चतुस्त्रिंशोऽध्यायः

श्रीहरिरुवाच - 


यद्वस्तु यादृशं तस्य तादृक्त्वेन प्रमाणतः । वेदनं यत्तदुदितं मातर्ज्ञानस्य लक्षणम् ।। १ 

तच्च ज्ञानं द्विधा प्रोक्तं तत्रैकं ज्ञानमात्मनः । परमात्मस्वरूपस्य ज्ञानं चेत्यपरं मतम् ।। २ 

आत्माजीव इह प्रोक्तो व्याप्य सर्वं वपुः स्थितः । बाह्यान्तःकरणानां तद्देवानां च प्रकाशकः ।। ३ 

जाग्रदादिष्ववस्थासु स्थूलादिषु वपुष्षु च । बद्धस्तादात्म्यसम्बन्धाद्वस्तुतस्तद्विलक्षणः ।। ४ 

यथैव गोलकं लौहं तादात्म्येन धनञ्जयः । व्याप्य स्थितोऽपि तद्बिन्नलक्षणोऽस्ति तथा ह्यसौ ।। ५ 

न वै विकुरुते देहे विकारान्प्राप्नुवत्यपि । तथा नश्यति देहेऽपि नासौ नश्यति कर्हिचित् ।। ६ 

सच्चिद्रूपोऽक्षरः सूक्ष्मो दुर्ज्ञोयश्च स वर्तते । इत्थं यदात्मनो ज्ञानमात्मज्ञानं तदुच्यते ।। ७ 

परमात्मस्वरूपस्य ज्ञानं ते कथयाम्यथ । श्रीकृष्णो यः परं ब्रह्म परमात्मा स कीर्तितः ।। ८ 

अप्राकृतगुणो विष्णुर्निर्गुणश्चेश्वरेश्वरः । नारायणश्च भगवान्वासुदेवो य उच्यते ।। ९ 

साक्षात्सम्बन्धतो यस्य कर्ता श्रद्धा सुखं तथा । ज्ञानं स्थानं च द्रव्यादि गुण्यपि स्याद्धि निर्गुणम् ।। १०

स्वतन्त्रः स्वप्रकाशश्च सर्वकारण कारणम् । ब्रह्मभूतैरप्युपास्यः कोटिसूर्यादिभास्वरः ।। ११ 

प्रधानाद्याष्टावरणावृतानेकाण्डकोटयः । यत्राणुवत्स्थिता ब्रह्माक्षरं तद्धाम यस्य च ।। १२ 

दिव्यरूपोऽक्षरात्मा च श्रुतो यश्चाक्षरात्परः । अन्तर्यामी च सर्वेषामात्मनां योऽच्युतो हरिः ।। १३ 

कालो माया पुमान् यस्य महत्तत्वादयस्तथा । शक्तयः सन्त्येकमेवाद्वितीयं ब्रह्म यः प्रभुः ।। १४ 

श्रेयसे भुवि लोकानां योऽवतारान्विभर्ति च । अनेककल्याणगुणः स ज्ञोयः पुरुषोत्तमः ।। १५ 

श्रीकृष्ण एषोऽक्षरपूरुषात्मना स्वशक्तिमूलप्रकृतिं समीक्षते।
सिसृक्षुरेवागणिताण्डगोलकान्धत्ते च सा गर्भमथेक्षणात्मकम् ।। १६

सूते ततः सा सहपूरुषाणि प्रधानतत्त्वानि च कोटिशोऽथ ।
तत्पूरुषात्मप्रभुवीक्षितेभ्यस्तेभ्यो जगत्कारणतत्त्वसर्गः ।।१७

ब्रह्माण्डनि बहूनीत्थं सम्भवन्ति हरीच्छया । तत्रैकस्यानुक्रमेण सम्भवं कथयामि ते ।। १८ 

एकस्याप्युद्बवं वक्तुं विस्तरेण न शक्यते । अतः सङ्क्षेपतो मातस्तदुत्पत्तिर्मयोच्यते ।। १९ 

प्रधानतत्त्वात्तस्मात्तु पुंदृष्टात्रिगुणात्मकात् । जगदङ्कुररूपं हि महत्तत्वं प्रजायते ।। २० 

प्रधानेनावृतात्तस्माद्वासुदेवेच्छया सति ! । महत्तत्त्वादहङ्कारस्त्रिविधो जायते ततः ।। २१ 

सात्त्विको राजसश्चैव तामसश्चेति सत्रिधा । यथा प्रधानेन महान्महता स तथावृतः ।। २२ 

अहङ्गारात्तामसाच्च वासुदेवेच्छयैव हि । शब्दो भवति तस्मात् खं जायते शब्दमात्रकम् ।। २३ 

अहङ्कारावृतात्तस्मादाकाशाच्छब्दमात्रकात् । स्पर्श उत्पद्यते स्पर्शाद्वायुश्च स्पर्शमात्रकः ।। २४ 

आकाशेनाऽवृताद्वायो रूपमुत्पद्यते ततः । तस्मात्तेजो रूपमात्रं जायते वायुनाऽवृतम् ।। २५ 

