हरिरुवाच -
धर्मादीनां लक्षणानि भक्तयङ्गानामथाम्ब ते ! । कथयामि विविच्यैव त्रयाणामपि तत्त्वतः ।। १
तत्र त्रयाणां लोकानां सेश्वराणां तु धारकः । धारणीयश्च जीवेशैः सदा धर्मः स उच्यते ।। २
धर्मनिष्ठस्तु पुरुषो हीनजातिकुलोऽपि यः। सोऽपि ब्रह्मादिभिः पूज्यः श्लाघनीयश्च जायते ।। ३
धर्मच्युतश्चेद्ब्रह्मादिरीश्वरोऽपि भवेत्क्व चित् । तर्हि सोऽप्यल्पकैर्गर्ह्यः स्यात्स्थेयं धर्म एव तत् ।। ४
स चापि वर्तते नणां वर्णाश्रमविभागतः । श्रुतिस्मृति सदाचारैः प्रमितो हि पृथक्पृथक् ।। ५
विप्रक्षत्रियविट्शूद्रा वर्णाश्चत्वार ईरिताः । ब्रह्मचर्यं च गार्हस्थ्यं वनं न्यासस्तथाश्रमाः ।। ६
साधारणो विशेषश्चेत्येवं तेषां द्विधास्ति सः । समासेनोभयविधमपि ते वच्म्यहं शुभे ! ।। ७
अहिंसा सत्यमस्तेयं कामलोभक्रुधां जयः । मद्यमांसपरस्यादेस्त्यागो व्यसनवर्जनम् ।। ८
जातिसङ्करताहेतोर्वर्जनं पापकर्मणः । सत्सेवा विष्णुभक्तिश्च धर्माः साधारणा नृणाम् ।। ९
शमो दमस्तपो ज्ञानं दया श्रद्धा क्षमादयः । स्वाभाविका हि विप्रस्य धर्मा एते प्रकीर्तिताः ।। १०
शौर्यं धैर्यं बलौदार्ये साधुगोविप्ररक्षणम् । क्षत्रस्य सहजा धर्माः प्रोक्ता वार्ता विशस्तथा ।। ११
शुश्रूषणं द्विजातीनां धर्मः शूद्रस्य चानघे ! । हिंसास्तैन्यादिरहितो धर्मोऽन्येषां कुलोचितः ।। १२
याजनादिश्च विप्रस्य क्षत्रस्यायुधधारणम् । व्यापारश्च विशोऽन्त्यस्य सेवोक्ता जीविका क्रमात् ।। १३
आपन्नयोर्वैश्यवृत्तिर्विप्रक्षत्रिययोर्मता । विशः शूद्रस्य तस्यापि कार्वादेः स्वैव चान्यदा ।। १४
त्रैवार्णिको यः संस्कारैः सम्प्राप्तः स्याद्द्विजातिताम् । ब्रह्मचर्याश्रमे तिष्ठन्विद्यायै स गुरुं श्रयेत् ।। १५
कौपीनाच्छादनादीनि वासांस्यावश्यकानि सः । कार्पासान्यजिनोर्णादि रक्षेद्दण्ड कमण्डलू ।। १६
जपमालां ब्रह्मसूत्रं बिभृयाच्च जटाः कुशान् । अञ्जनाभ्यङ्गगन्धस्रग्भूषणादि विवर्जयेत् ।। १७
मुक्तेर्द्वारं महत्सङ्गः स्त्रैणसङ्गस्तु संसृतेः । द्वारमस्तीति निश्चित्य कुर्यादाद्यं परं त्यजेत् ।। १८
अष्टधा वर्जनं स्त्रीणां तत्स्पर्शस्य तु सर्वथा । कुर्याद्वर्णी गुरोर्भार्यामपि वन्देत दूरतः ।। १९
प्राणिमात्रं च मिथुनीभूतं तु मतिपूर्वकम् । ब्रह्मचर्यव्रतधरो नैव वीक्षेत कर्हिचित् ।। २०
