द्वात्रिंशोऽध्यायः

हरिगीता - पञ्चाध्यायी सुव्रत उवाच -


सर्वसग्दुणसम्पन्ना माता प्रेमवती हरिम् । नारायणावतारं स्वं पुत्रं प्रोवाच भूपते ! ।। १ 


प्रेमवत्युवाच - 

नमस्तुभ्यं भगवते हरये कष्टहारिणे । नारायणाय ऋषये प्रपद्याय मुमुक्षुभिः ।। २ 

अज्ञानस्य निवृत्तिः स्यान्मायाख्यस्य यथाञ्जसा । हरे ! संसृति मूलस्य तथा मामनुशाधि भोः ! ।। ३

ग्राम्यसौख्यविरक्ताऽहं त्वां प्रपन्नाऽस्मि सन्मते! । अतो मुमुक्षवे मह्यं वक्तुमर्हसि यद्धितम् ।। ४ 

जानामि त्वामहं साक्षान्नारायणमृषिं प्रभुम् । कृतावतारं क्षेमाय भूतले सर्वदेहिनाम् ।। ५ 

स त्वं ममाज्ञानमपाहाराशु यथा तमोऽर्कः प्रकटप्रतापः । स्वमायया गोपितदिव्यभावः सम्प्रार्थयामीति भवन्तमीशम् ।। ६ ।।


सुव्रत उवाच - 

एवं जनन्या प्रणयेन पृष्टो हरिः स्वतःसिद्धविशुद्धबोधः ।
मुमुक्षुवेऽध्यात्मिकशास्त्रमाद्यं प्रीतः स तस्यै नृपते ! जगाद ।। ७ ।। 


श्रीहरिरुवाच - 

श्रृणु मातर्हितं वच्मि भवत्यै शास्त्रसम्मतम् । मुमुक्षवे विरक्तायै निर्णीतं वेदवेदिभिः ।। ८ 

श्रीकृष्णो भगवान् साक्षाद्यो विष्णुः पुरुषोत्तमः । स एव सर्वभावेन सेवनीयो मुमुक्षुभिः ।। ९ 

तस्यैव मायया लोको मोहितो याति संसृतिम् । अतस्तं ये प्रपद्यन्ते तां तरन्ति त एव हि ।। १० 

सतां सङ्गेन बुद्ध्वाऽदौ तन्माहात्म्यं तदाप्तया । स्वधर्मज्ञानवैराग्ययुजा भक्तया स सेव्यताम् ।। ११

युक्ताङ्गैस्तु स्वधर्माद्यस्त्रिभिर्भक्तिर्महाव्रते ! । क्वापि केनापि विघ्नेन नैवेह प्रतिहन्यते ।। १२ 

एतेष्वेकतमेनापि सा हीनाङ्गेन चेद्बवेत् । देशकालादिवैषम्ये तस्यां विघ्नो भवेद्ध्रुवम् ।। १३ 

कार्यकारणरूपाया मायायाः सर्वथैव तु । विनिवृत्तिस्तयैव स्यान्नान्योपायेन वै नृणाम् ।। १४ 

तस्यां तु विनिवृत्तायां शुद्धः कृष्णस्य सेवकः । परमं याति तद्धाम यद्ब्रह्मेत्याहुरागमाः ।। १५ 

अनन्तं चाक्षयं तस्मिन्कालमायाभयोज्झिते । धाम्नि सौख्यं समाप्नोति स्वमनोवाञ्छितं च सः ।। १६


सुव्रत उवाच - 

वेदशास्त्रपुराणानां पञ्चरात्रागमस्य च । सिद्धान्तं पुत्रवाक्यं सा श्रुत्वोवाच पुनः प्रसूः ।। १७ 


प्रेमवत्युवाच - 

सर्वशास्त्रार्थतत्त्वज्ञा ! सिद्धान्तोऽयं त्वयोदितः । साङ्गया कृष्णभक्तयैव मायाया यन्निवर्तनम् ।। १८ 

तदेतत्तत्त्वतः सर्वं विवित्सामि महामते ! । योषाया मे यथा बोधः स्यात्तथा वक्तुमर्हसि ।। १९ 

हरेर्माहात्म्यबोधाद्या स्वधर्माद्यङ्गसंयुता । भक्तिः प्राप्या यतस्तेषां ब्रूहि लक्ष्माणि मे सताम् ।। २० 

धर्मादीनां लक्षणानि विविच्य च पृथक् पृथक् । ब्रूहि मे तत्त्वतः कृष्ण ! सर्वज्ञोऽस्ति यतो भवान् ।। २१ 


सुव्रत उवाच - 

जनन्येत्थं स आपृष्टः पुरातनमुनिर्हरिः । तामुवाचादृतस्तस्याः सद्धर्मादिविवित्सया ।। २२ 

 
श्रीहरिरुवाच - 

समीचीनं त्वया पृष्टमिदं सर्वहितावहम् । आत्मनः श्रेय इच्छन्त्या मातर्वेद्यं बुधैरपि ।। २३ 

