त्रयोविंशोऽध्याय

सुव्रत उवाच -

अथावगत्योद्बवमात्मशत्रोराकस्मिकैर्लक्ष्मभिरासुरौघाः ।
हृत्कम्पवामावयवस्फुराद्यैरुत्पादयामासुरनेककृत्याः ।। १ 

तत्रादितश्छुप्पयसं स कालीदत्तस्तु कृत्यागणमात्मसृष्टम् ।
क्रुद्धोऽडुढौकन्नृप ! कोटरादिं भयङ्कराकारमुदात्तशस्त्रम् ।। २ 

हरिप्रसादस्य गृहं समेत्य जनेस्तु षष्ठेऽहनि बालकस्य ।
निशीथकाले परिसुप्तलोके सूतीगृहं तन्न्यविशत्स तूर्णम् ।। ३ 

व्यचष्ट सोऽनेकवपुर्द्विजस्त्रीस्तत्र प्रसुप्ताः कतिचित्पलिक्नीः ।
शय्योपविष्टां द्विजराजपत्नीं भक्तिं च बालाननदत्तदृष्टिम् ।। ४ 

अभ्यर्त्य षष्ठीं महतीं सहाङ्गैः षट्कृत्तिकाषण्मुखविष्णुमुख्यैः ।
गजाननाभ्यर्चनपूर्वकं वै यथाविधानं नृप ! जाग्रतीं च ।। ५ 

बालं तदुत्सङ्गगतं च दृष्ट्वा प्रतीप्तवह्निद्युतिमुद्ग्रहीतुम् ।
तत्पार्श्वमागत्य जगाद वाक्यं भयानकास्या किल कोटरैका ।। ६ 

दिगम्बराऽन्त्रस्रगुदात्तशूला करे कपालं दधती सरक्तम् ।
विकीर्णकेशाञ्जननीलवर्णा वृत्तारुणाक्षा विततोग्रदंष्ट्रा ।। ७ 

बालग्रहाणामधिपाऽस्मि मूढे ! भक्षामि पुत्रं तव नूनमद्य ।
स्मरेष्टदेवं निजरक्षितारं मदीयदंष्ट्रान्तरमुत्पिपत्सुम् ।। ८ 

उक्त्वेति तस्या भयवर्जिताया धैर्यस्थितायाः सहसाङ्कदेशात् ।
जग्राह बालं गल एव दुष्टा व्यात्तानना तिग्मकरालजिह्वा ।। ९ 

ईयुश्च तावच्छतशः कराला बालग्रहा व्यात्तमुखाः कुरूपाः ।
ते छिन्द्धि भिन्द्धयानय मारयेति क्रोशन्त उच्चैश्च तिरोबभूवुः ।। १० 

गले गृहीत्वा शिशुकं गतेषु बालग्रहौघेषु रुरोद भक्तिः ।
तत्राययौ यत्तु निशम्य कुर्वन्नारायणस्य स्मरणं स विप्रः ।। ११ 

स्न्ेहेन गाढेन तदैव बाला हा ! पुत्र पुत्रेति रुदत्यमूर्च्छत् ।
नष्टं सुतं सोऽप्यवगत्य विप्रो मुमूर्च्छ चान्येऽप्यरुदन् गृहस्थाः ।। १२ 

तौ नष्टसंज्ञाववगत्य ताभ्यामाराधितः प्राग्बहुधोपचारैः ।
मरुत्सुतस्तूर्णमुपेत्य तत्र प्रबोधयामास च दम्पती तौ ।। १३ 

सुप्ताऽसि किं जागृहि देवि ! भक्ते ! हरिप्रसाद ! द्विज ! जागृहि त्वम् ।
आह्वानमित्थं तु निशम्य तस्य तौ जागरांचक्रतुरश्रुनेत्रौ ।। १४ 

उत्थाय सम्भ्रान्तवदेव तौ तं तदैव दिव्यं कपिमैक्षतां च ।
सतैलसिन्दूरसुचर्चिताङ्गमर्कप्रसूनरुजमीक्षणीयम् ।। १५ 

कुतो भवन्तौ रुदतोऽतिखिन्नाविति ब्रुवाणं तमुवाच भक्तिः ।
त्वं कीशबालः सुखकारको मे पीयूषवाक्कोऽसि पवित्रमूर्तिः ।। १६ 

बालग्रहैर्मेऽद्य सुतोऽपनीतो रोदिम्यतोऽहं बहुकृच्छ्रलब्धः ।
इत्थं वदन्तीमवदच्च बालां स मारुतिः स्वेक्षणलब्धधैर्याम् ।। १७ 

श्रीरामदासोऽस्मि हनूमदाख्यो भक्तौ युवां मे भवथो दृढं वै ।
तयोरिदं कष्टमवेत्य जातं तद्धर्तुमेवाहमिहागतोऽस्मि ।। १८ 

बालग्रहैर्वाप्यसुरैश्च हिंस्न्ैर्हन्तुं न शक्यः खलु कैश्चिदत्र ।
बालस्तवासौ यदतोऽस्ति भीतिर्भयप्रदस्याप्यखिलस्य मृत्योः ।। १९ 

