पञ्चत्रिंशोऽध्याय

श्रीहरिरुवाच - 

वैराग्यस्य स्वरूपं ते कथयाम्यथ मानदे ! । भगवन्तं विनाऽन्यत्र रागाभावस्तदुच्यते ।। १ 

देहे च दैहिकेष्वम्ब ! स्त्रीपुत्रधनवेश्मसु । पशुयानोपकरणक्षेत्रादिष्वरुचिस्तथा ।। २ 

शब्दादिपञ्चविषयभोगेषु विविधेषु च । अनर्घ्यवस्त्रभूषादौ राज्यभोगेषु चारुचिः ।। ३ 

स्वर्गादौ पुण्यलोके च सद्बोगेष्वस्थिलेष्वपि । अनासक्तिः सर्वथेति वैराग्यं स्पष्टमीरितम् ।। ४

प्रेमवत्युवाच -

वैराग्यमीदृशं कृष्ण ! जीवानामुदियात्कथम् । वक्तुमर्हसि सर्वज्ञो मह्यं तत्तत्त्वतो भवान् ।। ५

श्रीहरिरुवाच - 

वैराग्यस्य समुत्पत्तिः सर्वेषामपि देहिनाम् । लोकानां चैव भोगानां भवति क्षयदर्शनात् ।। ६ 

नित्यो दैनन्दिनश्चैव प्राकृताख्यस्तृतीयकः । आत्यन्तिकश्चेति मातः ! प्रलयोऽस्ति चतुर्विधः ।। ७ 

तत्र प्रकतिकार्यस्य ब्रह्माण्डस्याखिलस्य च । ब्रह्मादेः स्थावरान्तस्य भोगानां चापि सर्वशः ।। ८ 

विनाशो जायते नूनं कालेनैव बलीयसा । एवं क्षयं लोकयतां वैराग्यं तेषु सम्भवेत् ।। ९ 

तथैव दुःखदृष्टयापि देहिनां तत्समुद्बवः । भवेदुःखं तु सर्वेषां फलं दुष्कृतकर्मणः ।। १० 

शिश्नोदरतृपां भूमौ सङ्गादेवासतां नृणाम् । प्रवृत्तिर्जायते पापे प्राणिनामतिदुःखदा ।। ११ 

विलीयते च सद्बुद्धिर्धर्मनिष्ठा ततो नृणाम् । ज्ञानादयो गुणाः सर्वे नश्यन्ति च कुसङ्गतः ।। १२ 

देहेऽहन्ता च तेनैव ममता दैहिकेषु च । विवर्धते ततस्तेषु ह्यासक्तिर्जायते भृशम् ।। १३ 

देहस्त्रीपुत्रवित्तादौ तेऽहन्ताममतावशात् । आसक्तास्तत्कृते नानापापकर्माणि कुर्वते ।। १४ 

वञ्चयन्ति परन्यासान्विश्वस्तं घातयन्ति च । दम्भपैशुन्यशठतानृतवाद परा नराः ।। १५ 

मिथ्यापवादानन्येषु ददत्तश्च परद्रुहः । हिंस्राः स्तेना अनीत्यैव कुटुम्बं पोषयन्ति ते ।। १६ 

इतस्तत उपानीय येन केनापि पाप्मना । कर्मणा गर्हितेनैव स्वानि पुष्णन्ति तैर्निजान् ।। १७ 

तदासक्तया स्ववेदोक्तं धर्मं वर्णाश्रमात्मकम् । त्यक्त्वोपधर्मवेषादि दधत्ते च निरङ्कुशाः ।। १८ 

गोविप्राणां च साधूनां वेदतीर्थामृतान्धसाम् । द्रोग्धारो मानिनः स्तब्धा विमुखा विष्णुभक्तितः ।। १९

खादन्ति मांसानि सुरा मद्यानि च पिबन्त्यपि । सज्जन्ते च परस्त्रीषु विधवासु च कामतः ।। २० 

