एकत्रिंशोऽध्याय

सुव्रत उवाच - 

हरिः प्राप्तोपनयनः स्वधर्मान् गुरुणोदितान् । पालयन् पितरौ प्रीत्या सिषेवे नृपसत्तम ! ।। १ 

ततो गृहं जिहासुः स्वं स्वावतारप्रयोजनम् । धर्मसंस्थापनं कर्तुं भूतले स व्यचिन्तयत् ।। २ 

विजित्योत्पथगामीनि वृन्दानि विबुधद्विषाम् । धर्मः स्थाप्यो मया भूमौ साम्प्रतं यत्कृतेऽजनि ।। ३ 

अद्यैव जह्यां गेहं चेन्मत्प्राप्तातिसुखौ तदा । वीतद्विषद्बूरिभयौ भवेतां दुःखिताविमौ ।। ४ 

पितरौ मद्वियोगार्तिं सोढुं नैव हि शक्नुतः । अत एतौ विप्रशापान्मोचयित्वोत्सृजाम्यदः ।। ५ 

एवं स गूढसङ्कल्पो वेदाध्ययनकैतवात् । तत्रोवास भजन् रामं कृष्णं च निगमादरः ।। ६ 

विद्यागुरुं तु पितरं नान्यं विद्यावतां नृणाम् । स चकार ततोऽध्यैत तृतीयं वेदमादितः ।। ७ 

तीव्रबुद्धितया वेदमल्पकालेन विस्मयम् । तातमन्यांश्च विदुषः प्रापयन्नसमापयत् ।। ८ 

ततः काव्यानि शास्त्राणि पुराणानि पपाठ च । महाभाष्यादि यत्किञ्चिद्धर्मो वेद तदध्यगात् ।। ९ 

धर्मोऽथ जरसं प्राप्तां दृष्ट्वा साङ्खयमुपाश्रितः । तीव्रं वैराग्यमापन्नः कृष्णध्यानपरोऽभवत् ।। १० 

स्वधर्मज्ञानवैराग्ययोगान् भक्तिं च तत्त्वतः । यथानुभूति पुत्राय यथाशास्त्रमुपादिशत् ।। ११ 

माहात्म्यं स्वगुरोस्तस्मै सौराष्ट्रादिषु तत्स्थितिम् । यथावदात्मजायाऽहं रीतिं च स्वाध्वनोऽखिलाम् ।। १२

विद्याभिश्च गुणैः सर्वैः पितृतुल्यो महायशाः । आसीत्सोऽल्पेन कालेन मान्याः पूज्यस्तथा नृणाम् ।। १३

स्वगृहे प्रत्यहं पित्रा वाच्यमानं च सोऽश्रृणोत् । श्रीमद्बागवतं नाम पुराणं ह्येकचेतसा ।। १४ 

महाभारतमश्रौषीत् पितुरेव ततोऽखिलम् । सप्तखण्डात्मकं स्कान्दं पुराणमखिलं च सः ।। १५ 

आर्षाः सर्वाः स्मृतीश्चाथ धर्मशास्त्राण्यनाकुलः । धर्मप्रियः स शुश्राव पितुरेव नराधिप ! ।। १६ 

ततः कुशाग्रधीस्तेषां सारं निजमनीषया । स निश्चित्य स्वपाठार्थं लिलेख च पृथक्पृथक् ।। १७ 

श्रीमद्बागवतात्स्कन्धं पञ्चमं दशमं च सः । श्रीवासुदेवमाहात्म्यं स्कान्दाच्चाप्यलिखत् पृथक् ।। १८

ततः श्रीभगवद्बीतां नीतिं वैदुरिकीं च सः । विष्णोर्नामसहस्रं चेत्यलिखद्बारतात्त्रयम् ।। १९ 

ततः स धर्मशास्त्राणां सर्वेषां सारमुत्तमम् । एकामेवालिखत्प्रीत्या याज्ञावल्क्यस्मृतिं पृथक् ।। २० 

लिखित्वैतद्धरिः पित्रे चतुष्टयमदीदृशत् । प्रसन्नस्तेन सोऽजानात्तद्बुद्धिमतिमानुषीम् ।। २१ 

प्राह चास्यान्वहं पाठं स्वावकाशानुसारतः । कुरु त्वं कृष्णपूजाऽन्ते सत्सु श्रोतृषु वा कथाम् ।। २२ 

ओमित्यादाय तद्वाक्यं तत्पाठं नित्यमाचरत् । चकार च कथां तस्य श्रोतृकर्णमनोरमाम् ।। २३ 

