एकोनत्रिंशोऽध्याय

सुव्रत उवाच - 

पुर्यां वसन्नेव रघूत्तमस्य तस्यां सदैकान्तिकधर्म संस्थः ।
अनेकसाधूत्तमसग्दुणाढयः स्तुत्योऽभवत्सर्वजनैस्तु धर्मः ।। १ ।। 

दृष्ट्वा तस्मिन्सग्दुरोर्लक्षणानि प्रायः पौरा आश्रयं तस्य चक्रुः ।
धान्यैर्द्रव्यैर्वस्त्रभूषादिभिस्तं भूयोभूयः पूजयन्ति स्म हृष्टाः ।। २ ।। 

ये तं प्रपन्नाः शरणं जनास्तान्स कृष्णमन्त्रं समुपादिदेश ।
धर्मांश्च पाल्यान्निजदेशिकास्यात् ये संश्रुतास्तानखिलान् यथार्हम् ।। ३ ।। 

तदुक्तधर्मेषु च वर्तमानास्ते ज्ञानवैराग्यवृषोपपन्नाम् ।
अनन्यभक्तिं विदधुः पुमांसो रासेश्वरीप्राणपतेर्नरेन्द्र ! ।। ४ ।। 

केचित्सुरापा अपि तस्य सङ्गाज्जहुः सुरापानमथामिषादाः ।
दैवे च पित्र्येऽपि कथञ्चनापि संसर्गमप्याशु जहुः पलस्य।। ५ ।। 

तदाश्रिता ये गृहिणस्तु तेषां श्रीविष्णुयागादय एव यज्ञाः ।
हिंसाविहीना यवशालिदुग्धसितादिभिः शुद्धहविर्भिरासन् ।। ६ ।। 

तं शिश्रियुर्ये नृप ! साग्निकाश्च तेऽपि क्रतौ क्वापि पशुं तु साक्षात् ।
नैवालभन्ताथ पपुर्न विप्राः सौत्रामणीयांश्च सुराग्रहांस्ते ।।७।।

निजाश्रयं कर्तुमभीच्छतीस्तु योषाः समीक्ष्याथ सहस्रशोऽसौ ।
विचारयामास धिया मनीषी हितावहः शिष्यपरम्परायाः ।। ८ ।। 

श्रेयाञ्छुभं वाप्यशुभं यदत्र समाचरेत्तद्धि तदीयवर्गः ।
अन्यश्च लोकोऽपि समाचरेद्वैतच्छ्रेयसा कर्म विचार्य कार्यम् ।। ९ ।।

स्त्रीणां गुरुत्वं भुवि कुर्वते ये ते शिष्यभूतासु पराङ्गनासु ।
विशेषतः स्वस्य वशासु तासु भ्रष्टा भवन्त्येव रतप्रसक्ताः ।। १० ।।

पुंसा प्रसङ्गस्तु ततोऽङ्गनाया कस्यापि हि क्वापि च नैव युक्तः ।
स्त्रिया भुजङ्गया इव तन्नरेण भेतव्यमस्या गुरुणा विशेषात् ।। ११ ।। 

स्त्रीणां हितं यस्तु गुरुर्विधित्सुः स कृष्णमन्त्रं नियमैः सहैव ।
स्वयोषिता ता उपदेशयेद्वै स्वयं तु नेक्षेत न भाषयेत्ताः ।। १२ ।। 

आसन्नसम्बन्धवतीस्तु योषा विहाय नान्या गुरुणा च दृश्या ।
स्पृश्या न भाष्या न च कुत्रचिद्वै धर्मो महानेष इदं मतं मे ।। १३ ।।

इत्थं स निश्चित्य नरेन्द्र ! पत्न्या भक्योपदेशं समदापयत्ताः ।
सुवासिनीनां च विभर्तृकाणां धर्मांश्च ताभ्योऽचकथद्यथार्हम् ।। १४।।

या योषितः शिश्रियुरत्र भक्ति स्वभर्तृनिष्ठा कुलटासमा वा ।
ताः सर्वशोऽप्यस्य हरेः प्रतापात् पतिव्रताः ख्यातगुणाः बभूबुः ।।१५।।

सपोष्यो निवसंस्तत्र धर्मः प्रतिदिनं नृप !
षट्कर्माण्याचरन् कृष्णमहापूजां समाचरन् ।। १६ ।। 

न्यवेदयत्प्रत्यहं च महानैवेद्यमुत्तमम् ।
कृष्णाय तस्य च महानीराजनमकारयत् ।। १७ ।। 

कृष्णजन्माष्टमीमुख्यान्याचचार व्रतानि सः ।
तेषु जागरणं चक्रे कृष्णस्य च महार्चनम् ।। १८ ।। 

उत्सवानन्नकूटादीनाब्दिकान् राधिकापतेः ।
महद्बिरेव सम्भारैः सोऽकरोन्नृपतिर्यथा ।। १९ ।। 

प्रत्यब्दं मासि भाद्रे च गणेशस्य महोत्सवम् ।
चक्रे शुक्लचतुर्थ्यां च मध्याह्ने विधिवन्नृप ! ।। २० 

आश्विनस्य चतुर्दश्यां कृष्णायां च महोत्सवम् ।
मारुतेः कुलदेवस्य प्रत्यब्दं विधिनाऽकरोत् ।। २१

अवतारचरित्राणां श्रीकृष्णस्य सतां पतेः ।
अपरो प्रतिदिनं कथनं स्वयमाचरत् ।। २२ ।। 

पठनं पाठनं चैव सद्ग्रन्थानां विचिन्तनाम् ।
यथावकाशं मतिमान्करोति स्मान्वहं स च ।। २३ ।। 

इत्थं स्वधर्मनिरतो विजितान्तरारिः कृष्णप्रतापविगतासुरभूरिभीतिः ।
स्वस्थोऽवसत्सुतकलत्रयुतः स तत्र सद्वर्त्मनि स्वशरणानिह वर्तयन्नृन् ।। २४

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे धर्मकृतस्त्रीपुरुषगुरुमर्यादादिनिरूपणनामैकोनत्रिंशोऽध्यायः ।। २९ ।।