त्रिंशोऽध्यायः

सुव्रत उवाच -

अथोपनीतिं तनयस्य विप्रो विधातुमत्युत्सुकमानसः सः । सम्पादयामास विदेशतोऽपि यथोक्तसम्भारभरानुदारः ।। १ 

आहूय दैवज्ञाममुं समर्च्य काश्मीरपुष्पाम्बरदक्षिणाभिः । फलं निधायास्य पुरः सरत्नं पप्रच्छ पुत्रव्रतबन्धकालम् ।। २ 

स प्राह गर्भाष्टम एव वर्षे तपस्यमासेऽद्य तु वर्तमाने । तिथौ दशम्यां च विधौ कुरुत्वं तिष्येऽजलग्ने व्रतबन्धकर्म ।। ३ 

निशम्य मौहूर्तिकवाक्यमित्थं तदेव जग्राह स निश्चयेन । ततोऽलिखन्मङ्गलपत्रिकाश्च स्वज्ञातिसम्बन्धिसुहृत्सखिभ्यः ।। ४ 

त आययुस्तत्र सहोपहारा अनोरथाश्वादिविचित्रयानाः । साकं सुहृत्पुत्रकलत्रदासैः कृष्णेक्षणात्युत्सुकमानसाश्च ।। ५ 

सम्भावयन्नेव यथोचितं तान् सम्भारमाहार्य महान्तमेव । स पुत्रमाङ्गल्यजभूरिहर्षो ददौ स्वकेभ्यो नववस्त्रभूषाः ।। ६ 

स आनयामास च दूतवर्यैर्देशान्तरेभ्यो बहुमानपूर्वम् । विप्रांश्चतुर्वेदविदः सुशीलान् पौराणिकान् शास्त्रविदः कवींश्च ।। ७

ते तं द्विजेन्द्रा मिहिरप्रकाशाः पौराश्च विप्रा निगमागमज्ञाः । स्वाचार्यमुख्या मुनिगोभिलोक्तगृह्येण कर्म स्म विधापयन्ति ।। ८

मङ्गल्यवाद्यानि बहूनि तस्य गृहेष्ववाद्यन्त दिवा च रात्रौ । जगुश्च गीतानि मनोहराणि सुवासिनीनां निकराः समेताः ।। ९ 

पुत्रोपनीतावधिकारसिद्धयै कार्यस्य कृच्छ्रत्रितयव्रतस्य । विप्रः स धेनुत्रयदानमाशु चकार भूप ! प्रतिबिम्बमेव ।। १० 

यत्कामचाराशनवादमुख्यदोषोपशान्त्यै तनयेन कार्यम् । कृच्छ्रत्रयं तच्च तथैव धेनुत्रयप्रदानेन पिता चकार ।। ११ 

पूर्वेद्युरेवोपनयाङ्गकर्म स मातृपूजादि चकार सर्वम् । नान्दीमुखं स्वस्त्ययनं ग्रहाणां शान्तिं सदन्नैर्द्विजतर्पणं च ।। १२ 

प्रातर्दशम्यां पुरतो गृहस्य सम्मार्जनाद्यैरभिसंस्कृतेऽसौ । संस्थापयामास समुद्बवाख्यं हुताशनं स्थण्डिल आर्चयच्च ।। १३ 

स्ववेदशाखोचितकर्ममार्गं स्ववंशधर्मं च विदन्नशेषम् । द्विजातिसंस्कारविधानविज्ञाविप्रोक्तरीत्यैव चकार सर्वम् ।। १४ 

स्नतं च भुक्तं कृतकेशवापं स्नतं जनन्या समलङ्कृतं च । स्वदक्षभागे विनयोपविष्टं संस्कारयामास सुतं यथावत् ।। १५ 

आबद्धय कटयां कटिसूत्रमेनं कौपीनखण्डं परिधाप्य चासौ । यज्ञोपवीतं नवतन्तुशुद्धं कार्पासकं स्म त्रिगुणं ददाति ।। १६ 

'अग्ने व्रते' त्यादिभिराज्यहोमं विधाय नाभ्यादि तदङ्गमार्यः । स्पृष्ट्वाऽवदच्चाद्यदिनाद्धरायां त्वं ब्रह्मचारी भवसीति कृष्णम् ।।१७ 

प्रैषान् गुरूक्तांस्तनयाय धर्मः सर्वान् यथावत्समबूबुधच्च । आधेहि नित्यं समिधः सुत ! त्वं प्रातश्च सायं यदिवैव सायम् ।। १८ 

आदौ तथान्तेऽशनकर्मणस्त्वं कुर्या अपोशानविधिं च नित्यम् । त्यजेर्दिवास्वापमपि प्रयत्नादाचार्यसेवानिरतो भवेश्च ।। १९ 

पित्रैवमुक्तः स हसन्कुमारो बाढं प्रतिप्रैषमुवाच चोच्चैः । तेनातिहर्षं स च तस्य पत्नी सम्बन्धिनोऽन्ये च ययुः प्रकामम् ।। २० 

कटयां गुरुस्तस्य बबन्ध मौञ्जीं श्लक्ष्णां त्रिवृत्तां रशनां विधिज्ञाः । ग्रन्थित्रयं चापि चकार तस्या हरिप्रसादः प्रवरानुरूपम् ।। २१ 