आश्वास्य तामित्थमथातितूर्णं स स्वेच्छया स्वीकृतमानवत्वम् ।
नारायणं भक्तमनोहरं तं बालग्रहान्मोचयितुं जगाम ।। २०

बालं गृहीत्वोत्पतिताऽथ कृत्या ग्रामाद्वहिस्तद्ग्रसनाभिलाषा ।
तत्याज तं तज्ज्वलनाभदृष्टया दन्दह्यमानाखिलदीर्घदेहा ।। २१ 

क्षिप्तो धरायां तरसा पिशाच्या सोऽनिर्दशाहः शिशुकस्तदैव ।
सुष्वाप शीतद्युतिना सुधार्द्रैराप्यायितोऽभूत्स्वकरैश्च शीतैः ।। २२ 

हन्तुं ततः शावमुदात्तशूला करालदृष्टया तमवेक्षमाणा ।
तस्थावमर्त्याध्वनि साधरोष्ठं पिष्ट्वा रदैरायतवक्रतीक्ष्णैः ।। २३ 

व्योमस्थिता साऽथ ससम्भ्रमं तं कालाग्निरौद्रं सहसा विलोक्य ।
दन्दह्यमानाऽतिभयाऽतिकम्पा कृत्या न शक्ताऽस्य निरीक्षणेऽपि ।।२४

चुच्योत शूलं च सकम्पहस्तात्तस्याः पुरुस्विन्नवपुस्ततः सा ।
नात्रागमिष्यामि पुनः किलेति चीत्कृत्य दुद्राव सहात्मवर्ग्यैः ।। २५ 

धर्मालयादुत्पतितोऽन्तरिक्षं व्यात्ताननो दीर्घकरालदंष्ट्रः ।
स मारुतिः स्फूर्जथुभीमनादो धनुर्विमुक्ताशुगशीघ्रयानः ।। २६ 

द्रवन्तमाकृष्य निबध्य तूर्णं पुच्छेन तृण्यामिव चायतेन ।
स्वप्रेष्ठबालार्दनजातकोपः पदा स कृत्यागणमातताड ।। २७ 

ततो मृतप्रायमुपेतदुःखं प्रारब्धशेषावितजीवकण्ठम् ।
उत्सृज्य तं दूरत आशुबालं प्रीत्या दधौ सौम्यवपुः स दोष्णोः ।। २८ 

मितस्मितं वीक्ष्य शिशुं शनैस्तं ददौ समानीय ततः स भक्तयै ।
मृत्योर्मुखायातमिवात्मबालं सा प्राप्य तं प्राह वचः कपीन्द्रम् ।। २९ 

देव ! त्वया मोचित एष मृत्योर्बालोऽस्यतस्त्वं मम जीवदाता ।
नासाध्यमेतत्करणं तवेति जानामि रामानुजजीवदातुः ।। ३० 

निशम्य वाचं भगवज्जनन्याः सोऽथाब्रवीत्सर्वविदाञ्जनेयः ।
भद्रे ! तवायं शिशुकस्तु दिव्यो न प्राकृतोऽस्तीत्यवधेहि सत्यम् ।। ३१ 

संसारकृच्छ्रादविता सपोष्यौ युवां तथान्याञ्छरणोपपन्नान् ।
अतः सुरक्ष्योऽद्बुतबालकोऽयं सर्वाधिकः स्न्ेह इहैव कार्यः ।। ३२ 

तामित्युदीर्यैक्षत तत्सुतास्यं तावन्मनोज्ञाः स शिशुर्जहास ।
नृनाटनं तस्य हरेर्विधित्सोरथेच्छया तत्र तिरोदधे सः ।। ३३ 

ततोऽत्याश्चर्यमापन्नौ तौ वीक्ष्य हनुमद्बलम् । पुनर्जातं स्वतनयं मेनाते लौकिकं यथा ।। ३४ 

आश्चर्येणोचतुस्तौ च जनान्नौ बालकोऽधुना । हनूमता रक्षितो वै पिशाचीनां गणादिति ।। ३५ 

हनूमति ततो भक्तिं परमां प्रापतुश्च तौ । माहात्म्यं तस्य बहुधा स्वसम्बन्धिन ऊचतुः ।। ३६ 

तत आरभ्य तौ ते च मन्दवारे हनूमतः । नियमं जगृहुः प्रीत्या दर्शनस्यार्चनस्य च ।। ३७ 

कृत्यार्दनोपशमनाय ततस्तु धर्मः शान्तिं चकार निगमोदितवर्त्मनैव ।
सन्तर्पणं च सुरसैर्धरणीसुराणां नारायणीयकवचस्य जपं च भूप ! ।। ३८ 

राजन्निदं शिशुचरित्रमघौघनाशं नारायणस्य वदतामिह श्रृण्वतां च ।
तुभ्यं मया कथितमात्मपतेः पवित्रं श्रद्धान्विताय परमादरतोऽवधार्यम् ।। ३९

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
हनुमत्कृतबालरक्षणनिरूपणनामा त्रयोविंशोऽध्यायः ।।२३।।