अपि चित्रमयीं योषां देवताप्रतिमां विना । क्वापि नैव स्पृशेद्वर्णी गुरुं सेवेत भक्तितः ।। २१
कुर्यात्कालत्रये सन्ध्यावन्दनं प्रतिवासरम् । जपं च निजशक्तयैव मौनं प्रातः प्रदोषयोः ।। २२
होमं प्रातस्तथा सायं कुर्याद्बिक्षाटनं च सः । वेदाभ्यासपरो नित्यं वसेग्दुरुकुले वशी ।। २३
साङ्गं वेदं सहार्थं च देशकालानुसारतः । अधीत्य स यथाशक्ति समावर्तनमाचरेत् ।। २४
गृही स्यादविरक्तस्तु दत्त्वा स गुरुदक्षिणाम् । विरक्तश्चेद्वनं न्यासं श्रयेद्वा नैष्ठिको भवेत् ।। २५
गृही बुभूषुः कुलजां सवर्णां वयसाऽवराम् । अनिन्द्यामुद्वहेत्कन्यां न्यायेनोपार्जयेद्धनम् ।। २६
स्ननं सन्ध्यात्रयं होमं तर्पणं विष्णुपूजनम् । स्वाध्यायं शक्तितः कुर्याद्वैश्वदेवं च सोऽन्वहम् ।। २७
प्रातः कुर्यादापदि तु सन्ध्यां माध्यह्निकीमपि । प्रातर्भवां च मध्याह्ने निशि सायन्तनीं तु सः ।। २८
सन्ध्यावन्दनगायत्रीजपविष्ण्वर्चनोज्झितः । चतुर्वेद्यप्यसौ विप्रः शूद्र एव न संशयः ।। २९
अधौतं न स्पृशेद्वासः स्नत्वा कार्पाससम्भवम् । अस्नतेनापवित्रेण स्पृष्टं धौतं च न स्पृशेत् ।। ३०
विवाहकाले दायस्य विभागावसरेऽथवा । द्विजातिरादधीताग्निं सति वित्तादिसम्भवे ।। ३१
यथाकालं पोष्यवर्गं पोषयेन्नतु पीडयेत् । अन्नाम्बुवस्त्रैरतिथिं तोषयेत्सर्वदा गृही ।। ३२
नित्यं कुर्यात्सतां सङ्गं भक्तिं च नवधा हरेः । कुसङ्गं नैव कुर्वीत गृहासक्तिं च मूढवत् ।। ३३
जीवेभ्यः सकलेभ्योऽपि भक्तानोकान्तिकान्हरेः । आधिक्येन विजानीयान्मानरक्षार्हणादिषु ।। ३४
अश्मादिभ्योऽच जीवेभ्यः श्रेष्ठाः सन्ति तृणादयः । अन्नौषध्यादयस्तेभ्यस्ततः श्रेष्ठाश्च वीरुधः ।। ३५
तत आम्रादयो वृक्षाः श्रेष्ठा देवद्रुमास्ततः । स्थास्नुष्विति विशेषोऽस्ति चरेष्वथ वदामि तम् ।। ३६
पिपीलिकादितः श्रेष्ठा जीवास्तु शलभादयः । भ्रमराद्यास्ततस्तेभ्यश्चटकप्रमुखा मताः ।। ३७
शशादयस्ततोऽजाद्यास्तेभ्यस्तेभ्यो गवादयः । ततश्च मनुजास्तेषु वर्णाश्चत्वार उत्तमाः ।। ३८
ब्राह्मणास्तेषु तेषां च स्वधर्मनिरता वराः । ज्ञाननिष्ठास्तेषु तेषु भक्ता एकान्तिका हरेः ।। ३९
तेभ्यः श्रेष्ठो न कोऽप्यस्ति सदाऽस्ते तेषु यद्धरिः । तारतम्यं विदित्वेत्थं बहुमान्या हरिश्रिताः ।। ४०
य एवं न विजानीयात्सदसत्समधीः स तु । दोषं महान्तमाप्नोति विवेकं विदधीत तत् ।। ४१
