चतुर्विंशोऽध्यायः

सुव्रत उवाच -


एकादश्यामार्यमणे माधवे मासि भार्गवे । अह्नस्तुर्यक्षणे प्रेङ्खां बालाऽध्यारोहयत्सुतम् ।। १ 

लक्ष्मीं स्वकुलदेवीं सा स्मरन्ती योगशायिनम् । अस्वापयत्प्राक्शिरसं शोभितायां च तत्र तम् ।। २ 

द्वितीयमासस्यारम्भे गोक्षीरं गालितं शुभम् । अपाययत्सा शङ्खेन तनयं गुरुवासरे ।। ३ 

चक्रेऽथ निष्क्रमणसंस्कृतिमात्मजस्य सूर्येक्षणं स च तृतीयकमास एव ।
पुण्याहवाचनमकारयदत्र वृद्धि श्राद्धं तु नाकृत वृषः खलु सामगत्वात् ।। ४

तं चन्द्रदर्शनमकारयदावृताङ्गं त्रैमासिकं च शुचिना वसनेन धर्मः ।
पूजां विधाय शशिनोऽथ च वामदेव्यं सामाध्यगापयदसौ विधिवत्प्रदोषे ।। ५ 

एकदा तद्गृहमगान्मार्कण्डेयो महामुनिः । त्रिकालज्ञाश्च तेजस्वी सशिष्यो वर्णिवेषधृत् ।। ६ 

सम्भावयामास स तमातिथ्येन यथोचितम् । ब्राह्मणः सर्वधर्मज्ञाः सभार्यो नृपसत्तम ! ।। ७ 

भुक्त्वा पीत्वा सुखासीनं सेवमानस्तमन्तिके । उपविष्ट इदं प्राह प्रीणयन्स उदारधीः ।। ८ 

कुत आगम्यते ब्रह्मन् ! भवता भूरितेजसा । कृतार्थीकुर्वता लोकान् पावितोऽद्य ममाश्रमः ।। ९ 

ब्रह्मन् ! किं किं त्वयाधीतं वेदशास्त्रागमादिषु । विद्यानिधिरिवाभासि ततो मां वक्तुमर्हसि ।। १० 

इति पृष्टः स विप्रर्षिः सर्वज्ञो मतिमान्नृप ! । तत्सुतप्रेक्षणानन्दो धर्मं प्रत्यब्रवीदिदम् ।। ११ 

तीर्थयात्रां चरन्धर्म ! त्वद्वेश्मैतद्यदृच्छया । प्राप्तोऽस्मि भृगुगोत्रं मां मार्कण्डेयमवेहि भो ! ।। १२ 

वेदशास्त्रपुराणानि ज्योतिःशास्त्रं विशेषतः । पठितं पाठयते चापि वेदाङ्गानीतराणि च ।। १३ 

ततः प्रसन्नो धर्मस्तं प्रणम्याह पुनर्वचः । स्वपुत्रनामकरणं तेनैव हि चिकीर्षयन् ।। १४ 

अस्मद्बाग्यवशादेव जातोऽत्र भवदागमः । तस्मान्मयि कृपां कृत्वा कञ्चित्कालमिहावस ।। १५ 

ज्योतिषां पारदृश्वा त्वं ब्रह्मन्नस्यात्मजस्य मे । पश्य भाग्योदयः सम्यग्भविष्यं शास्त्रचक्षुषा ।। १६ 

नामकर्ममुहूर्तं च निश्चित्यास्य त्वमेव हि । कुरु नाम महाभाग ! गौणमार्क्षं च तत्त्वतः ।। १७ 

इति सम्प्रार्थितस्तेन मृकण्डतनयो मुनिः । पञ्चाङ्गपत्रे निश्चित्य मुहूर्तं नाम्न आह तम् ।। १८ 

एकादशाहादिदिने विष्टयादिदोषसम्भवात् । नाम्न्यकृते तु तत्कार्यं शतरात्रव्यतिक्रमे ।। १९ 

श्वः सप्तम्यां गुरावस्य लग्ने कर्कटकाह्वये । सौम्येषु केन्द्रसंस्थेषु नामकर्म विधीयताम् ।। २० 

शुभाशुभं च यद्बावि सुतस्यास्य तदप्यहम् । नामान्ते कथयिष्यामि जन्मकालं विचार्य ते ।। २१ 

इत्युक्तः सोऽतिसंहृष्टः सम्पाद्योपस्करं तदा । प्रातः क्षणे तृतीयेऽह्नः प्राररम्भे च कर्म तत् ।। २२ 

