षट्त्रिंशोऽध्यायः

श्रीहरिरुवाच - 


भजधातोस्तु सेवार्थः प्रेम क्तिन्प्रत्यस्य च । स्नेहेन भगवत्सेवा भक्तिरित्युच्यते बुधैः ।। १ 

पतिव्रता यथा नारी सेवेत स्वपतिं तथा । अनन्यभावेन हरिं मुमुक्षुः सर्वदा भजेत् ।। २ 

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनंदास्यं सख्यमात्मनिवेदनम् ।। ३ 

लक्षणानि नवैतानि तस्याः सन्ति हि येषु च । श्रित एकमपि प्राणी सभुक्तिं मुक्तिमाप्नुयात् ।। ४ 

श्रवणं तत्र कर्तव्यं सर्वदा जन्मकर्मणाम् । श्रीकृष्णस्य स्वधर्मस्थतद्बक्तवदनात्सति ! ।। ५ 

वराहाद्यवताराणां श्रीकृष्णस्यैव यानि च । चरित्राण्यादारात्तानि श्रोतव्यानि मुमुक्षुणा ।। ६ 

तथा श्रीकृष्णभक्तस्य प्रह्लादस्य ध्रुवस्य च । प्रियव्रताम्बरीषादेः श्रोतव्याऽदरतः कथा ।। ७ 

कीर्तनं राधिकाभर्तुश्चरित्राणां च तत्सताम् । कर्तव्यं च कथावार्तास्तेषामेव सदादरात् ।। ८ 

कृष्णतद्बक्तसम्बन्धग्रन्थानां पठनं तथा । पाठनं नित्यपाठश्च कर्तव्यः स्वहितार्थिना ।। ९ 

छन्दोनिबद्धपद्यानां गद्यानां च व्रजेशितुः ।संस्कृतानां प्राकृतानां कार्यं वा गायनं मुदा ।। १० 

कौशल्ये सति वीणादिवाद्यानुगतमेव तत् । कार्यं वा तालिकाध्वानैस्तद्धीनं वापि कर्हिचित् ।। ११ 

प्रभोः स्तुतिः प्रार्थना च नामसङ्कीर्तनं तथा । कार्यं श्लोकादिभिर्वाम्ब ! प्रीत्या वाक्यैर्मनोरमैः ।। १२

साङ्गोपाङ्गा भगवतो मूर्तिश्चिन्त्या हृदम्बुजे । एकैकमङ्गं पादादि ततश्च हसितावधि ।। १३ 

नाम्नां वृन्दावनविधोः कर्तव्यं स्मरणं हृदा । चरित्राणां गुणानां च जप्तव्यस्तन्मनुस्तथा ।। १४ 

तथा गोलोकवैकुण्ठादीनां धाम्नां जगत्पतेः । तत्रत्यपार्षदादीनां कार्यं च स्मरणं प्रसूः ! ।। १५ 

पादसंवाहनं कार्यं प्रत्यक्षस्य तु सत्पतेः । अन्यथा मानसं कार्यं स्पर्शोऽङ्घ्रेः प्रतिमासु तु ।। १६ 

उत्पत्तिस्थितिनाशशक्तिमजयज्ञोशा हि यत्सेवया प्रापुः ।स्पर्शत एव यस्य च पुनात्यण्डं त्रिवर्त्मव्रजा ।।
मायाकालभयं यदाश्रयवतां नश्यत्यथो सेव्यते ।यो राधाकमलादिभिर्भगवतोऽङ्घ्रिं तं न सेवेत कः ।। १७ 

यत्संसेवनतश्च पद्मनिलयादिभ्योऽपि कीर्तिं । ययुर्भूयिष्ठां व्रजयोषितः कविवरव्यासादिगेयां भुवि ।।
तल्लीलानरनाटनस्य चरणं वृन्दावनेन्दोर्मुदा ।सेव्यं संसृतिमुक्तिकामुकनरैस्तेषां हि नान्या गतिः ।। १८ 

