीव पवित्रमिदम् ।
परिणुतमब्जजादिभिरमर्त्यगणैः सततं हृदि विदधे महापुरुष ! तेऽङ्घ्रिसरोजयुगम् ।। ४१ 

जितमरुदिन्द्रियैरमलहृत्कमलेऽर्कशतद्युति । नखमण्डलं दृशिधृतं निजयोगिजनैः ।।
स्तुतमनिशं पदक्रमषडङ्गयुतैर्निगमैः । शरणमुपागतोऽस्मि तव तत्पदपद्ममिदम् ।। ४२ 

विबुधवरैरपि प्रबलबुद्धिबलेन निजं । दुरधिगमं स्वरूपमिति चात्तनरादितनुः ।।
स्वयमथवाऽपरोक्षनिजवित्तिसदात्मतया । ह्यवगमयंस्तदीश ! जगतोऽसि सदेकगुरुः ।। ४३ 

असुभृदनादिबन्धनभिदाप्रभुता तव वै । प्रभुरसि तत्त्वमेव जनताश्रयणीयतरः ।।
त्वदुपकृतिं न कोऽपि भवति प्रतिकर्तुमलं । समुपगतोऽस्म्यतोऽत्र भवदंघ्रिमहं शरणम् ।। ४४ 

देवास्तग्दुरवो नरास्तदधिपाश्चान्येऽपि येऽधीश्वराः ।  सर्वे कोटितमांशतुल्यमपि ते देव ! प्रसादस्य वै ।।
दातुं न प्रभवन्ति किञ्चन फलं तस्मादहं त्वीश ! ।  ते प्राप्तः पादसरोजमिष्टफलदं निःशेषदुःखापहम् ।। ४५ 

यावन्नैव पदाम्बुजं श्रयति ते भक्तया सुरेशोऽपि वा ।  तावत्कालभयं न नश्यति हरे ! कुत्रापि कस्यापि वा ।।
ज्ञात्वेत्थं परिहृत्य दुःखनिभृतामन्यां दुराशां धिया ।  यस्त्वत्पादसरोजमेव सततं सेवेत धन्यः स हि ।। ४६ 

ब्रह्माण्डकोटिप्रभवादिहेतुस्त्वं कारणानामपि कारणं हि ।
सर्वाश्रयः सर्वपतिस्त्वमेव वरप्रदाता मम कृष्ण एव ।। ४७ 

धृत्वावतारान् बहुशस्त्वमेव युगे युगे पासि च धर्मसेतून् ।
रक्षन् सतो हंसि च धर्महन्तन् ज्ञानं स्वरूपस्य तनोषि चेश ! ।। ४८ 

स साम्प्रतं त्वं कलिना विवृद्धमधर्मसर्गं गुरुभूपसंस्थम् ।
निवर्त्य पातुं स्वपदोपसन्नान् गृहे मदीयेऽत्र बभूविथाविः ।। ४९ 


सुव्रत उवाच -

इति स्तुतो विप्रवरेण कृष्णो मानुष्यनाटयं बहुधा विधित्सुः ।
उवाच तं प्रेमरसार्द्रभावं भक्तप्रियः सर्वहितावतारः ।। ५० 

 
श्रीभगवानुवाच -

त्वं साक्षाद्धर्मदेवोऽभूः पूर्वसर्गे द्विजोत्तम ! । इयं च मूर्तिस्त्वत्पत्नी त्वामेवानुव्रता सदा ।। ५१ 

दुर्वाससो मुनेः शापात्प्राप्तौ मानुष्यमत्र वै । उपद्रुतौ मुहुर्दुष्टैः कल्यधर्माश्रितैर्नृभिः ।। ५२ 

स्वधर्मस्थावुभौ लोके भ्रमन्तौ तीर्थभूमिषु । सम्प्राप्तौ वैष्णवीं दीक्षामुद्धवान्मदुपाश्रितात् ।। ५३ 

वृन्दावनमुपेत्याथ विष्णुयागेन भूयसा । मदाराधनमव्यग्रौ कुर्वाते स्मैकचेतसौ ।। ५४ 

वैरिदारिद्रयातिपीडाविच्छेदं चात्मरक्षणम् । अभीप्सन्तौ मत्त एव निश्छद्मसकलक्रियौ ।। ५५ 

जिताहारौ मिताहारौ ब्रह्मचर्यदृढस्थिती । जितनिद्रावेकभावौ मामाराधयतं युवाम् ।। ५६ 

दृष्ट्वा वां तपसा कार्श्यं भावं च दृढमात्मनि । कालेनाल्पेन तुष्टोऽहमीदृग्रूपमदर्शयम् ।। ५७ 

ततः प्रसन्नेन मया वरोदत्तस्त्वदीप्सितः । प्रोक्तं च विप्र ! ते रक्षां कर्ता भूत्वा सुतस्त्विति ।। ५८ 

अन्तर्हितस्ततोऽभूवं त्वं च स्वगृहमागतः । तत आरभ्य ते वैरिभीतिर्नष्टा च दीनता ।। ५९ 

