पञ्चविंशोऽध्याय

सुव्रत उवाच - 

पञ्चमे मासि पुत्रस्य पुत्रदैकादशीदिने । मुहूर्ते सप्तमे धर्मश्चक्रे भूम्युपवेशनम् ।। १ ।। 

वराहं धरया साकमिहानर्च वृषो मुदा । गीतवादित्रनादैश्च निगमध्वनिभिः सह ।। २ ।। 

सप्तमे मासि पुत्रस्य स योगे गुरुपूर्णयोः । सम्पूज्य कुलदेवादीन्कर्णवेधमकारयत् ।। ३ ।। 

सौचिकः कुशलो रौप्यसूच्या द्विगुणसूत्रया । विव्याध कर्णं दक्षादिं वेदमन्त्राभिमन्त्रितम् ।। ४ ।। 

इषशुक्लद्वितीयायां तुलालग्ने शिशोर्वृषः । चक्रेऽन्नप्राशनं राजन्मङ्गलस्ननपूर्वकम् ।। ५ ।।

कृत्वाभ्युदयिकं पूर्वं प्रतिष्ठाप्यानलं शुचिम् । चकार चरुहोमादि ब्रह्मादीनां च पूजनम् ।। ६ ।। 

तं मन्दहासविकसन्मुखमात्ममातुरुत्सङ्गगं च समलंकृतमर्भकं सः ।
तूष्णीं सकृत्करसुवर्णधृतं सदन्नं प्रीत्याऽऽदयद्दधिहविर्मधुभिर्विमिश्रम् ।। ७ ।। 

वृत्तिं परीक्षितुमथास्य पुरः सवस्त्रपात्रायुधादि निदधे वसु पुस्तकं च ।
तत्राग्रहीत्स तु सुतोऽन्तिममेव हर्षान्न्यस्तं पदार्थमिति हर्षमवाप तातः ।। ८ ।।

सम्पोष्यमाणोऽनुदिनं पितृभ्यां स वर्धते स्मेन्दुरिवाद्यपक्षे ।
स्वबाललीलाचरितैरुदारैर्जहार चेतांसि निजेक्षकाणाम् ।। ९ ।।

दम्पत्योः पुत्रभावेन हरिं लालयतोस्तयोः । तदात्मनोरहोरात्रा यान्ति स्म क्षणवद्द्रुतम् ।। १० ।। 

तदीक्षकाणां नारीणां पुंसा च स्थगितात्मनाम् । प्रवष्टुं नाशकत्क्व ापि हृदये भववेदना ।। ११ ।। 

वृद्धा अपि च विद्वांसस्तत्प्रेमविवशान्तराः । चिक्रीडुस्तेन साकं वै विस्मृतात्मीयवार्धकाः ।। १२ 

कल्याणमूर्तिर्भगवांस्तेषां निःश्रेयसाय सः । यथा यथा मनोवृत्तिं स्वस्मिन्स्यादकरोत्तथा ।। १३ ।। 

बालं तं लालयन्तीनां योषितां स्न्ग्धिचेतसाम् । नाभूत्स्वपरभेदो वै सर्वासामपि भूपते ! ।। १४ ।।

वृद्धास्तं पुत्रभावेन भ्रातृभावेन चापराः । लालयन्त्यो दिवा रात्रौ सस्मरुर्न गुहान्निजान् ।। १५ ।।

तस्याः करात्सा तस्याः सा तस्याः सेति पुनः पुनः । प्रेम्णा बालं जिघृक्षूणां त्वं न त्वं नेत्यभूत्कलिः ।१६

बाला तु नान्तरं लेभे सुतं लालयितुं निजम् । नानेति नानानारीणां वचनैर्वारिता मुहुः ।। १७ ।। 

कन्कनं मन्मनं चाथ ब्रुवन्तं बालकाकलीम् । ता योषितोऽम्ब ! तातेति वादयन्ति स्म तं मुहुः ।। १८

हासयंस्तास्तदाऽब्रूत कलमर्धाक्षरैः पदैः । आद्यैऽब्द एव सोऽशिक्षद्बाषितुं हिण्डितुं शिशुः ।। १९ 