अर्चनं तु द्विधा प्रोक्तं मातः ! कृष्णस्य सात्त्वतैः । आभ्यन्तरं तथा बाह्यं यथाशक्ति यथाविधि ।१९

यथाश्रुतं हृदि ध्यात्वा कृष्णं मानसकल्पितैः । महोपचारैरर्चा तु प्रोक्तं तत्रादिमं बुधैः ।। २० 

उपचारैर्यथालब्धैर्बहिः कृष्णस्य पूजनम् । यथाधिकारं वेदोक्तमन्त्राद्यैस्तद्द्वितीयकम् ।। २१ 

आद्यमादौ विधायैव द्वितीयं तत आचरेत् । चलायां प्रतिमायां तु कृष्णमावाह्य पूजयेत् ।। २२ 

मद्यमांसादिसंसर्गरहितैः शुचिभिस्तथा । द्रव्यैः प्रसिद्धैः कृष्णोऽर्च्यो ह्यन्यदेवासमर्पितैः ।। २३ 

कृष्णं सुंस्नप्य वासांसि धारयेत यथाचितम् । अलङ्कारांश्च विविधान् यथास्थानं तु धारयेत् ।। २४ 

काश्मीरकेसरोपेतचन्दनाद्यनुलेपनम् । यथा ऋत्वर्चकः कुर्यात् प्रेम्णा च तिलकं प्रभोः ।। २५ 

हारान्सुगन्धिपुष्पाणामवतंसांश्च शेखरान् । भगवन्तं धारयित्वा धूपं दीपं समर्पयेत् ।। २६ 

यथर्तु च यथाशक्ति नैवेद्यमुपकल्पयेत् । महानीराजनं कुर्याद्वादित्रनिनदैः सह ।। २७ 

प्रदक्षिणां च स्तवनं प्रार्थनां च सनमस्कृतिम् । कुर्यादित्थं प्रतिदिनं तत् कृष्णस्यार्चनं स्मृतम् ।। २८

प्रातःसङ्गवमध्याह्नापरोषु निशामुखे । कृष्णस्येत्थं पञ्चकालमर्चनं प्रोक्तमुत्तमम् ।। २९ 

प्रत्यूषकाले मध्याह्ने सायं चेति त्रिरर्चनम् । मध्यमं ह्येककालं तत्कनीयोऽशक्तदेहिनाम् ।। ३० 

जन्मोत्सवेषु सर्वेषु कृष्णस्यैकादशीषु च । कर्तव्या महती पूजागीतवादित्रसंयुता ।। ३१ 

उपवासो जागरश्च कर्तव्यस्तेषु शक्तितः । पारणाहेषूत्सवेषु भोज्या विप्राश्च साधवः ।। ३२ 

धनिकः कारयेत्कृष्णमन्दिराणि दृढानि च । प्रतिष्ठां तेषु कृष्णस्य कारयेत्स महोत्सवैः ।। ३३ 

पूजाप्रवाहसिद्धयर्थं ग्रामक्षेत्रधनादिभिः । तद्वृत्तिमपि निर्बाधां सान्तत्येनैव वर्तयेत् ।। ३४ 

कूपं वापीं तडागादिं कृष्णार्थं पुष्पवाटिकाम् । कारयेद्वैष्णवान् यज्ञानहिंसान्विदधीत च ।। ३५ 

श्रीकृष्णस्यैव मन्त्राणां पुरश्चर्यां विधानतः । ग्रन्थानां तत्पराणां च कारयेद्वैष्णवैर्द्विजैः ।। ३६ 

कृष्णार्चाशिष्टगन्धाद्यैरर्च्याः सर्वाश्च देवताः । पितरः साधवो विप्रास्तर्प्याः कृष्णार्पितान्धसा ।। ३७ 

साष्टाङ्गं वन्दनं कार्यं श्रीकृष्णाय च पूरुषैः । पञ्चाङ्गमेव नारीभिर्भक्ताभिस्तु शुचिव्रते ! ।। ३८ 