साङ्गाया हेतुभूतानां भक्तेरादौ सतां सति ! ।लक्षणानि ब्रुवे तुभ्यं सेव्यानां हि मुमुक्षुभिः ।। २४ 

दयालवः क्षमाशीलाः सर्वजीवहितेच्छवः । तितिक्षवश्चानसूयाः शान्ता अनुदितारयः ।। २५ 

अनीर्ष्यवश्च निर्वैरा निर्मानाश्च विमत्सराः । यथोचितं मानदाश्च प्रियसत्यगिरस्तथा ।। २६ 

जितकामा जितक्रोधा जितलोभाश्च निर्मदाः । अहन्ताममताहीनाः स्वधर्मदृढवर्तनाः ।। २७ 

निर्दम्भाः शुचयो दान्ता ऋजवो मितभाषिणः । जितेन्द्रिया अप्रमत्ता निर्द्वन्द्वा धैर्यशालिनः ।। २८ 

आकूतिचित्तिचापल्यरहिता निष्परिग्रहाः । बोधने निपुणा आत्मनिष्ठः सर्वोपकारिणः ।। २९ 

निर्भया निरपेक्षाश्च द्यूतादिव्यसनोज्झिताः । श्रद्धालव उदाराश्च तपोनिष्ठ निरेनसः ।। ३० 

त्यक्तग्राम्यकथावार्ताः सच्छास्त्रव्यसनास्तथा । विषयासक्तिरहिता आस्तिकाश्च विवेकिनः ।। ३१ 

मद्यमांसादिसंसर्गरहिताश्च दृढव्रताः । पैशुन्यस्तैन्यहीनाश्चा परगुह्याप्रकाशकाः ।। ३२ 

जितनिद्रा जिताहाराः सन्तुष्टाः स्थिरबुद्धयः । अहिंसवृत्तयोऽतृष्णाः सुखदुःखसमास्तथा ।। ३३ 

अकार्यलज्जाः स्वश्लाघान्यनिन्दाभ्यां विवर्जिताः । यथोक्तब्रह्मचर्याश्च यमैश्च नियमैर्युताः ।। ३४ 

जितासना जितप्राणाः श्रीकृष्णाङ्घ्रिदृढाश्रयाः । कृष्णभक्तिपरा नित्यं कृष्णार्थसकलक्रियाः ।। ३५

अवतारचरित्राणि कृष्णस्यानुदिनं मुदा । श्रृण्वन्तः कीर्तयन्तश्च कृष्णध्यानपरायणाः ।। ३६ 

अयातभगवद्बक्तिवर्जितक्षणमात्रकाः । एवं लक्षणसम्पन्ना ज्ञोयाः सन्तस्त्वयानघे ! ।। ३७ 

एतेषामेव सङ्गेन साङ्गाभक्तिर्मुमुक्षुभिः । कृष्णस्य प्राप्यते नूनं माहात्म्यज्ञानपूर्विका ।। ३८ 

एभ्यः कृष्णावताराणां चरित्रश्रवणं भवेत् । अद्बुतानां चरित्राणां कृष्णस्य च भवेच्छ्रुतिः ।। ३९ 

गोलोकाक्षरवैकुण्ठादिषु धामसु यत्प्रभोः । अनन्तमस्ति चैश्वर्यं तदप्येभ्योऽवगम्यते ।। ४० 

तथा क्षीरार्णवस्थस्य व्याप्तस्य ब्रह्मतेजसा । श्वेतद्वीपस्य माहात्म्यमेभ्य एवावगम्यते ।। ४१ 

बृन्दावनस्य द्वार्वत्या विशालायाश्च बुध्द्यते । अत्रत्यभगवद्धाम्नां माहात्म्यं चैभ्य एव हि ।। ४२ 

पुलहाश्रममुख्यानां क्षेत्राणां महतामपि । गङ्गायम्यादितीर्थानां खण्डेऽस्मिन्भरते सताम् ।। ४३ 

महात्म्यं कृष्णसम्बन्धाद्यद्यदस्त्यद्बुतं सतः । तत्तच्चैभ्यः सर्वमपि ज्ञायते श्रोतृभिर्जनैः ।। ४४ 

सद्ब्य एतच्छ्रुतेः कृष्णमाहात्म्यं सम्यगीयते । तेनैव भक्तिः कृष्णे स्यात्स्वधर्मादिभिरन्विता ।। ४५ 

दृष्टाः स्पृष्टा नता वा कृतपरिचरणा भोजिताः पूजिता वा सद्यः पुंसामघौघं बहुजनिजनितं घ्रन्ति ये वै समूलम् ।
प्रोक्ताः कृष्णेन ये वा निजहृदयसमा यत्पदे तीर्थजातं  तेषां मातः ! प्रसङ्गात्किमिह ननु सतां दुर्लभं स्यान्मुमुक्षोः ।। ४६


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे हरिगीतायां सत्पुरुषलक्षणनिरूपणनामाद्वात्रिंशोऽध्यायः ।। ३२ ।।