गन्धान् पुष्पस्रजो भूषा वस्त्रान्नादि च भक्तितः । गृही निवेद्य हरये निषेवेत च वैष्णवः ।। ४२
देवान् पितृंश्च तैरेव वासुदेवधियाऽर्चयेत् । यथाकालं च पित्रादेः श्राद्धं कुर्याद्यथाविधि ।। ४३
अकृष्टपच्यैर्मुन्यन्नैः कर्तव्यं श्राद्धकर्म च । व्रीह्याद्यैः कृष्टपच्यैर्वै धान्यैस्तु शुचिभिः सति ! ।। ४४
मांसं त्वापद्यपि क्वापि श्राद्धे देयं न कर्हिचित् । अहिंसाधर्मपरमा वैष्णवाः पितरो यतः ।। ४५
मद्यं मांसं च यस्मै स्यान्निवेद्यं यस्य चाग्रतः । स्याज्जीव हिंसा तं देवं देवीं चापि न मानयेत् ।। ४६
देशकालानुसारेण तीर्थानि च व्रतानि च । कुर्वीत स यथाशास्त्रं स्वाधिकारानुसारतः ।। ४७
पुण्यदेशे पुण्यकाले पुण्यपात्रे विशेषतः । पुण्यं कुर्वीत यत्किञ्चिद्बवेदक्षयमेव तत् ।। ४८
आढयस्तु कारयेद्रम्यं दृढं श्रीविष्णु मंदिरम् । वृत्ति दानेन पूजायाः प्रवाहम् वर्तयेद्धरेः ।। ४९
अहिंसान् वैष्णवान् यज्ञान् कुर्यात् प्रचुरदक्षिणान् । वापिकूपतडागादीन् विष्णवर्थांश्चापि कारयेत् ।। ५०
प्रचुराज्यसितैर्भोज्यैः साधून्विप्रांश्च तर्पयेत् । नावमन्येत तान् क्वापि सत्सु निष्कपटो भवेत् ।। ५१
नातिलोभी नातिकामी नातिक्रोधी न मत्सरी । नातिमानी भवेत्क्वापि दयां कुर्वीत देहिषु ।। ५२
आसन्नसम्बन्धहीना विधवाः स्त्रीरनापदि । न स्पृशेद्बुद्धिपूर्वं तु गृहस्थोऽपि कदाचन ।। ५३
स्वस्य मात्रा भगिन्यापि दुहित्रा वा कदाचन । नैव तिष्ठेद्रहःस्थाने गृही चापदमन्तरा ।। ५४
तीर्थादावात्मनो घातमात्मनश्च परस्य वा । मुक्तयेऽपि न कुर्वीत धर्मनिष्ठः सदा भवेत् ।। ५५
स्त्रीभिः सभर्तृकाभिश्च देववत्स्वपतिः सदा । सेव्यः पतिव्रताधर्मे स्थित्वा सन्त्यज्य चापलम् ।। ५६
विधवाभिश्च नारीभिः पतिबुद्धया रमापतिः । सेवनीयः स्वदेहश्च कर्शनीयो व्रतादिभिः ।। ५७
नेक्षेत न स्पृशेत्क्वापि स्वसम्बन्धिजनेतरम् । धवा नरमात्रं च त्यागवान् योषितं यथा ।। ५८
पित्रा पुत्रादिना वापि विधवा तु रहःस्थले । आपत्कालं विना नैव सह तिष्ठेत्कदाचन ।। ५९
तृतीय आयुषो भागे गृहस्थो वनमाविशेत् । सस्त्रीकः स्त्री सुशीला चेदन्यथा त्वेकलः स्वयम् ।। ६०
तत्र ग्रीष्मे पञ्चतपा उदवासश्च शैशिरे । आसारषाट्च वर्षासु भवेद्विष्णुपरायणः ।। ६१
वन्यैरेवाग्निहोत्रादि कुर्याद्धान्यफलादिभिः । अग्न्यर्थं च कुटीं कुर्यात्स्वयं तु बहिरावसेत् ।। ६२
