षड्विंशोऽध्यायः

सुव्रत उवाच -

क्रीडत्सु तत्र बालेषु भक्षयत्सु फलानि च । अस्ताद्रिं भास्करः प्रायात्तमः प्रावर्ततानघ ! ।। १ ।।

तावत्तत्रासुरगुरुः कालीदत्त उपागमत् । व्यथींभूतात्मसंसृष्टकृत्यागणबलो द्रुतम् ।। २ ।।

कपटोपात्तसद्वेषो मायिको रिपुरन्ध्रवित् । तेषु बालेषु चिक्रीड जघांसुर्भक्तिनन्दनम् ।। ३ ।।

क्रीडन्वक्रारुणाक्षिभ्यां भीषयामास बालकान् । जिघृक्षुर्धर्मजं वेगात्तदन्तिकमुपाययौ ।। ४ ।।

प्रसारितकरद्वन्द्वोऽपि ग्रहीतुं तमर्भकम् । संवर्ताग्निनिभं पश्यन्न शेकेऽपि निरीक्षितुम् ।। ५ ।।

दुर्धर्ष्यं स्वेन तं ज्ञात्वा मन्त्रिकः स दुराग्रहः । प्रावर्तयद्धरिं हन्तुं मायामासुरसम्मताम् ।। ६ ।।

बहुकालं साधितेन तेन मन्त्रेण योजिता । वर्धमाना प्रादुरभून्माया जनभयङ्करी ।। ७ ।।

ववौ वातो महावेगो द्रुमोन्मूलनकृत् खरः । आसीद्धनघटा व्योम्नि प्रास्फुरन्तु च विद्युतः ।। ८ ।।

धाराभिर्ववृषुस्तोयं गर्जन्तो जलदा भृशम् । आकस्मिक इवोत्पातः स कालोऽभूद्बयङ्करः ।। ९ ।।

अतिवातातिवृष्टिभ्यां बहवोऽपि महाद्रुमाः । निपेतुस्तेन शतशो विनेशुः पशुपक्षिणः ।। १० ।।

अन्धकारो महानासीद्धनाघनघटावशात् । आत्मानं च परं कोऽपि नापश्यत्तेन भूमिप ! ।। ११ ।।

अरोदनस्वभावत्वाद्धरिं भूमौ निधाय ते । किशोरा हासयन्तस्तं क्रीडन्ति स्म यथारुचि ।। १२ ।।

आकस्मिक्याऽतिवृष्टया ते व्याकुलाश्च ससम्भ्रमाः । तिष्ठन्ति स्म द्रुमाघस्तात्सकम्पा आर्द्रवाससः ।१३

अद्यक्षणे क्षणान्ते वा विरतिर्वातवर्षयोः । भवितेति प्रतीक्षां ते कुर्वन्तस्तत्र संस्थिताः ।। १४ ।।

प्रतिक्षणं वर्धमाना वृष्टिर्वातश्च दुःसहः । यदा नोपारमत्तर्हि जाताश्चिन्ताभयाकुलाः ।। १५ ।।

यत्र हारिप्रसादिस्तैर्न्यस्तस्तं तु वनद्रुमम् । विस्मृत्यान्यत्र तं सर्वे विचिक्युः प्राप्तसम्भ्रमाः ।। १६।।

हरिकृष्ण ! हरे ! कृष्ण ! नीलकण्ठेति तं च ते । उच्चकैराह्वयन्ति स्म भयगग्ददया गिरा ।।१७।।

तेषां शब्दं स नाश्रौषीत्तस्य शब्दं च तेऽखिलाः । वातवर्षातिविततघोरशब्दोपबृंहणे ।। १८ ।।

धर्मात्मजमपश्यन्तो रुरुदुस्तत्र तत्र ते । चिन्ताव्याकुलितात्मानो गतधैर्या विचेतसः ।। १९ ।।

अहो किमेतदस्माभिः कृतं भाग्यविवर्जितैः । आनीतो द्विजराजस्य हा हा बालः कुतो न्विह ।। २० 

गत्वा ग्रामं वयं लोकान्किं वदिष्याम उत्तरम् । कथं वा दर्शयिष्यामो भक्तयै धर्माय चाननम् ।। २१ 

