अथ विंशोऽध्यायः

सुव्रत उवाच -

अस्मिन्नब्दे मधौ शुक्ले द्वितीयायां भृगौ नृप ! । दस्ने सिंहे हरिं धर्मो विद्यारम्भमकारयत् ।। १ 

लक्ष्मीनारायणं वाणीं सामवेदं च गोभिलम् । पुपूजात्र यथाशास्त्रं गणेशार्चनपूर्वकम् ।। २

कृत्वा घृतेन होमं च भोजयामास वाडवान् । तेभ्यश्च दक्षिणाः प्रादाग्दाः सुवर्णं च शक्तितः ।। ३

कुशाग्रबुद्धिः कृष्णोऽथ कालेनाल्पेन सर्वशः । वर्णानङ्कांश्च शिक्षित्वा ग्रन्थमात्रमवाचयत् ।। ४

बुद्धिं तीक्ष्णां तस्य दृष्ट्वा धर्मविद्धर्म आदरात् । वेदस्याङ्गानि षडपि पाठयामास तं नृप ! ।। ५

अनायासेन सर्वाणि तानि सोऽप्यध्यगीष्ट च । मौञ्जीबन्धात्पूर्वमेव मुमुदे तेन तत्पिता ।। ६

कौमारं समतिक्रम्य विष्ण्वर्चामयखेलनैः । पौगण्डाख्यामवस्थां स प्रपेदे धर्मनन्दनः ।। ७

षष्ठेऽब्दे माधवस्यास्य द्वितीयायां सितेरवौ । ब्राह्मे प्रातः सुतो भक्तया सुषुवेऽन्यो नराधिप ! ।। ८ 

गुणैः प्रद्युम्नतुल्योऽसौ नित्यं हरिमनुव्रतः । इच्छाराम इति ख्यातो बभूव जनपूजितः ।। ९

यामेऽन्तिमे निशो नित्यं सरयूमाप्लवाय सः । याति स्म नाममन्त्रेण रघुनाथमपूपुजत् ।। १०

चन्दनाक्षतपुष्पैश्च धूपदीपनिवेदनैः । तमभ्यर्च्य तदुच्छिष्टमुपायुंक्त न चेतरत् ।। ११

रामनामजपं कर्तुं तुलसीकाष्ठमालिकाम् । शुचिर्भूतः करे दक्षे दधाति स्मानुवासरम् ।। १२

स्नतः कृतोर्ध्वपुण्ड्रोऽसौ रामकूटप्रदक्षिणाम् । बालोऽप्यनाकुलश्चक्रे जनयञ्चनविस्मयम् ।। १३ 

जन्मस्थाने प्रतिदिनं लक्ष्मणस्य च तीर्थके । विद्याकुण्डादिषु द्रष्टुं राममूर्तीः स्म याति सः ।। १४ 

रामस्य दर्शनं कृत्वा तं प्रणम्य च दण्डवत् । रामायणश्रुतिज्ञाततन्माहात्म्यो नुनाव सः ।। १५

योऽहल्यां निजकर्मणैव महतीं प्राप्तां गतिं दुर्विधां । दीनां गौतमयोषितं निपतितां निःसाधनां कानने ।।
सद्योऽमोदयदात्मपादकमलस्पर्शेन तं पावनं रामं । जीवहितं भजेऽतिकरुणं निर्हेतुकोपक्रियम् ।। १६ ।।

यो वा तामसहिंस्रजातिजनितं क्रूरं निषादाधिपं । घोरारण्यविहारिणं पशुसमं नृणां च हीनं धिया ।।
प्रेम्णा सम्परिषस्वजे करुणयाऽनादृत्य जात्यादि । तं रामं जीवहितं भजेऽतिकरुणं निर्हेतुकोपक्रियम् ।। १७ ।।

सीताद्रोहकरं सुरेन्द्रतनयं काकाकृतिं बिभ्रतं । वध्यं चापि शरेण सर्वभुवनेष्वभ्रामयद्यः प्रभुः ।।
भ्रान्तं शोकहतं च तं स्वशरणं प्राप्तं मुमोचैव । तं रामं जीवहितं भजेऽतिकरुणं निर्हेतुकोपक्रियम् ।। १८ ।।