एतत्स्मृत्यर्थमेवेदं रूपं दिव्यं प्रदर्शितम् । प्राप्तोऽस्मि युष्मत्पुत्रत्वं भव स्वस्थो द्विजर्षभ ! ।। ६० 


सुव्रत उवाच -

एवं तमुक्त्वा जगदीश्वरोऽसौ सद्योऽभवन्मानुषदिव्यबालः ।
भक्तेः स्वमातुः शयनेऽथ रेमे पूर्णेन्दुकान्तिश्च मनोहराङ्गः ।। ६१ 

कृष्णेच्छयैवाथ स विप्रवर्यो नष्टस्मृतिः सा च बभूव भक्तिः ।
पुत्रं प्रजातं तमवेत्य हृद्यं हर्षं महान्तं हृदि चापतुस्तौ ।। ६२ 

तं बालकृष्णं धृतमर्त्यभावं देवादयस्ते च स देवशर्मा ।
वेषान्तरं प्राप्तमिवात्मतन्त्रं नटोत्तमं सन्ददृशुः सहर्षं ।। ६३ 

सत्स्वस्तिकादिनवलक्षणदक्षपादं मत्स्यादिसप्तकसुलक्षितवामपादम् ।
आरक्तपल्लवनिभाङ्गुलिराजिराजत्सुस्न्ग्धिकोमलमनोहरपादपद्मम् ।। ६४ 

उत्तुङ्गशोणनखनिर्गतसन्मयूखैर्मुष्णन्तमुष्णकिरणादिरुचः समग्राः ।
ईषत्समुन्नतसुवर्तुलगुल्फचारुजङ्घासुजानुकरभोरुयुगातिशोभम् ।। ६५ 

राजद्बृहत्कटितटं पुरटाभचञ्चत्स्न्ग्धिातिसूक्ष्मविरलोग्दतरोमरम्यम् ।
गम्भीरवर्तुलसुशोभितनाभिराजदश्वत्थपत्रसमतुन्दवलित्रयाङ्कम् ।। ६६ 

हासावदातरुचिसङ्गयधरारुणश्रीश्रीवत्सशोभितपृथून्नतवक्षसं च ।
आजानुलम्बिदृढपीवरबाहुदण्डं तुङ्गारुणोज्ज्वलमहःकरजश्रियं च ।। ६७ 

सूक्ष्मायताङ्गुलिविराजितशोणपद्मकान्तस्वभावकटिनोत्तमपाणियुग्मम् ।
संशोभितायतहनुद्युतिकम्बुकण्ठं नम्राग्रतुङ्गतिलपुष्पसमाननासम् ।। ६८ 

नस्प्रान्तकर्णपुटकान्तरसूक्ष्मबिन्दुं पूर्णेन्दुमण्डलनिभस्मयमानवक्रम् ।
शोणान्तरम्यनवशारदपुण्डरीकपत्रायतातिचपलाक्षिनिरीक्षमाणम् ।। ६९ 

तुङ्गायतत्तमविशालललाटशोभाराजत्कपोलकुटिलभ्रुकुटिश्रियं च ।
हासोल्लसन्मृदुलगण्डसमानकर्णं सुस्न्ग्धिसूक्ष्मकुटिलासितमञ्जुकेशम् ।। ७० 

एवं महापुरुषलक्षणलक्षिताङ्गमुत्तानशायिनमचक्षत तं हि सर्वे ।
नत्वा तमादरभरेण तदिच्छयाऽथो ब्रह्मादयस्तु निजधाम ययुस्त्रयस्ते ।। ७१ 

एवं तस्य द्विजेन्द्रस्य गेहे स पुरुषोत्तमः । प्रादुर्बभूव विश्वात्मा काले जनमनोहरे ।। ७२ 

विक्रमार्कशकस्याब्दे नगाग्निवसुभूमिते । वर्षे विरोधकृन्नाम्नि सौम्यायनगते रवौ ।। ७३ 

वसन्तर्तौ मधौ शुक्लनवम्यामिन्दुवासरे । पुष्ये सुकर्मयोगे च करणे कौलवाह्वये ।। ७४ 

लग्ने च वृश्चिके युक्ते गुरुणा शनिना सह । उच्चस्थानं गते शुक्रे स्वराशिं च निशाकरे ।। ७५ 

रिपुस्थानं गते राहौ बुद्धिस्थानं गते बुधे । धनस्थानं कुजे याते भास्करे च सुतालयम् ।। ७६ 

भूतले दिवि महोत्सवस्तदा सर्वतोऽभवदुदारचेतसाम् ।
हर्षसम्भ्रमवतां नृणां तथा योषितां च विमतान्यकर्मणाम् ।। ७७ 

देवताः शतमखादयो मुदा पुष्पवर्षणमकार्षुरुत्सुकाः ।
गायनं च सुरराजगायकाश्चारु नृत्यमकृताप्सरोगणः ।। ७८ 