तेजसश्च रसस्तस्मादापस्तु रसमात्रिकाः । उत्पद्यन्ते च ताः सन्ति वेष्टितास्तेन तेजसा ।। २६ 

अद्भ्यो गन्धस्ततः पृथ्वी जायते गन्धमात्रिका । अद्बिः संवेष्टिता पृथ्वी विशेषाख्या च कथ्यते ।। २७

आकाशादीनि पञ्चात्र महाभूताभिधानि च । शब्दादयश्च कथ्यन्ते पञ्च तन्मात्रिका इति ।। २८ 

अहङ्काराद्राजसात्तु पञ्च ज्ञानेन्द्रियाणि च । पञ्च कर्मेन्द्रियाण्याम्ब ! प्राणो बुद्धिश्च जायते ।। २९ 

श्रोत्रं त्वक् चाक्षि जिह्वा च घ्राणो ज्ञानेन्द्रियाण्यथ । वाग् दोः पाद उपस्थश्च पायुः कर्मेन्द्रियाणि च ।। ३०

अहङ्कारात्सात्त्विकाच्च करणानां तु देवताः । बाह्यानामान्तराणां च प्रजायन्ते मनस्तथा ।। ३१ 

दिग्वातार्कप्रचेतोऽश्विवन्हीन्द्रोपेन्द्रमित्रकाः । चन्द्रो ब्रह्म क्षेत्रविच्च रुद्रश्चेत्यधिदेवताः ।। ३२ 

एते सर्वे तत्त्वसंज्ञा देवा भगवदिच्छया । संहत्यैव विराड्देहं स्वस्वांशै रचयन्ति हि ।। ३३ 

तत्स्थ आत्मा तु वैराजः पुरुषः प्रोक्त ईश्वरः । स्वाङ्गोत्पन्नाम्बुशयनाद्यश्च नारायणः स्मृतः ।। ३४ 

तन्नाभिकमलाद्बह्मा जायते राजसः सति ! । जीवांस्तदात्मना सर्वाञ्च्छ्रीकृष्णः सृजतीश्वरः ।। ३५ 

प्रजेषांश्च मनून्देवानृषीन्पितृन् पृथक् पृथक् । गन्धर्वांश्चारणान्सिद्धान् यक्षान्विद्याधरासुरान् ।। ३६ 

किंपुरुषांश्चाप्सरसः किन्नरानुरगांस्तथा । मातृः पिशाचान् रक्षांसि भूतान् प्रेतान्विनायकान् ।। ३७ 

वेतालोन्मादकूष्माण्डन् वृद्धबालग्रहांस्तथा । पशून्मृगान् खगान्वृक्षान् पर्वतांश्च सरीसृपान् ।। ३८ 

स्थावरा जङ्गमा येऽन्ये भूवारिगगनौकसः । सर्वांस्तांश्च यथाकर्मगुणदेहान् सृजत्यसौ ।। ३९ 

शुद्धसत्त्वा मिश्र राजसास्तामसास्तथा । तेषु मिश्रगुणाश्चैके सन्ति कैचिच्च निर्गुणाः ।।४० 

गुणस्वभावानुरूपं पुण्यं वाऽधं च मिश्रितम् । कर्म ते कुर्वते जीवाः कृष्णभक्तिं तु निर्गुणाः ।। ४१ 

एवं स भगवान्मातर्ब्रह्मात्म सृजति प्रजाः । पाति ता विष्णुरूपश्च शिवात्मा संहरत्यपि ।। ४२ 

असौ जीवेषु सर्वेषु प्रविश्य पुरुषात्मना । यथा कर्म फलं दत्ते तेभ्यः साम्यमुपाश्रितः ।। ४३ 

स हरिस्त्वक्षरस्याथ प्रकृतेः पुरुषस्य च । प्रधानपुरुषाणां च महदादिगणस्य च ।। ४४ 

कालस्य स्थूलसूक्ष्मस्य चरतोऽण्डे च तद्बहिः । एतेषां कार्यभूतस्य वैराजस्य महामते ! ।। ४५ 

तज्जातानां प्रजेशानां ब्रह्मादीनां च सर्वशः । नियन्ता ह्येक एवास्ति सम्राट् खण्डभुजामिव ।। ४६ 

एषां यत्राधिकारे ये जगतस्तेन योजिताः । ते सावधानास्तद्बीतास्तदाज्ञायां सदा स्थिताः ।। ४७ 

एवं हि मातः ! सर्वेऽपि परतन्त्रा भवन्ति हि । कृष्ण एकः स्वतन्त्रोऽस्ति सर्वसेव्यस्ततस्तु सः ।।४८

परमात्मस्वरूपस्य ज्ञानमित्थं प्रकीर्तितम् । प्राप्तेन सग्दुरोर्येन ज्ञातव्यं नावशिष्यते ।। ४९ 

य इत्थमात्मानमथात्मनाथं सतां प्रसङ्गादवगत्य सम्यक् ।
करोति भक्तिं भवबन्धहर्तुः श्रीवासुदेवस्य स मुक्त उक्तः ।। ५० 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
    हरिगीतायां ज्ञानस्वरूपनिरूपणनामा चतुस्त्रिंशोऽध्यायः ।। ३४ ।।