वृद्धिश्राद्धं स कृत्वादौ पार्थिवाख्यहुताशनम् । प्रतिष्ठाप्याचरद्धोमं तत्र व्याहृतिपूर्वकम् ।। २३ 

ततोऽस्य विदधन्नाम मुनिरन्वर्थमब्रवीत् । अन्तर्दृष्टयैव कृष्णस्य जानन्सर्वं चिकीर्षितम् ।। २४ 

युवयोश्च स्वकीयानां हर्ताऽसावापदो द्विज ! । हरिसंज्ञोऽस्त्वतः कर्कराशिस्थेन्दोश्च जन्मनि ।। २५ 

कृष्णाख्यः कृष्णवर्णत्वात्स्वस्मिंश्चाकर्षणाद्धृदः । मधुमासजनेश्चासौ सुतो भवति ते भुवि ।। २६ 

एतन्नामद्वयं विप्र ! पुत्रस्य तव यन्मया । कथितं व्यस्तमपि तत्समस्तं च भविष्यति ।। २७ 

त्यागज्ञानतपोधर्मैः पार्वतीपतिना समः । एष भावी च योगेन नीलकण्ठाभिधोऽस्त्वतः ।। २८ 

एवंविधान्यनेकानि गुणकर्मानुसारतः । नामान्यस्य भविष्यन्ति त्वत्सूनोर्द्विजसत्तम ! ।। २९ 

कथाश्रुतौ हरेरेष पृथुतुल्यो भविष्यति । भक्तया च तद्वशीकारे क्षमायां चाम्बरीषवत् ।। ३० 

दास्ये भगवतश्चैष भविता हनुमत्समः । कार्याकार्यनयज्ञाने भविता विदुरोपमः ।। ३१ 

शुकवत्तीव्रवैराग्ये बुद्धौ जनकराजवत् । प्रह्लादवच्च भविता कृष्णस्यैष सदाग्रहे ।। ३२ 

मायादितत्त्वभिन्नात्मज्ञाने तु कपिलोपमः । दत्तात्रेयोपमो दोषत्यागे चैष गुणग्रहे ।। ३३ 

अधर्मसर्गभीरुत्वे युधिष्ठिरनृपोपमः । दयालुतोदारतयोर्भाव्योऽसौ रन्तिदेववत् ।। ३४ 

एष नारदवद्बाव्यो विष्णोर्निश्चयकारणे । इन्द्रियारिजये चैष भविष्यत्यर्जुनो यथा ।। ३५ 

कृष्णांघ्रिरेणुमाहात्म्यज्ञाने चाक्रूरसन्निभः । भगवद्बक्तमाहात्म्यज्ञाने भाव्य इवोद्धवः ।। ३६ 

साधुतायामेष भूमावार्षभो भरतो यथा । भविष्यत्यग्रहण्यो वै त्यागिनामात्मदर्शिनाम् ।। ३७ 

नानाप्रश्नोत्तरविधावुत्तरोत्तरयुक्तिषु । तुल्यो गीष्पतिना भाव्यो धैर्ये चैष बलिर्यथा ।। ३८ 

करेऽस्य पद्मं च सृणिरूर्ध्वरेखादिकं पदोः । भवन्तीति भविष्योऽसौ नेता नणां हि लक्षशः ।। ३९ 

कष्टेभ्यो निखिलेभ्योऽपि सर्वदा सुत एष वाम् । कर्ता संरक्षणं धर्म ! यथा विष्णुः सुधाभुजाम् ।। ४०

एवंविदानेकगुणो भविष्यत्यात्मजस्तव । गुणानां प्राप्यते नान्तो मया त्वस्य महीयसाम् ।। ४१ 


सुव्रत उवाच -

इत्युक्त्वा विरतायास्मै मुनये स ददौ मुदा । नूत्नवासांसि भूषाश्च बहुलं द्रविणं नृप ! ।। ४२ 

उषित्वैकं दिनं तत्र मार्कण्डेयोऽन्यवासरे । कृष्णेक्षाद्यतिसन्तुष्टस्तीर्थराजं ययौ ततः ।। ४३ 

श्रुत्वात्मजस्य स गुणानभिवाञ्छनीयान्प्राप्तैर्महत्त्वपदवीमपि सज्जनौघैः ।
धर्मः सभार्य उदितोत्कटहर्षवार्धिमग्नो बभूव नृप ! विस्मृतलोककार्यः ।। ४४ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
नामकरणविधाननामा चतुर्विंशोऽध्यायः ।।२४।।