अकृष्टपच्यैरन्नाद्यैर्जीवेत्स्वयमुपाहृतैः । यथाशक्ति वने स्थित्वा ततः सन्न्यासमाश्रयेत् ।। ६३
कन्थामेकां च कौपीने द्वे तदाच्छादने च सः । विभृयाद्वाससी दण्डं वैणवं च कण्डलुम् ।। ६४
अष्टाक्षरं जपेन्नित्यं नारायणपरो यतिः । भक्तिमेव हरेः कुयाज्ज्ञानविज्ञानसंयुतः ।। ६५
वर्षाकालं विनैकत्र न वसेत्स त्वनापदि । शुचिविप्रगृहे भैक्षं कुर्यान्नित्यं सकृन्मितम् ।। ६६
एकादश्यादीनी हरेर्व्रतानि विधिना चरेत् । पालयेद्ब्रह्मचर्यं च जितात्मा च जितेन्द्रियः ।। ६७
वानप्रस्थश्च सन्न्यासो निषिद्धौ भवतः कलौ । अतो विरक्तो वर्णी वा गृही त्रैवर्णीकोऽपि च ।। ६८
वासुदेवीं महादीक्षां गृहीत्वा वैष्णवो भवेत् । स्वाश्रमस्थो ब्रह्मचर्यं पालयन्स हरिं भजेत् ।। ६९
त्यक्त्वा वा स्वगृहमसौ साधुमण्डलमध्यगः । साधुशीलो भजेत्कृष्णं यथा प्राग्भरतो जडः ।। ७०
नेक्षेत न स्पृशेद्बुद्धया काष्ठजामपि योषितम् । हिरण्यादि धनं जह्यात्त्यागी निजहितोद्यतः ।। ७१
स्त्रीस्त्रैणसङ्ग एको हि मुक्तानामपि बन्धकृत् । हरिमेकं विनाऽस्तीति सर्वथा तं परित्यजेत् ।। ७२
ज्ञानं भक्तिस्तपो योगस्त्यागः सच्छास्त्रचिन्तनम् । इत्यादयो गुणा व्यर्था भवन्ति स्त्रीप्रसङ्गतः ।। ७३
कृष्णाहिभ्य इव स्त्रीभ्यो मुमुक्षुर्बिभियात्ततः । समाधिनिष्ठां प्राप्तोऽपि पुमांस्ता दूरतस्त्यजेत् ।। ७४
कामं लोभं क्रुधं मानं ग्राम्यस्नेहं रसैषणाम् । द्वाराण्येव षडेतानि निरयस्येति सन्त्यजेत् ।। ७५
ब्रह्मचर्यं सोऽष्टविधं रक्षंस्त्यागी जितेन्द्रियः । हरेर्नवविधां भक्तिं प्रीत्या कुर्वीत सर्वदा ।। ७६
विहीनां सेवया विष्णोरसौ मुक्तिं चतुर्विधाम् । अपि नेच्छेच्च कैवल्यं तुच्छं स्वर्गादि किं पुनः ।। ७७
विष्णुसेवेतराशेषवासनोन्मूलनोद्यतः । अलब्धात्मप्रवेशावकाशोऽन्तः शत्रुभिश्च सः ।। ७८
देशकालक्रियाशास्त्रसङ्गादीनसतस्त्यजन् । सतस्तांश्च श्रयन्नित्यं वर्तेताध्वनि सच्छ्रिते ।। ७९
सर्वेष्वेतेषु धर्मेषु यस्य यस्य च्युतिर्भवेत् । वर्णाश्रमी यथाशास्त्रं कुर्यात्तत्तस्य निष्कृतिम् ।। ८०
इत्थं मया ते जनयित्रि ! धर्मो वर्णाश्रमाणां विहितश्चतुर्णाम् ।
पृथक् पृथक्साधु निरूपितो वै ज्ञानस्य वक्ष्याम्यथ लक्षणं ते ।। ८१।।
।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे हरिगीतायां वर्णाश्रमधर्मनिरूपणनामा त्रयस्त्रिंशोऽध्यायः।। ३३।।