वह्नयो रुरुचिरेऽग्रजन्मनां सद्य एव भसितावृता अपि ।
मानसान्यपि तदान्तरारिभिर्वर्जितानि च सतां समासत ।। ७९ 

कौलनास्तिकगुरुत्वशालिनां पापिनां नृतनुदैत्यरक्षसाम् ।
त्रासमेव सहसा प्रपेदिरे भाविनाशगमकं मनांसि च ।। ८० 

भूभुजां निलयनेषु नैगडा बन्धमुक्तिमगमंश्च तत्क्षणम् ।
तत्यजुः सहजवैरिणस्तदा दुस्त्यजामपि मिथो विरोधिताम् ।। ८१ 

दुन्दुभिध्वनिरभूदहर्निशं बालशर्मसुतमन्दिरे नृप ! ।
देवदुन्दुभिनिनादमिश्रितस्तस्य जन्मसमये ह्यजन्मनः ।। ८२ 

योषितोऽपि जनमङ्गलं जगुः सङ्घशोऽद्बुतकुमारमाशिषा ।
योजयन्त्य उरुधा परस्परं कुर्वते स्म पिशुनादिलेपनम् ।। ८३ 

वायवः सुखकरा ववुस्तदा निर्मलं च खमभूत्सहोडुभिः ।
चक्रिरे जयरवं सुरानुगाः कीर्तयन्ति ऋषयः स्म चाशिषः ।। ८४ 

वाणी मङ्गलरूपिणी च हसितं यस्यास्ति वै मङ्गलं ।  नेत्रे मङ्गलदे च दोर्विलसितं नणां परं मङ्गलम् ।।
वक्त्रं मङ्गलकृच्च पादचलितं यस्याखिलं मङ्गलं ।  सोऽयं मङ्गमूर्तिराशु जगतो नित्यं क्रियान्मङ्गलम् ।। ८५ 

ऋषिभिः कृतमङ्गलं तमित्थं सुतमानन्दकरं निशाम्य हृष्टः ।
स चकार हरिप्रसादविप्रो निगमोक्तं त्वथ जातकर्म तस्य ।। ८६ 

प्रथमं सहिरण्यवारिभिः स्न्पनं सांशुकमेव सत्वरम् ।
स्वगृहे स विधाय चाचरत्पितृसन्तर्पणमत्र वैदिकैः ।। ८७ 

अथ मङ्गलवाचनं स सूनो रसनामार्जनमाचचार धर्मः ।
विदधे विधिनोचितं च मेधाजननं दानविधिं तथा तदङ्गम् ।। ८८ 

समेता ज्ञातयस्तस्य विप्रवर्यस्य वेश्मनि । आनन्दं परमं प्राप्ताः कुमारायाऽऽशिषो ददुः ।। ८९ 

गीतामङ्गलवाद्यानि तत्र ग्रामे गृहे गृहे । तदा बभूवुः सर्वेषामानन्दश्च महान् हृदि ।। ९० 

ददौ बहूनि दानानि पुत्रजन्मप्रहर्षितः । ब्राह्मणेभ्यो द्विजेन्द्रोऽसावन्येभ्यश्च यथोचितम् ।। ९१ 

गजान् हयांस्तथा धेनुरसङ्खयाताः सुलक्षणाः । ब्राह्मणेभ्यो ददौ देवः सोपस्करगृहांस्तथा ।। ९२ 

तथा दानान्यसौ प्रादाद्यच्छ्रुत्वा भुवि भूमिपाः । विस्मयं लेभिरे भूरिनिधीशं तं च मेनिरे ।। ९३ 

मायया श्रीपतेस्तस्य विधित्सोर्नरनाटनम् । भगवानेष एवेति तं विवेद न कश्चन ।। ९४ 

आत्मजे पुत्रभावोऽभूच्छ्रीकृष्णे भक्तिधर्मयोः । चिकीर्षोः शैशवीं लीलामिच्छया तस्य च प्रभोः ।। ९५

ईश्वरत्वेन मज्ज्ञाानात्पुत्रभावेन लालनम् । मदीयं दुर्लभमिति प्रभुरेवं तथा व्यधात् ।। ९६ 

तौ दम्पती प्राप्य मनोरथस्य फलं प्रहृष्टौ नितरामभूताम् ।
बबन्धतुः स्न्ेहभरं तनूजे नराकृतिब्रह्मणि वासुदेवे ।। ९७ 

प्रादुर्भावकथाऽद्बुतेयमुदिता तुभ्यं मया भूपते ! ।  गोत्रायां नरनाटनं बहुविधं प्रीत्या चिकीर्षोः प्रभोः ।
श्रीराधारमणस्य यः परमया भक्त्या पठेद्वा पुमान् नित्यं ।  तां श्रृणुयात्पुमर्थमखिलं स प्राप्नुयान्निश्चितम् ।। ९८ 


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
नारायणप्रादुर्भावोत्सवनामा द्वाविंशोऽध्यायः ।। २२ ।।