अग्नेरुदक् प्राङ्मुख उत्तराग्रकुशासनस्थो जनकः सुताय । प्रत्यङ्मुखायादिशति स्म मन्त्रं ब्राह्मं निषण्णाय समानपीठे ।। २२ 

तदा महादुन्दुभिघोष आसीद्वाद्यान्यवाद्यन्त च सर्वशोऽपि । ब्रह्मध्वनिः स्त्रीगणगीतिकाभिः समं दिदीपे जयशब्दमिश्रः ।। २३ 

आमौलिदण्डं गुरुरात्मजाय ब्रह्मद्रुमस्यैव ददौ समन्त्रम् । ऐणं तथैवाजिनमुत्तरीयं सन्ध्याविधिं शिक्षयति स्म पश्चात् ।। २४ 

मध्याह्नसन्ध्या प्रथमं ह्युपास्य सायन्तनी वेति सदस्यवादे । प्रवर्तमाने बहुधा तदानीं माध्याह्नकीत्येव वृषो जगाद ।। २५ 

प्रैषान्पुनः पूर्ववदेव धर्म आदिश्यमानान् गुरुणा सुताय । अबोधयत्स्पष्टतरं वचोभिस्तत्पालनात्युत्सुकमानसाय ।। २६ 

विद्यागुरोर्वाचि सदैव तिष्ठेरन्यत्र पापाचरणप्रवृत्तेः । क्रोधानृते वर्जय मैथुनं च यदष्टधा वै प्रतिषिद्धमस्ति ।। २७ 

ग्राम्यं तु गीतं त्यज नर्तनं च वाद्यानि गन्धाद्यनुलेपनं च । अभ्यङ्गमुद्वर्तनमञ्जनं च सङ्घृष्य च स्वाङ्घ्रयवनेजनं च ।। २८ 

उच्चासनं चापि गुरोः पुरस्ताद्दन्तातिशुद्धिं सुत ! कङ्कताद्यैः । केशप्रसारं च धरावलेखं निर्हेतुकं मा कुरु केशवापम् ।। २९ 

मद्यं च मांसं स्पृश न क्वचित्त्वं गोयुक्तयानं च यथेष्टचेष्टाम् । आदर्शवीक्षां त्यज चान्यनिन्दामुपानहावातपवारणं च ।। ३० 

हिंसां तु वाचापि न कस्यचित्त्वं जन्तोस्तथा स्वस्य च मुक्तयेऽपि । कुर्याः कुसङ्गं न च पुत्र ! भूमौ न भोजनं क्वापि च कांस्यपात्रे ।। ३१ 

द्युतं च ताम्बूलमपि त्यजेस्त्वं भङ्गाद्यपेयं लशुनाद्यभक्ष्यम् । गोविप्रतीर्थामरसाधुसाध्वीसच्छास्त्रनिन्दां कुरु मा कदाचित् ।। ३२

कौपीनमौञ्जीकटिसूत्रदण्डयज्ञोपवीतानि कमण्डलुं च । ऐणं च चर्मेति तु नित्यमेव सन्धारयेस्त्वं सुत ! भैक्षपात्रम् ।।३३ 

स्ननं च सन्ध्यां च जपं च होमं स्वाध्यायदेवादिकतर्पणे च । समर्चनं शक्तित एव विष्णोः कुर्याः सदा त्वं श्रवणादिभक्तिम् ।। ३४ 

एवं हि तातेन सुबोधितोऽसौ स्वेच्छाबटुस्तं हरिराह बाढम् । भास्वन्तमुद्वाहुरथोपतस्थे प्रदक्षिणां चाप्यनलस्य चक्रे ।। ३५ 

भिक्षां ददावादित एव तस्मै भक्तिः स्वयं ह्यर्थयते सुताय । सुवासिनीमुख्यसुहृत्स्त्रियोऽन्यास्ततो ददुः प्रीतियुता नरेश ! ।। ३६ 

आचार्यवर्याय निवेद्य भैक्षं तदुक्तमेवात्मन आददेऽसौ । समापयामास्य यथाविधानं तत्कर्म धर्मः सकलं विधिज्ञाः ।। ३७ 

वर्णिवेषममलं स दधानो लब्धसंस्कृतिरहस्करकान्तिः । तत्र विप्रवरमण्डलमध्ये ब्रह्मचर्यमिव मूर्तमराजत् ।। ३८ 

विप्रेभ्योऽथ स विप्र उत्सुकमना गाः स्वर्णमुद्रास्तथा । वासांस्याभरणानि यानकवराण्यौदार्यतो दत्तवान् ।।
तस्मै चापि जना यथोचितमदुर्वस्त्राणि वित्तादि च । प्रादात्स्वीयजनेभ्य एष च यथायुक्तं च वस्त्राद्यपि ।। ३९ 

पौरानन्यांश्च विप्रान्स्वगृहमुपगतान्भोजयामास । सम्यग्भक्ष्यैर्भोज्यैर्विचित्रैर्बहुविधसुरसैः स्वेप्सितैः सत्कृतैश्च ।।
सर्वांस्तान् दक्षिणाभिर्नृपतिरिव वृषस्तोषयित्वा विसृज्य । भूर्यानन्दः स्वपुत्रं स्वनिगममखिलं पाठायामास सार्थम् ।। ४०

 
।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
हर्युपनयनोत्सवनामा त्रिंशोऽध्यायः ।। ३० ।।