श्रीकृष्णपादस्पृष्टेषु रजःसु परिलुण्ठनम् । कार्यमक्रूरवच्छीर्षे निधातव्यानि तानि च ।। ३९ 

दास्यं भगवतः कार्यं हित्वा मानं च दूरतः । यथाकालं दास इव परिचर्यापरो भवेत् ।। ४० 

स्वयमेवाहरेत्तोयं कृष्णार्थं कुसुमानि च । तुलसीं घर्षयेग्दन्धं कुर्यात् पाकं शुचिः शुभम् ।। ४१ 

तालवृन्तादिभिः कृष्णं वीजयेच्च यथाऋतु । सम्मार्जनं चोपलेपं कुर्याच्छ्रीकृष्णमन्दिरे ।। ४२ 

यथोचितं च भक्तानामन्नतोयफलादिभिः । कुर्वीत सेवनं प्रीत्या निर्मानः प्रणमेच्च तान् ।। ४३ 

द्रौपद्यर्जुनवत्कार्यं सख्यं कृष्णेन मानदे ! । देहस्त्रीपुत्रवित्ताद्यैः कार्यः स्नेहोऽधिकः प्रभौ ।। ४४ 

मानुष्यनाटयं दधतः क्रियास्वस्य न दोषधीः । क्वापि कार्याऽथ विश्वासः कार्योऽस्यैव दृढः सति ! ।।४५

लक्षणं नवमं भक्तेः श्रृण्वथात्मनिवेदनम् । कृष्णार्थ एव कर्तव्य आत्मा जननि ! सर्वथा ।। ४६ 

देहेन्द्रियान्तःकरणस्वभावानां तथा पितुः । पुत्रादेः स्वजनस्यापि वशे वर्तेत न क्वचित् ।। ४७ 

कृष्णाधीनो भवेन्नित्यं कृष्णार्थसकलक्रियः ।कृष्णभक्तौ विघ्नकृतः स्वभावस्वजनांस्त्यजेत् ।। ४८

कृष्णस्यैवेक्षणं कुर्यादृशा श्रुत्या च तत्कथाम् । श्रृणुयाच्च त्वचा स्पर्शं कुर्यात्तस्यैव पादयोः ।।४९

तग्दुणोच्चारणे जिह्वां तन्नैवेद्याशने तथा । कुर्यान्नासां तदुच्छिष्टपुष्पाद्याग्रहणे परम् ।। ५० 

हस्तौ तत्परिचर्यायां शीर्षं तदभिवन्दने । प्रदक्षिणायां तस्याङ्घ्री कुर्यात्तन्निकषागतौ ।। ५१ 

सङ्कल्पान्मनसा कुर्यात्कृष्णस्यैव च निश्चयम् । धिया च चेतसाऽस्यैव कुर्याच्चिन्तनमञ्जसा ।। ५२ 

कृष्णदासत्वाभिमानः स्वस्मिन्कार्यस्तथाऽहमा । कृष्णार्थमेव कार्या च कृषिर्व्यापार उद्यमः ।। ५३

यद्यत्स्वेष्टं भवेत्तत्तत्कृष्णायैव निवेदयेत् । गन्धपुष्पांशुकादीनि तत्प्रसादीनि धारयेत् ।। ५४ 

पत्रमात्रमपि क्वापि कृष्णायानर्पितं तु यत् । तन्न भक्ष्यं तथाभूतं न पेयं वारि चानघे ! ।। ५५ 

तपोयज्ञाव्रतं दानं वैष्णवानां च सेवनम् । प्रसन्नतायै कृष्णस्य कर्तव्यं तस्य सेवकैः ।। ५६ 

एवं भजन्ति ये कृष्णं श्रुत्यादिनवलक्ष्मया । भक्तया ते कथिता भक्ता द्विविधास्तेऽपि कीर्तिताः ।।५७