अपेयपानं चाभक्ष्यभक्षणं कुर्वते मुहुः । वदन्त्यवाच्यानि च ते निस्त्रपाश्च मदोद्धताः ।। २१ 

य इत्थं दुष्टकर्माणो मानवाः सन्ति भूतले । अन्तकाले लभन्ते ते कृच्छ्रं भूरितरं सति ! ।। २२ 

यमदूतास्तदाऽयान्ति नेतुं तानतिनिर्दयाः । वक्रतुण्डाः पाशहस्ता भयङ्करसमीक्षणाः ।। २३ 

तेषां वीक्षणमात्रेण ते त्रुटयद्देहबन्धनाः । सन्त्रस्तावेपमानाङ्गा जायन्ते ह्यतिविक्लवाः ।। २४ 

ते लिङ्गदेह आबध्य स्थूलातिदृढभावने । नयन्ति तान् यमपुरं दीर्घेणैव कदध्वना ।। २५ 

कशाभिर्लोहदण्डैश्च ताडयमाना भृशं पथि । क्रूरैर्यमानुगैः पृष्ठे रुदन्त्युच्चैरनाश्रयाः ।। २६ 

अर्कदावाग्निसन्तप्तवालुके भूरिकण्टके । अशक्ताश्चलितुं मार्गे ताडयन्ते ते च तैर्भृशम् ।। २७ 

पतिताः कृच्छ्रतो भूमावुत्थाप्य पुनरर्दनैः । चाल्यन्ते पापिनो याम्यैः सत्वरं क्वाप्यविश्रमम् ।। २८ 

त एवमतिकृच्छ्रेण नीयन्ते तैर्यमालयम् । यथा राजभटैरत्र स्तेनाद्या राजमन्दिरम् ।। २९ 

तेषां दुष्टानि कर्माणि मनोवाक्कायजान्यपि । यमो जानाति सर्वाणि चित्रगुप्तश्च तत्र वै ।। ३० 

मुक्तिसाधनमानुष्यदेहव्यर्थीकृते रुषा । अपश्यंस्तान् यमो दूतैर्दापयत्यतियातनाः ।। ३१ 

नरकाणां दारुणानां भोग्यानां पापकर्मभिः । शतानि च सहस्राणि वर्तन्ते हि यमालये ।। ३२ 

पापिनस्तेषु महतीं प्राप्नुवन्ति हि वेदनाम् । नामानि तत्र केषञ्चिच्छृणु मातर्वदामि ते ।। ३३ 

तामिस्रश्चान्धतामिस्रो महारौरवरौरवौ । कुम्भीपाकः कालसूत्रमसिपत्रवनं तथा ।। ३४ 

अन्धकूपः शूकरास्यं सन्दंशः कृमिभोजनः । तप्तसूर्मिर्वैतरणी शाल्मलिर्वज्रकण्टकः ।। ३५ 

प्राणरोधश्च पूयोदः सारमेयादनं तथा । लालाभक्षो वैशसनमयःपानमवीचिका ।। ३६ 

क्षारकर्दममुख्याश्च सन्त्येवान्ये सहस्रशः । शन्तो यत्र पच्यन्ते नरा दुष्कृतकारिणः ।। ३७ 

दुष्कृतं यादृशं यस्य तादृशे निरये तु तम् । यमः क्षेपयति क्रुद्धो दूतैस्तत्कदनोद्यतैः ।। ३८ 

अङ्गानि पापिनां याम्याश्छित्त्वा छित्त्वा कुठारकैः । चर्वन्ति वज्रदशनाः खादयन्ति च तानि तैः ।। ३९

दाहयन्ति प्रदीप्तेऽग्नौ तप्त तैलेक्षिपन्ति च । सर्पैश्च वृश्चिकैर्गृध्रैः श्वभिस्तान् खादयन्ति च ।। ४० 

