सप्तविंशोऽध्याय

सुव्रत उवाच - 

हरिप्रसादो विप्रर्षिः स्वग्रामेऽसुरसम्भवम् । उपद्रवं मुहुर्दृष्वा स्थातुमैच्छन्न तत्र तु ।। १ ।।

पुण्यक्षेत्रावासरुचिर्धनधान्यसमृद्धिमान् । सद्यो विहाय तं ग्राममयोध्यां गन्तुमैहत ।। २ ।।

गृहोपस्करमाधाय शकटादिषु सप्रियः । पुत्रादिभिः सह ययौ साकेतनगरीं नृप ! ।। ३ ।।

सज्येष्ठतनयो धर्म एकं शकटमारुहत् । हरिमुत्सङ्गमाधाय भक्तिरेकं च सस्नुषा ।। ४ ।।

श्रृण्वन् सुतस्य कलकाकलिकामुदारां पश्यंश्च तद्वदनपङ्कजनिं मुहुः सः ।
धर्मोऽतिहर्षनिभृतो न विवेद मार्गं क्रान्तं च मार्गजनमस्य तथैव पत्नी ।। ५ 

अह्नश्चतुर्दशमुहूर्त उदारबुद्धिस्तीरं मनोहरमवाप वृषः सरय्वाः ।
साकं सुहृद्बिरवलोकयति स्म साक्षात् तामम्बुराशिपरमप्रिययोषितं च ।। ६ 

स्ननेन यस्यादृशिमात्रतोऽपि याति क्षयं पापगणोऽपि पुंसाम् ।
या रामवाःकेल्यतिपूततोया नाम्नाप्यघानामतिभीतिदात्री ।। ७ 

ग्रामोपमाभिश्च पुरोपमाभिर्महातरीभिर्विततान्तराभिः ।
या शोभमाना च तरङ्गजालैः शब्दायमानैर्बहुभिः समन्तात् ।। ८ 

या पूजिता चन्दनपुष्पधूपैर्दीपावलीभिश्च फलैर्जनौघैः ।
क्रीडत्तिमिव्रातविसर्पणेन शोभामुपेता कविवर्णनीयाम् ।। ९ 

या मानसाख्यात्सरसः प्रजाता सन्नादिता मानसवासिभिश्च ।
तटद्रुमालिप्रतिबिम्बदृश्या सेव्या निजस्वान्तविशुद्धिकामैः ।। १०

तरीमथारुह्य महानदीं तां सहात्मपोष्यैर्वृष उत्ततार ।
उपस्करं नौनिहितं च सर्वं सम्भावयामास पुनः प्रतीरे ।। ११ 

पुरीमयोध्यां समवाप्य तत्र हरिप्रसादः प्रससाद चित्ते ।
तावत्प्रतीचीनगिरिं दिनेशो जगाम राजन्नरुणाङ्गवर्णः ।। १२ 

सहस्रशोदीपततीस्तदानीं सौधेषु तीरे च जनाः सरय्वाः ।
चक्रुश्च यासां प्रतिबिम्बवृन्दैः सर्वा नदी दीपमयीव रेजे ।। १३ 

तत्र द्विजान् कुर्वत एव सन्ध्यां दृष्ट्वा विधाय स्न्पनं स्वयं च ।
पितृप्रसूपासनमाचचार प्रत्यंमुखः कर्मविधिप्रवीणः ।। १४ 

स्वर्गद्वाराभिधे तत्र कृतसन्ध्याविधिर्द्विजः ।तीर्थे ततो लक्ष्मणस्य दर्शनं कृतवान्मुदा ।। १५ ।।

तुलसीपुष्पवृक्षादिशोभितात्तीर्थतस्ततः ।प्रविवेश पुरीं रम्यां यामाहुर्मुक्तिदां बुधाः ।। १६ ।।

योजनानि दश द्वे च याऽयता सरयूमनु ।विस्तीर्णा त्रीणि च प्रोक्ता मनुना निर्मिता स्वयम् ।। १७ 

इक्ष्वाकुवंश्यभूपानां राजधानीति योदिता ।यत्र साक्षाद्वासुदेवो रामनामाजनि स्वयम् ।। १८ ।।

फलपुष्पभरानम्रनानाद्रुमलतादिभिः । शोभमानैर्बहुविधैरुद्यानैः परितो वृता ।। १९ ।।

रथ्यामहाध्वापणचत्वराणि यस्यां विभक्तानि च मार्जितानि ।
भवन्ति नित्यं च सुपूजितानि द्वाराणि दध्यक्षतुकुङ्कुमाद्यैः ।। २० ।।