भयेन वेपमानानामिति चिन्ताकुलात्मनाम् । दुःखान्तो नाभवत्तेषां बहवस्तेषु मूर्च्छिताः।। २२ ।।

हरिरथ हृदि तामवेत्य मायामसुरजनने कृतां स्वनाशहेतोः ।
अनुदितविकृतिस्तथैव तस्थावचल इवाचलमूर्तिरात्मदृष्टिः ।। २३ ।।

प्रबलतरमरुद्रयाभिघाताद्धिमशिखरिच्युतगण्डशैलरूपः ।
न्यपतदुपरि तस्य बालमूर्तेः सपदि विभग्नपदो महाम्रवृक्षः ।। २४ ।।

पतितः स महावृक्षः स्ववक्रत्वावकाशगे । छत्रायितः कुमारेऽभूद्वातवर्षनिवारकः ।। २५ ।।

विलोक्य बालं जीवन्तं महाद्रुमतलेऽपि तम् । प्रासारयत्करौ द्वौ च ग्रहीतुं पुनरेव सः ।। २६ ।।

तावत्तद्बालदृष्टयैव मुमोह भ्रान्तविह्वलः । ग्रहाविष्ट इवारण्ये बभ्राम स इतस्ततः ।। २७ ।। 

बाला विद्युत्प्रकाशेन तमपश्यन्भयाकुलाः । उत्तिष्ठन्तं पतन्तं च भ्रमन्तं च यतस्ततः ।। २८ ।।

पतत्पतितवृक्षौघाघातभूरिक्षताङ्गकः । पुष्पितः किंशुक इव दृश्यमानो मृतिं ययौ ।। २९ ।। 

एवं हि भगवान् कृष्णो विशस्त्रोऽपि महामतिः । स्वप्रतापेन तन्नाशं करोति स्म निजेच्छया ।।३०।।

वृष्टिवातौ मृते तस्मिन् ययतुर्विरतिं शनैः । उच्छ्वासं लेभिरे तेन मूर्च्छितास्तत्र बालकाः ।। ३१ ।।

अथ ग्रामे भक्तिधर्मौ जनाश्चान्ये द्विजादयः । अनागतान्स्वस्वपुत्रान्विचिक्यू रजनीमुखे ।। ३२ ।।

अतिवातादि तदृष्ट्वा न दृष्ट्वा चात्मजान् क्कचित् । अत्युद्विग्ना बभूवुस्ते सम्भ्रान्तमनसो नृप ! ।३३

वामाङ्गान्यस्फुरन् पुंसां दक्षाङ्गानि च योषिताम् । मेनिरे तेन पुत्राणां रिष्टप्राप्तिं तु ते हृदि ।। ३४ ।।

अतिवातातिवृष्टिभ्यां महासन्तमसेन च । पुत्रार्त्या च विशेषेण न्यपतंस्त इतस्ततः ।। ३५ ।। 

निश आद्ये गते यामे वाते मन्दरये सति । वर्षे च विरते ते तु प्राबुध्यन्त हरीच्छया ।। ३६ ।।

काचयन्त्रप्रदीपांस्ते महतीर्दीपिका अपि । कारयित्वा तदुद्यानं ययुरुद्विग्नचेतसः ।। ३७ ।।

खङ्गचर्मधनुर्हस्ताः कतिचिद्यष्टिपाणयः । ययुर्ग्रामजनाः सर्वे पुत्र पुत्रेति वादिनः ।। ३८ ।।

आत्मीयबन्धुधृतबाहुयुगोऽथ धर्मो विस्रस्तस्त्रपरिवेष्टितगात्रयष्टिः ।
कण्ठागतासुरसुरारिनिजात्मजात्मा मार्गे चचाल शनकैः प्रविकीर्णकेशः ।।३९।। 