जात्या हीनतमां स्त्रियं च शबरीं कोलीरवन्तीमपि । ज्ञात्वा स्वेक्षणमिच्छतीं करुणया तस्यै निजं दर्शनम् ।।
योऽदादाऽश च तत्फलानि मुदितस्तं जानकीवल्लभं । रामं जीवहितं भजेऽतिकरुणं निर्हेतुकोपक्रियम् ।। १९ ।।

तिर्यग्योनिसमुद्बवस्य पललाहारस्य यः पक्षिणो । गृध्रस्यापि जटायुषो व्रततपोदानैर्विहीनस्य च ।।
चक्रेऽन्त्यां सकलां क्रियां सुत इव प्रीत्या स्वतातस्य । तं रामं जीवहितं भजेऽतिकरुणं निर्हेतुकोपक्रियम् ।। २० ।।

सुग्रीवं निजबन्धुभीतमगृहं शाखामृगाणां पतिं । दृष्ट्वा स्वं शरणं गतं कथमपि प्रीत्या स्वसख्येऽकरोत् ।।
हत्वा बालिनमाशुचैनमदधात्स्वीये पदे यश्च । ते रामं जीवहितं भजेऽतिकरुणं निर्हेतुकोपक्रियम् ।। २१ ।।

शत्रोरप्यनुजं निशाचरमपि प्राप्तं स्वपादान्तिकं । दूराद्वीक्ष्य विभीषणं प्रमुदितस्तत्सम्मुखं चैत्य यः ।।
हस्ताभ्यां परिरब्धवानिव निजं सौमित्रिमेवाशु । तं रामं जीवहितं भजेऽतिकरुणं निर्हेतुकोपक्रियम् ।। २२ ।।

यत्स्मृत्यापि शुभं भवेन्नहिनृणां तान्कीशऋक्षानपि प्रीत्या । वैदिकमन्त्रवच्छुचितरान् योऽत्रा करोत्स्वाश्रयात् ।।
अन्यांश्चापि बहूनतारयदितोजीवान्भवाब्धेर्हि । तं रामं जीवहितं भजेऽतिकरुणं निर्हेतुकोपक्रियम् ।। २३ ।।

बद्धाञ्जलिपुटो नित्यमित्थं स्तौति स्म राघवम् । गृहमेत्य स चाध्यैत वेदाङ्गान्येव भूमिप ! ।। २४ 

नाम कुर्वन् गुणानाह मार्कण्डेयोऽस्य यान्नृप ! । अनुभूयन्ते स्म सर्वे ते धर्मादिभिरञ्जसा ।। २५ ।।

योगीन्द्रस्पृहणीयैः स्वैर्नियमैर्बाल्य एव च । सर्वलोकप्रसिद्धोऽभूत्पित्रादेरपि सोऽधिकम् ।। २६ ।।

बाल्येऽवनं तव चकार हि राक्षसीभ्यः साक्षान्मरुत्सुत इति त्वमिहादरेण ।
सम्पूजयेस्तमिति तं पितरावशिष्टां भक्तया तदाचरति च स्म स मानयंस्तौ ।।२७ 

ये केचनास्य सुकृतप्रियनन्दनस्य पौराः समागममकुर्वत बालकास्तान् ।
प्रह्लादवत्स किल शिक्षयति स्म धर्मान् श्रीविष्णुपूजनमुखानखिलान्नरेन्द्र ! ।।२८

सर्वेऽपि ते सवयसोऽस्य हरेः प्रतापाद्विक्रीडनं शिशुकसम्मतमाशु हित्वा ।
कृष्णैकभक्तिनिरताः सनकादिसाम्यं प्रापुः सचित्रमुदमीयुरतस्तदीयाः ।। २९

प्रबलतरविरक्तिर्बाल्य एवात्मनिष्ठो विषयरसवितृष्णस्त्यक्तुकामो गृहं सः ।
उपनयनमपेक्ष्य ब्रह्मचर्योपयुक्तं न्यवसदिवसरस्यामब्जपत्रं गृहेषु ।। ३०


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
हरिपौगण्डलीलावर्णननामाऽष्टाविंशोऽध्यायः ।। २८ । ।