तत्राद्यास्तु सकामास्ते धर्ममर्थं च विस्तृतम् । कामं च स्वेप्सितं मोक्षं कृष्णादेवाप्नुवन्ति हि ।। ५८ 

देहान्ते ते च कृष्णस्य गोलोकादिषु धामसु । लभन्ते स्वेष्टसौख्यानि तस्मादेवाक्षयाणि हि ।। ५९ 

निष्कामा इतरे ते तु कृष्णसेवनमन्तरा । मुक्तीश्चतुर्विधा सिद्धीश्चाष्टौ नेच्छन्ति कर्हिचित् ।। ६० 

दीयमानं भगवताप्यैश्वर्यमिदमूर्जितम् । तस्य सेवान्तरायत्वान्न गृन्ति हृदाऽपि ते ।। ६१ 

निष्कामभावेनेत्थं यो मातः ! कृष्णं भजेन्नरः । भक्तोत्तमः स विज्ञोयः पूर्णो हृदयमस्य हि ।। ६२ 

भगवन्तं प्रतिदिनं सेवमानस्य तस्य च । प्रेमा विवर्धतेऽत्यर्थं स च विघ्नैर्न हन्यते ।। ६३ 

यथा प्रवाहो गङ्गाया अन्तरायान् गिरीनपि । विभिद्यावगणय्याशु समुद्रमभियाति हि ।। ६४ 

तथा प्रेमाऽस्य भक्तस्य देशकालक्रियामुखान् । विघ्नान्महत उल्लङ्घय कृष्णमेव प्रपद्यते ।। ६५ 

आन्तराणां च बाह्यानां करणानां तु सर्वशः । स्वभावाद्वृत्तयः कृष्णे तस्य स्युर्विषयेष्विव ।। ६६ 

साक्षात्कृष्णे भगवति प्राप्तस्नेहभरः स तु । नानुरक्तो भवेत्क्वापि तं विनाऽन्यत्र वस्तुनि ।। ६७ 

लोकेऽस्ति द्विविधं वस्तु रमणीयं तथेतरत् । तन्नास्य रमणीयं यदुःखरूपं भवेद्धि तत् ।। ६८ 

अरम्येषु पदार्थेषु क्वापि किञ्चित्सुखं भवेत् । रम्येषु तु महदुःखं भवेत्कृष्णानुरागिणः ।। ६९ 

विषपङ्कायते तस्य मलयागरुचन्दनम् । सर्पायन्ते पुष्पहारा भूषणं दूषणायते ।। ७० 

रुचिराः कौसुमाः शय्या दीप्तपावकसन्निभाः । भवन्ति तस्य चन्द्रोऽपि भक्तस्य तपनायते ।। ७१ 

रुचिरं मन्दिरं तस्य घोरारण्यायते नवम् । सुगन्धिः शीतलो वायुर्दावज्वालायत्ते भृशम् ।। ७२ 

भारायते सूक्ष्मवासः स्वजनश्च वृकायते । रूपं कुष्ठायते तस्य स्वादु भोज्यं विषायते ।। ७३ 

मनोज्ञां गायनं तस्य तीक्ष्णबाणायते तथा । राक्षसीव भवत्येव नारी देवाङ्गनोपमा ।। ७४ 

स्नेहोऽनुमेयो भक्तस्य चिह्नैरेतैर्विरागिणः । कृष्ण एव स्फुरत्येकस्तस्यान्तश्च बहिः सदा ।। ७५ 

सहसा स्फुरितं स्नेहात्तं दृष्ट्वा हसति क्वचित् । क्वचिद्व्रजन्तमालोक्य विरहादिव रोदिति ।। ७६ 

आनन्दान्नृत्यति क्वापि क्वापि सम्भाषतेऽमुना । साष्टाङ्गं वन्दते क्वापि क्वचित्तूष्णीं च तिष्ठति ।। ७७ 

अपराधान् क्षमस्वेति क्वापि प्रार्थयते हरिम् । स्नेहेन विवशः क्वापि स च गायति निस्त्रपः ।। ७८ 