भक्तिः शशाङ्ककलिताम्बुजतुल्यवक्त्रा हे कृष्ण ! कृष्ण ! मम बाल इतीरयन्ती । 

पार्श्वद्वयस्थतरुणीधृतबाहुयुग्मा कृष्णासुरध्वनि चचाल विजीवितेव ।। ४०।।

रामप्रताप उरुदुःखभरस्तदानीं शोचन् स्वसोदरमतिप्रियतावशत्वात् ।
मार्गे चचाल शनकैश्च वयस्यवर्यैः साकं रुदन्नतितरां विवशः सकम्पः ।। ४१ 

श्रद्धादयस्तु ललनाः सुकृतान्तिकस्थास्तर्ह्येव दिव्यवपुराशुजवा पुरस्तात् ।
निर्गत्य चोपवनिकां सपदि प्रपद्य भग्नाम्रवृक्षतलगं ददृशुः स्वबालम् ।। ४२ ।।

संवीक्ष्य ताः स्नुतपयोधरहेमकुम्भा तर्षादुपेत्य जगृहुः पुरुकम्पगात्रम् ।
आदाय चाङ्कमनुरागभरेण बालं स्वं स्वं स्तनं नृप ! मुदा तमपाययंश्च ।। ४३ 

पुत्रस्न्ेहभरं तासामात्मन्यनुपमं हरिः । दृष्ट्वा तत्प्रीतये सद्य आसीद्द्वादशमूर्तिधृत् ।। ४४।।

पपौ स्तनरसं तासां पीयूषमधुरं शिशुः । हरिर्ममाङ्क एवास्ति नान्यत्रेत्यविदंश्च ताः ।। ४५ ।।

अभूवन् पूर्णकामास्ताः सर्वा अपि तदा नृप ! । कृष्णः प्रेमवतां स्वस्मिन् ह्यस्ति कल्पतरूपमः ।।४६

अथाययुः साश्रुनेत्रास्तत्र ते ग्रामवासिनः । विचिन्वन्तः सुतान्प्रापुर्मूर्च्छोत्थान्रुदतो भृशम् ।। ४७ ।।

जीवतः स्वात्मजान्प्राप्य ग्राम्या आसन् गताधयः। कुत्र धर्मसुतोऽस्तीति ते तान् पप्रच्छुरात्मजान् ।। ४८

तदा त ऊचुरस्माभिरिह द्रुमतलेऽर्भकः । न्यस्तो धर्मस्य खेलार्थं तत्र त्वद्य न दृश्यते ।। ४९ ।।

वज्रपातोपमं वाक्यं तन्निशम्यातिदुःखिनः । कुर्वन्तो भृशमाक्रोशं व्यचिन्वंस्तमितस्ततः ।। ५०।।

तदा श्रद्धादयः कृष्णं विन्यस्याधो द्रुमस्य ताः ।  स्थाने स्वकरसंमृष्टे जनादृश्याः समासतः ।। ५१ 

मार्गयन्ती शिशुं तत्र मातुली सुन्दरी हरेः ।  ददर्श बालं सहसा निर्भयं स्वस्थमास्थितम् ।। ५२ ।।    

मया लब्धो मया लब्धः शिशुरित्युच्चभाषिणी ।  गृहीत्वा तं ददौ भक्तयै सा च तस्यै ललन्तिकाम् ।५३

प्राप्यात्मजं हृदालिङ्गय भक्तिः स्नुतपयोधरा ।  पाययन्ती स्तनं मेने पुनर्जातमिवात्मजम् ।। ५४ ।।

धर्मो रामप्रतापश्च ज्ञातयो ग्रामवासिनः ।  अक्षतावयवं प्राप्य कुमारं लेभिरे मुदम् ।। ५५ ।।

ततोऽसुरगुरुं दृष्ट्वा पतितं ते ससम्भ्रमाः ।  पप्रच्छुः को मृतो ह्येष बाला ऊचुस्तदा वचः ।। ५६ 

अस्मान्विभीषयन्नेष हन्तुकामो हरिं रुषा ।  अजिघृक्षत्प्रसार्य द्वौ बाहू विकृतलोचनः ।। ५७ ।।

अनेन दृष्टमात्रोऽसौ नीलकण्ठेन तत्क्षणम् ।  इतस्ततो भ्रमन्नेव ममार नात्र संशयः ।। ५८ ।।