सौधैर्विशालैरथ साप्तभौमैः कैलासभूभृच्छिखरोपमेयैः ।
पङ्क्तिस्थितैः शुभ्रतरैरनेकैर्विराजमाना च मठादिभिर्या ।। २१ ।।

जनाश्चतुर्वर्णभवास्तु यस्यां वसन्त्यसङ्कीर्णगृहालयश्च ।
स्वं स्वं च धर्मं परिपालयन्तो धर्मावतारस्य हरेः प्रतापात् ।। २२ ।।

सुसङ्कुला या करिणां घटाभिश्चतुर्विधानां च विभूषितानाम् ।
सुलक्षणैर्वातजवैस्तुरङ्गैर्वृषैश्च मत्तैरिव भद्रनागैः ।। २३।।

शुश्राव तस्यां प्रतिराममन्दिरं घस्रान्तनीराजनपद्यगीतिकाः ।
वीणामृदङ्गाम्बुजतालझल्लरीतूर्यानकानां निनदांश्च सोऽनघ ! ।। २४ ।।

दीपावलीभ्राजितपङ्क्तिसंस्थविचित्रपण्यापणवीथिकाः सः ।
पौरांश्च देवानिव राजमानान् पश्यन्नतीयाय पुरं सपोष्यः ।। २५ ।।

रामघाटस्य निकटे वरहट्टाभिधं ततः । तच्छाखानगरं प्राप चातुर्वर्ण्यजनाश्रितम् ।। २६

त्रेताग्निप्राश्यमानानां हविषामतिसौरभम् । जिघ्रंस्तत्राकरोद्वासं निजप्राचीनकेतने ।। २७ 

त्रिकालं सरयूस्ननं सन्ध्यादीनि च नित्यदा । कुर्वन्कर्माणि नित्यानि कृष्णे भक्तिं समाचरत् ।। २८ 

क्रियमाणां कृष्णभक्तिं पित्रा कृष्णोऽर्भकोऽपि ताम् । दृष्ट्वा तथा स्वयमपि करोति स्मार्भलीलया ।।२९

स बालः शैशवेऽप्यासीत्साधुशीलगुणान्वितः ।
कृष्णार्चादिरुचिस्त्यक्तग्राम्यक्रीडापरिच्छदः ।। ३०

स्नतुं स तूषसि प्रायत्सरयूं जननीमनु । प्रत्यहं शीतकालेऽपि कर्मठब्राह्मणो यथा ।। ३१।

गृहमेत्यार्चयामास कृष्णं बालपरिच्छदैः । तल्लग्नमानसतयाभोज्यादि क्वापि नास्मरत् ।। ३२

पित्रा जनन्याप्याहूतः सवयोभिश्चबालकैः । कृष्णध्यानपरः क्वापि सुचिरं न शृणोति तत् ।। ३३

बाल्ये विष्णुकथाकीर्तिश्रवणोत्सुक आस सः । रामायणं तु बहुशो ह्यश्रृणोत्तत्र तत्र च ।। ३४

प्रायशो रामभक्तानां समागमवशात्तु सः । प्राप श्रीजानकीनाथे भक्तिं भक्तजनप्रिये ।। ३५ 

त्यक्तग्राम्यविहारधीः स भगवानब्दं जनेः पञ्चमं । प्राप्तः स्वीकृतशुद्धसाधुसरणिस्तां स्थापयन्भूतले ।। 

नादेयाम्भसि नित्यमाप्लवविधिं प्रातर्विधायादरात् । साकेता खिल देवता नमयितुं याति स्म तत्तद्गृहान् ।। ३६ ।।

सीतालक्ष्मणगन्धवाहतनयैर्युक्तं च रामं भजन् । श्रीमद्बागवतं पुराणमखिलं रामायणं चाशृणोत् ।।
प्रीतिं नैव बबन्ध कुत्रचिदसौ सांसारिके वस्तुनि । स्वृद्धे वेश्मनि मातृपितृपशुषु द्रव्येषु मित्रेष्वपि ।। ३७ ।।

सद्धर्मानपि कृष्णभक्तपितृतः शुश्राव सर्वानसौ । श्रौतस्मार्तविदस्ततश्च निखिलान्वर्णाश्रमाणां वृषान् ।।
धर्मांश्चाखिलयोषितां स्वजननीवक्त्रादशेषानसौ । सर्वज्ञोऽपि नृनाटनं परिचरन्बाल्येऽभवत्पण्डितः ।। ३८ ।।

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मस्यायोध्यागमनं नाम सप्तविंशोऽध्यायः ।। ३७ ।।