हरे! नारायण! स्वामिन् ! कृष्ण ! गोविन्द ! माधव! इत्याद्याः कीर्तयत्युच्चैरभिधाः क्वापि सत्पतेः ।। ७९

इत्यादिभिर्बहुविधैश्चिह्नैः स उपलक्षितः । पुनाति भुवनं भक्तः स्वपादरजसाऽखिलम् ।। ८० 

अनायासेनैव मातर्भवत्यस्य हरेस्तनौ । निरोधः प्राणमनसोः प्रेमभक्तस्य निश्चितम् ।। ८१ 

प्रारब्धान्ते विहायासौ पुमान्वा स्त्री कलेवरम् । गुणान्मायामयां स्त्रींश्च हित्वा भवति निर्गुणः ।। ८२ 

दिव्यां तनुं ब्रह्मरूपां प्राप्य कृष्णेच्छया स च । दिव्यं विमानमारुह्य स्वेष्टं तद्धाम याति वै ।। ८३ 

गोलोके सोऽक्षरे धाम्नि वैकुण्ठे वापि भक्तराट् । कृष्णस्य वर्ततेऽखण्डं सेवायां सर्ववन्दितः ।। ८४

तेन कृष्णेन दत्तानि ह्यनन्तान्यक्षयाणि च । तत्र दिव्यानि सौख्यानि प्राप्नोति जननि ! ध्रुवम् ।। ८५ 

अध्यात्मशास्त्रमिति ते मया प्रोक्तमशेषतः । एतावदेव जीवानां मतं निःश्रेयसाय मे ।। ८६ 

वेदानां पञ्चरात्रस्य रहस्यं साङ्खययोगयोः । धर्मशास्त्रस्य चाप्येतद्विस्पष्टमुदितं मया ।। ८७ 

तस्मादेतद्बवत्यापि श्रेयसे धार्यमात्मनि । तेन मुक्ता सर्वकष्टात्प्राप्स्यसे परमं सुखम् ।। ८८ 

एतद्रहस्यं परमं यः श्रोष्यति पठिष्यति । भविष्यति तयोः कृष्णे भक्तिश्च सुखमीप्सितम् ।। ८९ 


सुव्रत उवाच - 

रहस्यमिति पुत्रेण गीतं माता निशम्य सा । प्रसन्नहृदयाऽत्यन्तं प्रोचे निःसंशया सती ।। ९० 


प्रेमवत्युवाच - 

स्वधर्मज्ञानवैराग्यैरुपेता नवलक्षणा । भक्तिः कृष्णे त्वया प्रोक्ता नृणां श्रेयस्करी हरे ! ।। ९१ 

स तु कृष्णस्त्वमेवासि हरिनामाऽत्र साम्प्रतम् । निश्चयेनेति जानामि त्वद्वाक्यैर्नष्टसंशया ।। ९२ 

त्वय्येव संयोज्य मनो मायाकालसमुद्बवात् । समग्रकष्टान्मुक्तास्मि यामि धामाद्य ते परम् ।। ९३ 


सुव्रत उवाच - 

इत्युक्त्वा सा तमेवान्तर्हरिं नारायणं प्रभुम् । दध्यौ विशुद्धमनसा तेनाभूद्देहविस्मृतिः ।। ९४ 

गीतामेतां हि साक्षाद्धरिमुखकमलान्निःसृतां वेदसारं ।
कृष्णं संपूज्य भक्तया प्रतिदिनमखिलामत्र वाध्यायमेकम् ।।
नानाकामाभिलाषी ननु धरणिपते ! यः पठेद्वा निशाम्येद्यायात्स्वेष्टं ।
स सौख्यं त्वरितमथ जनः कृष्णभक्तिं निराशीः ।। ९५ ।। 

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे 
हरिगीतायां भक्तिस्वरूपलक्षणनिरूपणनामा षट्त्रिंशोऽध्यायः ।। ३६ ।।