श्रुत्वा तद्बालवचनं विस्मिताः सभयाश्च ते ।  ऊचुर्दिष्टया मृतः पाप्मा स्वस्य वै पापकर्मणा ।। ५९ ।।

ततोऽतिहृष्टाः सर्वेऽपि ग्राममीयुर्निशाकरे । उदिते महदाश्चर्यमापन्ना धरणीपते ! ।। ६० ।।

भक्तिधर्मौ तु तच्छ्रुत्वा बालवाक्यं स्वचेतसि । कृष्णं सस्मरतुस्तावज्ज्ञानमासीत्तदिच्छया ।। ६१ ।।

मृतोऽसौ पुरुषो नूनं कालीदत्ताभिधोगुरुः । असुराणां येन पुरा वयं मुहुरुपद्रुताः ।। ६२ ।।

बालोऽपि नैव खलु मायिकविग्रहोऽसौ नारायणः स्वयमृषिर्धृतमर्त्यनाटयः ।
वृन्दावने वरद एष हि नौ स्वकीयं जातो वरं सफलयन्भुवि नौ निकेते ।।६३।।

असुराणां वधोऽनेन रिपूणां नौ दुरात्मनाम् । आवयो रक्षणं चेति प्रतिज्ञातं प्रसीदता ।। ६४।।

अतोऽनेनैव निहतो मायिकोऽसुरराडसौ । अन्यथा शक्नुयात्को वा हन्तुमेनं महाबलम् ।। ६५ ।।

बलेनास्यैव सर्वेऽपि बलिनः सन्ति दानवाः । मृत्युनास्यैव सर्वेषां तेषां मृत्युरभूत्किल ।। ६६ ।।

एषोऽसुराणां मूलं वै सर्वेषामपि भूतले । मूले छिन्नेऽथ शाखानां पृथग्नाशो न विद्यते ।। ६७ ।।

अहो भगवताऽनेन विशस्त्रेणापि धीमता । बाल्य एव हतः सद्यो दैत्येशोऽग्रे तु किं पुनः ।। ६८ ।।

आवयोः पोषणं भूमावेष एव करिष्यति । जा
तौ हि निर्भयावावामस्मदीयाश्च सर्वशः ।। ६९ ।।

किं वर्ण्यं भक्तवात्सल्यं कृष्णस्यास्य दयानिधेः । इत्युत्सुकहृदालिङ्गय तस्थतुर्निर्वृतौ भृशम् ।।७०

ततो हरिर्निजज्ञानं तयोरपाहरत्पुनः । आसीद्यथापुरा धर्मः सभार्यः पुत्रधीर्हरौ ।। ७१ ।।

महोत्पातेऽपि बालस्य जीवनं च रिपुक्षयम् । मेने कृष्णप्रसादं तं कुलदेवकृपां च सः ।। ७२ ।।

व्यतीतायां निशि प्रातर्धर्मो धर्मविदां वरः । विघ्नोपशमनं होमं कारयामास वाडवैः ।। ७३ ।।

पाठांश्च कारयामास श्रीनारायणवर्मणः । ब्राह्मणान्भोजयामास ददौ धेनूश्च काञ्चनम् ।। ७४ ।।

पूजनं बलिदानं च कुलदेवस्य स द्विजः । मारुतेः कारयामास विधिज्ञौर्वैदिकैर्द्विजैः ।। ७५ ।। 

वन्दनं कारयामास निजपुत्रेण तस्य च । ब्राह्मणानां च सर्वेषामाशिषस्ते ददुः शुभाः ।। ७६ ।।

रमणीयतरः स्वभावतः कृतसंस्कारविधिस्तु सोऽर्भकः । विबभाविव नील ऊर्जितो मणिरुत्तेजित आकरोद्बवः ।। ७७ ।।

एतच्चरित्रं भवभीतिहर्तुर्हरेरुदारं कथितं मया ते । यः कीर्तयेद्यः श्रृणुयाच्च राजन्न दुर्लभा तस्य सभुक्तिमुक्तिः ।। ७८ ।।


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
चौलसंस्कारेऽसुमायोपमर्दे कालीदत्तमरणं नाम षड्विंशोऽध्यायः ।।२६।।