आनन्दयन्निजजनानित्थं शैशवलीलया । वर्षमाद्यं व्यतीयाय स्वेच्छानरवपुर्हरिः ।। २० ।। 

विवाहं ज्येष्ठपुत्रस्य धर्मश्चक्रे कुलोचितम् । सम्भारेणैव महता तद्देशाधिपतिर्यथा ।। २१ ।। 

बलदेवाभिधो विप्रो निजकन्यां सुवासिनीम् । ददौ रामप्रतापाय विधिना समलंकृताम् ।। २२ ।। 

सुशीला सा तु तं प्राप्य पतिं परमधार्मिकम् । प्रीत्यानुवृत्त्या च गुणैः साध्वीधर्मस्थिताभजत् ।।२३।

द्वितीयवर्षारम्भेऽथ नवम्यां तु महोत्सवम् । हरिप्रसादः पुत्रस्य कारयामास भूपते! ।। २४ ।।

हनूमन्तं बलिं व्यासं कृपं द्रौणिं विभीषणम् । मार्कण्डेयं पर्शुरामं विधिना समपूपुजत् ।। २५ ।।

ब्राह्मणान्भोजयामास हरिभक्तान्सहस्रशः । ईप्सितैः सुरसैर्भोज्यैर्ददौ तेभ्यश्च दक्षिणाः ।। २६ ।। 

बालमूर्तौ भगवति सर्वेषामपि देहिनाम् । तस्मिन्भूयानभूत्प्रेमा तत्प्रित्रोस्तु विशेषतः ।। २७ ।। 

प्राप्ते तृतीये वर्षेऽथ पिता चौलमकारयत् । पुत्रस्यातिविनीतस्य वृद्धेभ्योऽप्यतिधीमतः ।। २८ ।।

शुक्रस्य कृष्णपञ्चम्यां धिषणे वासवे च भे । आहूय वैदिकान् विप्रांस्तच्चकार यथाविधि ।। २९ 

विधाय मङ्गलस्ननं मातृपूजनपूर्वकम् । नान्दीश्राद्धं च पुण्याहवाचनं स त्वकारयत् ।। ३० ।। 

सभ्यमग्निं प्रतिष्ठाप्य पात्रासादनमाचरत् । धर्मः स्वकुलधर्मज्ञो विधिज्ञाब्राह्मणोदितम् ।। ३१ ।। 

तत्रैकविंशतिकुशपिञ्जुलीर्दक्षभागतः । अग्नेर्न्यधाद्वामतस्तु रक्तगोगोमयादि च ।। ३२ ।।

कृत्वा व्याहृतिहोमादि क्षुरमादाय चायसम् । कपुष्णिकाच्छेदविधिं चकार स नराधिप! ।। ३३ ।। 

कुलाचारात्तु सशिखं मुण्डनं नापितेन सः । कारयामास पुत्रस्य गोदानादि ततोऽकरोत् ।। ३४।।

भूरिसर्पिःशर्कराढयसहकाररसादिभिः । तर्पयामास शतशो ब्राह्मणान् परया मुदा ।। ३५ ।। 

ततः स्वज्ञातिबन्धूंश्च ग्रामस्थानितरानपि । भोजयामास विप्रेन्द्रो जनांश्चागन्तुकानपि ।। ३६ ।। 

तत्कर्मणि व्यग्रचित्ता भक्तिर्माता तु तद्दिने । प्राणप्रियस्यापि सूनोर्नासीत्सम्भावनक्षमा ।। ३७ ।। 

अर्भकेभ्यः किशोरेभ्यः सुतं लालयितुं सती । समर्प्याभ्यागता योषाः साऽर्हयामास भूपते ! ।।३८

क्रीडन्तो भोजनान्ते गतवति तरणावप्युपान्त्यं मुहूर्तं ।
घस्रस्यार्भं गृहीत्वा तमपि च परमप्रीतितो बालकास्ते ।।
उद्यानं ग्रामतः प्राक् पुरुविटपितति प्राप्य तत्रातिहृष्टाः ।
पक्वान्यादन् रसालद्रुमपतितफलानीक्षमाणा द्रुमालिम् ।। ३९ ।।

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
चौलसंस्कारविधिनामा पञ्चाविंशोऽध्यायः ।।२५।।