उद्धारयन्ति चान्त्राणि तेषां ते जीवतामपि । भोग्यकर्मवशात्तत्र म्रियन्ते नैव पापिनः ।। ४१ 

यथा यथेह तैर्जीवा हता ये ये तथा तथा । तैस्तैस्तान् घातयन्त्युग्रा याम्या मुग्दरपाणयः ।। ४२ 

दारयन्ति गजैः क्वापि पातयन्ति च तान्नगात् । विषाग्निधूमे रुन्धन्ति जले च क्षारकर्दमे ।। ४३ 

श्लेषयन्ति तप्तलोहप्रतिमास्तान् यमानुगाः । प्रवेशयन्ति नेत्रेषु शलाकाश्चायसीरपि ।। ४४ 

सिञ्चन्ति सीसं कर्णेषु रसं लौहं मुखेषु च । रेतोविण्मूत्रपूयानि पाययन्ति च भूरिशः ।। ४५ 

सीव्यन्ति दीर्घसूचीभिस्त्वचस्तेषां विदार्य च । निष्पेषयन्ति यन्त्रेषु तांश्च क्रूरा यमानुगाः ।। ४६ 

एवं विधास्ते बहुशो यातनाः प्राप्नुवन्त्यथ । जरायुजाण्डजोद्बिज्जस्वेदजाख्याः खनीश्च ते ।। ४७ 

गर्भवासमहादुःखं जन्मदुःखं ततो महत् । व्याधिदुःखं जरादुःखं मृत्युदुःखं पुनः पुनः ।। ४८ 

आध्यात्मिकादि त्रिविधं दुःखं मातश्च ते जनाः । यथाकर्म लभन्ते वै रुदन्तो भुञ्जते च तत् ।। ४९ 

युगानां च सहस्राणि शतानि च पुनः पुनः । भ्रमन्ति तासु ते जीवा भूरिदुःखमयीषु च ।। ५० 

प्राप्नुवन्तः सृतीरित्थं क्वापि कृष्णकृपावशात् । नरदेहं लभन्ते ते भवमुक्तयेकसाधनम् ।। ५१ 

तं प्राप्य ये तु सत्सङ्गं कृत्वा कृष्णं भजन्ति ते । भुक्तिं च स्वेप्सितां मुक्तिं लभन्ते जननि ! ध्रुवम् ।। ५२

ये त्वसत्सङ्गतः स्त्र्यादौ सज्जन्तेऽत्र कुबुद्धयः । कृष्णभक्तिविहीनास्ते दुःखं यान्त्येव पूर्ववत् ।। ५३

यमदूतकरान्प्राप्य महतीर्यान्ति यातनाः । योनीश्चतुरशीतिं च लक्षाणि पुनरेव ते ।। ५४ 

एवं संसृतिदुःखं ये पश्यन्त्यत्र मुहूर्नृणाम् । तेषामुदेति वैराग्यं सत्सङ्गात्तच्च वर्धते ।। ५५ 

ततो विरक्ताः कुर्वन्ति दुःखक्षयभयोज्झितम् । कृष्णाश्रयं सदानन्दं भीता दुःसङ्गतः सति ! ।। ५६ 

वैराग्यहीनस्य सुखं नास्ति दुःखविवर्जितम् । भक्तिर्न वर्धते पुंसां वैराग्येण विना द्रुतम् ।। ५७ 

मायिकेषु विरक्तानां पदार्थेषु विवर्धते । कृष्णेऽनुरागो जननि ! तेन यान्ति परां गति ।। ५८ 

स्वरूपमित्थं जनयित्रि ! तुभ्यं प्रोक्तं विरक्तेः सह कारणेन । वदामिं भक्तेरथ तन्मुमुक्षोरभीष्टदाया भवपाशबन्धात् ।। ५९

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
हरिगीतायां वैराग्यस्वरूपलक्षणनिरूपणनामा पञ्चत्रिंशोऽध्यायः ।। ३५ ।।