ततः सारचतुष्कस्य स्वक्षरां सूक्ष्मपत्रिकाम् । विधाय पुस्तिकामेकां सोऽरक्षत्स्वान्तिके सदा ।। २४

श्रीद्बागवतादीनि प्रत्यहं तस्य श्रृण्वतः । उपास्यधीः कृष्ण एव सुदृढा समवर्तत ।। २५ 

ततः पिता ददौ स्वीयसम्प्रदायानुसारतः । सामान्यां वैष्णवीं दीक्षां तस्मै तां प्राप्तुमिच्छते ।। २६ 

मन्त्रमष्टाक्षरं कार्ष्णं दत्त्वा च त्र्यक्षरं ततः । उपादिशच्च सद्धर्मांस्तस्मै विनयशालिने ।। २७ 

ततस्तदुक्तरीत्यैव कृष्णार्चामाचरन्मुदा । पालयामास सकलान् स्वस्मिन् सिद्धान्स्वतो वृषान् ।। २८

ब्रह्मचर्यव्रतं भूमौ पोषयंल्लोकदुष्करम् । ईशोऽपि जनशिक्षार्थमाचचार स्वयं नृप ! ।। २९ 

कृष्णमित्थं भजन्नित्यं सच्छास्त्राभ्यासमाचरन् । जनेरेकादशं वर्षं हरिशर्मा स आप्तवान् ।। ३० 

असुराः शतशस्तत्र मिलित्वा यूथशो मुहुः । आययुः स्वरिपुं कृष्णं विशस्त्रं हन्तुमुद्यताः ।। ३१ 

दम्भात्तवैष्णवाकल्पा बलिनोऽरुणलोचनाः । करालकरवालादिशस्त्रपाणय उन्मदाः ।। ३२ 

सर्वेऽपि ते नीलकण्ठयोगेनैव विमोहिताः । परस्परोत्थारिभावा जघ्नुः शस्त्रैः परस्परम् ।। ३३ 

यथा संशप्तकाः पूर्वं त्वाष्ट्रास्त्रेण किरीटिनः । मूढाः परस्परं हत्वा मृतास्तेऽपि तथा मृताः ।। ३४ 

तत्रागतांस्तु देवारीन्पराभाव्येत्थमीश्वरः । ऐच्छत्पराभावयितुं देशान्तरगतानपि ।। ३५ 

ऊर्जे व्रतस्थाऽथ भक्तिः शुक्लाष्टम्यां महानिशि । प्राप ज्वरं व्रतकृशा शिथिलाङ्गाऽस तेन सा ।। ३६ 

रामप्रतापप्रमुखा आनीय भिषजो गृहे । कुर्वन्ति स्म यथाबुद्धि बन्धवस्तत्प्रतिक्रियाम् ।। ३७ 

कृतस्तै रुक्प्रतीकारो नासीत्तत्तापशान्तये । नवम्या निशितां कृष्णो बोधयामास मातरम् ।। ३८ 

अन्तकालं विदंस्तस्याः सेवमानश्च तां स तु । उपविश्यान्तिके प्राह ददत्स्वज्ञानमिच्छया ।। ३९ 

सच्छास्त्रसम्मतं मातः ! श्रृणु मद्वचनं हितम् । मायैव विष्णोः सर्वेषामस्ति संसृतिकष्टदा ।। ४० 

तस्यास्तु सन्निवृत्तिः स्यात्कृष्णे भक्तयातितीव्रया । स्वधर्मज्ञानवैराग्योपेतया मनसि स्थिरे ।। ४१ 

मायायास्तरणोपायो मूलस्य सकलापदाम् । एष एव समीचीनो भवतीत्येव भाति मे ।। ४२ 

एवं साङ्खयं च योगश्च पञ्चरात्रमुखान्यपि । वदन्ति किल शास्त्राणि तद्विदश्च महर्षयः ।। ४३

सुव्रत उवाच - 

पुत्रस्येत्थं वचस्तस्याः श्रृण्वत्याः सादरं नृप ! । स्मृतिर्बभूव हृदये यथा पूर्वं तदिच्छया ।। ४४ 

वर्णिवेषं ततः पुत्रं नारायणमवेत्य तम् । प्रपेदे शरणं प्रीता विरक्ताऽन्यत्र वस्तुषु ।। ४५ 

उत्थाय बद्धाञ्जलियुग्ममस्मै नत्वोपविश्याग्रत एव चास्य । सम्प्राप्तसंसारविमुक्तिबुद्धिः पप्रच्छ निःश्रेयससाधनं सा ।। ४६

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
विद्याध्ययनसामान्य दीक्षाग्रहणासुरयूथनिघातनिरूपणं नामैकत्रिंशोऽध्यायः ।। ३१ ।।